________________
सम्मतितस्वसोपाने
[एकोनत्रिंशम् । द्रव्यपर्याययोः तादात्म्यात्सदाऽविनिर्भागवर्तित्वात् , अन्यथा प्रमाणबाधोपपत्तेः, संज्ञासंख्यास्खलक्षणार्थक्रियाभेदाद्वा कथञ्चित्तयोरभेदेऽपि भेदसिद्धेर्न मतुबनुपपत्तिः ।। १२ ।। एवं द्रव्यपर्याययो दैकान्तप्रतिषेधेऽभेदैकान्तवाद्याह
एयंतपक्खवाओ जो उण दव्वगुणजाइभेयम्मि । अह पुव्वपडिकुट्ठो उआहरणमित्तमेयं तु ॥ १३ ॥ एकान्तपक्षवादो यः पुनद्रव्यगुणजातिभेदेषु । .
अथ पूर्वप्रतिक्रुष्ट उदाहरणमात्रमेतत्तु ।। छाया ॥ एकान्तेति, यः पुनद्रव्यगुणजातिभेदेषु एकान्तव्यतिरिक्ताभ्युपगमवादः स पूर्वमेव प्रतिक्षिप्तः, तद्ब्राहकप्रमाणाभावात् , अभेदग्राहकस्य सर्वमेकं सदविशेषात् , विशेषे वा विय10 कुसुमवदसत्त्वप्रसङ्गादिति प्रदर्शितत्वात् , तथापि तत्स्वरूपे दायर्योत्पादनार्थमुदाहरणमात्रं वक्ष्ये ॥ १३ ॥ तदेवाह---
पिउपुत्तणत्तु भव्ययभाऊणं एगपुरिससंबंधो । ण य सो एगस्स पियत्ति सेसयाणं पिया होइ ।। १४ ॥ पितृपुत्रनप्तृभागिनेयभ्रातृणामेकपुरुषसम्बन्धः ।
न च स एकस्य पितेति शेषाणां पिता भवति ॥ छाया ॥ पित्रिति, पितृत्वादिभिर्य एकस्य पुरुषस्य सम्बन्धः तेनासावेक एव पित्रादिव्यपदेशमासादयति, न चासावेकस्य पितापुत्रसम्बन्धत इति शेषाणामपि पिता भवति ॥ १४ ॥ उपनयति
जह संबंधविसिट्टो सो पुरिसभावणिरइसओ। तह दवमिंदियगयं रूवाइविसेसणं लहइ ।। १५ ॥
यथा सम्बन्धविशिष्टोऽसौ पुरुषः पुरुषभावनिरतिशयः ।
तथा द्रव्यमिन्द्रियगतं रूपादिविशेषणं लभते ॥ छाया ॥ यथेति, यथोक्तसम्बन्धविशिष्टः पित्रादिव्यपदेशमाश्रित्यासौ पुरुषरूपतया निरतिश25 ग्रोऽपि सन् तथा द्रव्यमपि घ्राणरसनचक्षुस्त्वश्रोत्रसम्बन्धमवाप्य रूपरसगन्धस्पर्शशब्दव्य
पदेशमात्रं लभते द्रव्यस्वरूपेणाविशिष्ठमपि, न हि शकेन्द्रादिशब्दभेदाद्गीर्वाणनाथस्येव रूपा. दिशब्दभेदात् वस्तुभेदो युक्तः, तदा द्रव्याद्वैतै कान्तस्थितेः कथश्चिद्भेदाभेदवादो द्रव्यगुणयोमिथ्यावाद इति ॥ १५ ॥
20
"Aho Shrutgyanam"