SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 10 सोपानम् । सामान्यविशेषात्मकत्वस्थापनम् । यदि मूतः न तर्हि परमाणवो भवन्ति, मूर्तिमद्रूपाद्याधारत्वात् , अनेकप्रदेशिकस्कन्धद्रव्यवत् , अथामूर्ताः, अग्रहणं तेषां, अमूर्त्तत्वादाकाशवत् , ततो द्रव्यगुणयोः कथञ्चिद्भेदाभेदावभ्युपगमनीयौ, अन्यथोक्तदोषप्रसक्तेः । तथा हि द्रव्यगुणयोः कथञ्चिद्भेदः यथाक्रममेकानेकप्रत्ययावसेयत्वात् , कथञ्चिदभेदोऽपि रूपाद्यात्मना द्रव्यस्वरूपस्य रूपादीनाञ्च द्रव्यात्मकतया प्रतीतेः, अन्यथा तदभावापत्तेः ।। २१ ।। तत: सीसमईविप्फारणमेत्तत्थोऽयं को समुल्लायो । इहरा कहामुहं चेव पत्थि एवं ससमयम्मि ॥ २२ ॥ शिष्यमतिविस्फारणमात्रार्थोऽयं कृतः समुल्लापा । इतरथा कथामुखमेव नास्ति एवं स्वसमये || छाया ॥ शिष्येति, शिष्यबुद्धिविकासनमात्रार्थोऽयं कृतः प्रबन्धः, इतरथा कथैवैषा नास्ति स्वसिद्धान्ते, किमेते गुणा गुणिनो भिन्ना आहोस्विदभिन्ना इति, अनेकान्तात्मकत्वात्सकल. वस्तुनः ॥ २२ ॥ एवंरूपे च वस्तुतत्त्वेऽन्यथारूपं तत्प्रतिपादयन्तो मिथ्यावादिन एवेत्याह ण वि अस्थि अण्णवादोण वि तव्वाओ जिणोवएसम्मि। 15 तं चेव य मण्णंता अवमण्णंता ण याति ॥ २३ ॥ . नाप्यस्त्यन्यवादो नापि तद्वादो जिनोपदेशे। तदेव च मन्यमाना अवमन्यमाना न जानन्ति ॥ छाया ॥ नेति, गुणगुणिनोरन्यवादो नैवास्ति नाप्यनन्यवादो जिनोपदेशे द्वादशाङ्गे प्रवचने, सर्वत्र कथश्चिदित्याश्रयणात् , तदेव अन्यदेवेति वा मन्यमानाः स्वमननीयमेवावमन्यमाना 20 वादिनोऽभ्युपगतविषयावज्ञाविधायित्वादज्ञा भवन्ति, अभ्युपगमनीयवस्त्वस्तित्वप्रतिपादकोपायनिमित्तापरिज्ञानान्मृषावादिवदिति तात्पर्याथः । ततोऽनेकान्तवाद एव व्यवस्थितः ॥२३॥ ___ ननु सर्वत्राने कान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तप्रसक्तिः, अथ न तत्रानेकान्तस्तदाऽव्यापकोऽनेकान्तवाद इत्यत्राहभयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाई। 25 एवं भयणाणियमो वि होइ समयाविरोहेण ॥ २४ ॥ भजनापि खलु भक्तव्या यथा भजना भजते सर्वद्रव्याणि । एवं भजनानियमोऽपि भवति समयाविरोधेन ॥ छाया ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy