Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
: २७२ :
सम्मतितस्वसोपाने
[ त्रिंशम्
गतस्य श्रोत्रेणानुपलब्धिप्रसङ्गश्च अन्यान्याकाशदेशोत्पत्तिद्वारेण तस्य श्रोत्रसमवेतत्वानुपपत्तेः, वीचीतरङ्गन्यायेनेतरेतराकाश देशादावन्यान्यशब्दोत्पत्तिप्रकल्पनायां कथं नाकाशस्य सावयवता, कि शब्द प्रत्याकाशस्य समवायिकारणताऽङ्गीक्रियते, यश्च समवायिकारणं तत्सावयवम्, यथा तन्त्वादि, समवायिकारणञ्च शब्दं प्रत्याकाशं परेणाभ्युपगतम्, न च 5 परमाण्वादिना व्यभिचारः, तस्यापि सावयवत्वात्, अन्यथा द्व्यणुकबुद्ध्यादेस्तत्कार्यंस्य सावयवत्वं न स्यात्, न च बुद्ध्यादेः सावयवत्वमसिद्धम्, आत्मनः सावयवत्वेन तद्विशेषगुणस्य बुद्ध्यादेः कथचित्तादात्म्यात् सावयवत्वोपपत्तेः । अपि च सावयवमाकाशं तद्विनाशान्यथानुपपत्तः, अनित्यञ्चाकाशं तद्विशेषगुणाभिमतशब्दविनाशान्यथानुपपत्तेः तथाहि शब्दो न तावदाश्रयविनाशाद्विनश्यति, तस्य नित्यत्वाभ्युपगमात् न विरोधिगुणप्रादुर्भावात्, 10 तन्महत्त्वादेरेकार्थसमवायित्वेन रूपरसयोरिव विरोधित्वासिद्धेः, विरोधित्वे वा श्रवणसमयेऽपि तदभावः स्यात्, तदापि तन्महत्त्वस्य भावात् । नापि संयोगादिर्विरोधिगुणः, तस्य तत्कारणत्वात् । नापि संस्कारः, तस्य गुणत्वेन शब्देऽसम्भवात् सम्भवे वा शब्दस्य द्रव्यत्वप्रसक्तिः, आकाशस्य द्रव्यत्वेन तत्सम्भवेऽपि तस्याभावे आकाशस्याप्यभावप्रसक्तिः तस्य तद्व्यतिरेकात्, व्यतिरेके वा तस्येति सम्बन्धायोगात् । नापि शब्दोपलब्धि प्रापक15 धर्माद्यभावात् तदभावः, विभिन्नाश्रयस्य तस्यानेन विनाशयितुमशक्यत्वात्, शक्यत्वे वा तदाधारस्यापि विनाशप्रसङ्गः, तस्य तदव्यतिरेकात्, तस्मादम्बरविशेषगुणत्वे शब्दस्य तद्विनाशान्यथानुपपत्त्या तस्यापि विनाशित्वम्, ततोऽपि सावयवत्वम् एवञ्च सर्वं वस्तुत्पादविनाशस्थित्यात्मकत्वात् कथञ्चित् सावयवं सिद्धम्, ततः प्रयोगविस्रसात्मक मूर्त्तिमद्रव्यानारब्धत्वेनाकाशादेरुत्पाद ऐकत्विकोऽभिधीयते, न पुनर्निरवयवकृतत्वादैकत्विकः, अयमपि 20 स्यादैकत्विकः न स्यादनैकत्विकः न वैकत्विक एव, एवं मूर्त्तिमदमूर्त्तिमवयवद्रव्यद्वयोत्पाद्यावगाहगतिस्थितीनां यथोक्तप्रकारेण तत्रोत्पत्तेरवगाहगतिस्थितिस्वभावस्य च विशिष्टकार्यत्वाद् विशिष्टकारणपूर्वकत्वसिद्धेस्तत्कारणे आकाशादिसंज्ञाः समयनिबंधनाः सिद्धाः ॥ ३० ॥
25
उत्पादव द्विगमोsपि तथाविध एवेत्याह
fararara एस विही समुदयजणियम्मि सो उ दुविययो । समुदयविभागमेत्तं अत्यंतर भावगमणं च ॥ ३१ ॥
विगमस्याप्येष विधिः समुदयजनिते स तु द्विविकल्पः । समुदयविभागमात्रमर्थान्तरभावगमनञ्च ॥ छाया ॥
विगमस्येति, स्वाभाविकः प्रयोगजनितश्चेति विगमोऽपि द्विविधः, तद्वयातिरिक्तवस्त्व
"Aho Shrutgyanam"

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420