________________
सोपानम् ]
सामान्यविशेषात्मकत्वस्थापनम् ।
गुणद्वारेणापि देशनायां भगवतः प्रवृत्तिरुपलभ्यतेऽतो न गुणाभाव इत्याह
जपन्ति अस्थि समये एगगुणो दसगुणो अनंतगुणो । रुवाई परिणामो भण्णइ तम्हा गुणविसेसो ॥ १० ॥ जल्पन्त्यस्ति समये एकगुणो दशगुणोऽनन्तगुणः । रूपादि: परिणामो भण्यते तस्मादुणविशेषः ॥ छाया ||
जल्पन्तीति द्रव्यगुणान्यत्ववादिनो जल्पन्ति विद्यत एव सिद्धान्ते ' एगगुणकालाए दुगुणकालाए ' [ भग० श० पू० उ० ७, सू० २१७] इत्यादि रूपादौ व्यपदेशः, तस्माद्रूपादिर्गुणविशेष एवेत्यस्ति गुणार्थिको नयः, उपदिष्टश्च भगवतेति ॥ १० ॥
अत्र सिद्धान्तवाद्याह
गुणसहमंतरेणावि तंतु पज्जवविसेससंखाणं ।
सिज्झइ णवरं संखाणसत्यधम्मो तइगुणो ति ॥ ११ ॥
गुणशब्दमन्तरेणापि तत्तु पर्यवविशेषसंख्यानम् । सिद्ध्यति नवरं संख्यानशास्त्रधर्मः तावडुण इति ॥ छाया ॥
गुणेति, रूपाद्यभिधायिगुणशब्दव्यतिरेकेणापि एकगुणकाल इत्यादिकं पर्याय विशेषसंख्यानवाचकं वचः सिद्ध्यति न पुनर्गुणास्तिकनयप्रतिपादकत्वेन, यतः संख्यानं गणितशास्त्रधर्मः, अयं तावद्गुण इति, एतावताऽधिको न्यूनो वा भाव इति गणितशास्त्रधर्मत्वादस्येत्यर्थः ॥ ११ ॥
दृष्टान्तोऽमुमेवार्थं द्रढयति
जह दस दसगुणम्मि य एगम्मि दसत्तणं समं चैव । अहियम्मि विगुणसदे तहेय एयं पिट्ठवं ॥ १२ ॥
: २६६ :
यथा दशसु दशगुणे व एकस्मिन् दशत्वं समं चैव । अधिकेsपि गुणशब्दे तथैवैतदपि द्रष्टव्यम् ॥ छाया ||
"Aho Shrutgyanam"
5
10
15
20
यथेति यथा दशसु द्रव्येषु एकस्मिन् वा द्रव्ये दशगुणिते दशशब्दातिरेकेऽपि दशत्वं
,
सममेव तथैवैतदपि न भिद्यते परमाणुरेकगुणकृष्णादिरिति, एकादिशब्दाधिकये गुणपर्यायशब्दयोर्भेदो वस्तु पुनस्तुल्यमिति भावः, न च गुणानां गुणपर्यायत्वे गुणपर्यायवद्द्रव्यम् 25 [ तत्रा० अ० पू, सू० ३७ ] इति सूत्रं विरुध्यते, युगपदयुगपद्भाविपर्याय विशेषप्रतिपा दनार्थत्वात्तस्य, न चैवमपि मतुब्योग्यद्रव्य विभिन्न पर्यायसिद्धिः, नित्ययोगेऽत्र मतुविधामात्