________________
सोपानम् ।
सामान्यविशेषात्मकत्वस्थापनम् ।
; २६५ :
अस्य निराकरणायाह
होजाहि दुगुणमहुरं अणंतगुणकालयं तु जं दव्वं । ण उ डहरओ महल्लो वा होइ संबंधओ पुरिसो ॥ १६ ॥ भवेद् द्विगुणमधुरं अनंतगुणकृष्णं तु यद्रव्यम् ।
न वल्पको महान्या भवति सम्बन्धः पुरुषः ॥ छाया ॥ भवेदिति, यदि नाम आम्रादिद्रव्यमेव रसनसम्बन्धाद्रस इति व्यपदेशमात्रमासादयेत् , द्विगुणमधुरं रसतः कुतो भवेत् , तथा नयनसम्बन्धाद्यदि नाम कृष्णमिति भवेदनन्तगुणकृष्णं तत् कुतः स्यात्, वैषम्यभेदावगतेनयनादिसम्बन्धमात्रादसम्भवात्, तथा पुत्रादिसम्बन्धद्वारेण पित्रादिरेव पुरुषो भवेत् , न त्वल्पो महान् वेति युक्तः, विशेषप्रतिपत्ते. रुपचरितत्वे मिथ्यात्वे वा सामान्यप्रतिपत्तावपि तथाप्रसक्तरिति भावः ॥ १६ ॥ 10 अभेदैकान्तवाद्याह
भण्णइ सम्बन्धवसा जइ संबंधत्तणं अणुमयं ते । णणु संबंधविसेसे संबंधिविसेसणं सिद्धं ॥ १७ ॥ भण्यते सम्बन्धवशाधदि सम्बन्धित्वमनुमतं तव । ननु सम्बन्धविशेष सम्बन्धिविशेषणं सिद्धम् ॥ छाया ॥
15 भण्यत इति, यदि सम्बन्धसामान्यवशात्सम्बन्धित्वसामान्यं तवानुमतं ननु सम्बन्धविशेषद्वारेण तथैव सम्बन्धिविशेषोऽपि किं नाभ्युपगम्यते ॥ १७ ॥
सिद्धान्तवाद्याह--
जुज्जइ संबंधवसा संबंधिविसेसणं ण उण एयं । णयणाइविसेसगओ रूपाइविसेसपरिणामो ॥ १८ ॥ 20 युज्यते सम्वन्धवशात्सम्बन्धिविशेषणं न पुनरेतत् ।
नयनादिविशेषगतो रूपादिविशेषपरिणामः ।। छाया ॥ युज्यत इति, सम्बन्धिविशेषः संबन्धवशायुज्यते यथा दण्डादिसम्बन्धविशेषजनितसम्बन्धविशेषसमासादितसम्बन्धिविशेषोऽवगतः । द्रव्याद्वैतवादिनस्तु न सम्बन्धिविशेषः, नापि सम्बन्धविशेषः सङ्गच्छत इति कुतो नयनादिविशेषसम्बन्धविशेषजनितो रूपादिवि• 25 शेषपरिणामः ॥ १८॥
"Aho Shrutgyanam"