________________
: २६६ :
5
15
[ एकोनत्रिंशम्
नवनेकान्तवादिनोऽपि रूपरसादेरनन्तद्विगुणादिवैषम्यपरिणतिः कथमुपपन्नेत्यत्राह
rors विसमपरिणयं कह एयं होहिइत्ति उवणीयं । तं होइ परणिमित्तं ण वत्ति एत्थत्थि एगंतो ॥ १९ ॥ भण्यते विषमपरिणतं कथमेतद्भविष्यतीत्युपनीतम् । तद्भवति परनिमित्तं न वेत्यत्रास्त्येकान्तः ॥ छाया ॥
भण्यत इति, शीतोष्णस्पर्शवदेकत्रैकदा विरोधादेकत्राम्रफलादौ विषमपरिणतिः कथमिति यदि भण्यते तत्राप्तेन परनिमित्तं तद्भवतीत्युपनीतम्, द्रव्यक्षेत्रकालभावानां सहकारिणां वैश्वित्र्यात् कार्यमपि वैचित्र्यमासादयति, तदात्रादिवस्तु विषमरूपतया परनिमित्तं भवति, नवा परनिमित्तमेवेत्यत्राप्येकान्तोऽस्ति, स्वरूपस्यापि कथञ्चिन्निमित्तत्वात् तन्न 10 द्रव्याद्वैतैकान्त: सम्भवी ॥ १९ ॥
सम्मतितत्त्वसोपाने
25
द्रव्यगुणयोर्भेदेकान्तवादिना प्राक् प्रदर्शिततलक्षणस्यैकत्वप्रतिपन्यध्यक्ष बाधितत्वालक्षणान्तरं वक्तव्यं तदाह-
roars foई जम्मविगमा य गुणलक्खणं ति वत्तव्यं । एवं सह केवलिणो जुज्जइ तं णो उ दवियरल || २० ||
द्रव्यस्य स्थितिर्जन्मविगमौ च गुणलक्षणमिति वक्तव्यम् । एवं सति केवलिनो युज्यते तन्न तु द्रव्यस्य ॥ छाया ॥
द्रव्यस्येति द्रव्यस्य लक्षणं स्थितिर्गुणानाञ्च जन्मविगमौ लक्षणमिति वक्तव्यम्, एवं सति केवलिन एतल्लक्षणं युज्यते, तत्र किल केवलात्मना स्थित एव चेतनाचेतनरूपा अन्येऽर्था ज्ञेयभावेनोत्पद्यन्ते, अज्ञेयरूपतया च नश्यन्ति, न तु द्रव्यस्याण्वादेर्लक्षणमिदम्, न 20 णौ रूपादयो जायन्ते अत्यन्तभिन्नत्वाद्गव्यश्वादिवत्, अथवा केवलिनोऽपि सकलज्ञेयग्राहिणो नैतलक्षणं युज्यते, न चापि द्रव्यस्याचेतनस्य गुणगुणिनोरत्यन्तभेदेऽसत्त्वापत्तेः, असतोश्च खरविषाणादेवि लक्षणासम्भवादिति ॥ २० ॥
दव्वत्थंतरभूया मुत्ता मुत्ता य ते गुणा होज । जर मुत्ता परमाणू णत्थि अमुत्तेसु अग्गहणं ॥ २१ ॥ द्रव्यार्थान्तरभूता मूर्त्ता अमूर्त्ताश्च ते गुणा भवेयुः | यदि मूर्त्ताः परमाणको न संति अमूर्त्तेष्वग्रहणम् || छाया || द्रव्येति द्रव्यार्थान्तरभूतगुणवादिनो द्रव्यादर्थान्तरभूता गुणा मूर्त्ता अमूर्त्ता वा भवेयुः,
"Aho Shrutgyanam"