Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् . ]
उत्पादादिविशेषनिरूपणम् ।
भावात् पूर्वावस्थाविगमव्यतिरेकेण उत्तरावस्थोत्पत्त्यनुपपत्तेः, न हि बीजादीनामविनाशेऽङ्कुरादिकार्यप्रादुर्भावो दृष्टः, न चावगाहगतिस्थित्याधारत्वं तदनाधारत्वस्वभावप्राक्तनावस्थाभ्वं समन्तरेण सम्भवति तत्र समुदयजनिते यो विनाशः स उभयत्रापि द्विविधः एकः समुदयविभागमात्रप्रकारो विनाशः, यथा पटादेः कार्यस्य तत्कारणपृथक्करणे तन्तुविभागमात्रम्, द्वितीप्रकारस्वर्थान्तरभाव गमनं विनाशः, यथा मृत्पिण्डस्य घटार्थान्तरभावनोत्पादो विनाशः । न 5 चार्थान्तररूपविनाशविनाशे मृत्पिण्डप्रादुर्भावप्रसक्तिरिति वक्तव्यम्, पूर्वोत्तरकालावस्थयोरसंकीर्णत्वात्, अतीततरत्वेन प्राक्तनावस्थाया उत्पत्तेः, अतीतस्य च वर्त्तमानताऽयोगात्, तयोः स्वस्वभावापरित्यागतस्तथानियतत्वात्, तुच्छरूपस्य स्वभावस्याभाव: स्यादपि तदभावरूपः, न तु वस्त्वन्तरादुपजायमानं वस्त्वन्तरमतीततरावस्थारूपं भवितुमर्हति, तरतमप्रत्ययार्थव्यवहाराभावप्रसक्तेः ॥ ३१ ॥
न चोत्पादविनाशयोरैकान्तिकतद्रूपताऽभ्युपगमेऽनेकान्तवादव्याघातः, कथञ्चित्तयोस्तद्रूपत्वाभ्युपगमादित्याह—
तिणि वि उपायाई अभिष्णकालो य भिण्णकाला य । अत्यंतरं अणत्थंतरं च दवियाहि गायत्र्वा ॥ ३२ ॥ योऽप्युत्पादादयोऽभिन्नकालाश्च भिन्नकालाश्च । अर्थान्तरमनर्थान्तरञ्च द्रव्याज्ज्ञातव्याः || छाया ॥
त्रय इति, उत्पादविगम स्थितिस्वभावास्त्रयोऽपि परस्परतोऽन्यकालाः, यतो न पटादेरुस्यादसमय एव विनाशः, तस्यानुत्पत्तिप्रसक्तेः, नापि तद्विनाशसमये तस्यैवोत्पत्तिः, अविनाशापत्तेः, न च तत्प्रादुर्भाव समय एव तस्थितिः, तद्रूपेणैवास्थितस्यानवस्थाप्रसक्तितः प्रादुर्भावायोगात्, न च घटरूपमृत्स्थितिकाले तस्याविनाश:, तद्रूपेणावस्थितस्य विनाशा - 20 नुपपत्तेः न च घटविनाशविशिष्टमृत्काले तस्या एवोत्पादो दृष्टः, नापि तदुत्पादविशिष्ट - मृत्समये तस्या एव ध्वंसोऽनुत्पत्तिप्रसङ्गत एव ततस्त्रयाणामपि भिन्नकालत्वात्तद्द्रव्यमर्थान्तरं नानास्वभावम्, न धन्योऽन्यव्यतिरिक्तकालोत्पादविगमध्रौव्याव्यतिरिक्त मेकस्वरूपं द्रव्यमुपपद्यते, तस्य तेभ्योऽभेदप्रसक्तेः । न च तद्भिन्नमेवास्तु, तत्रितयविकलस्य तस्य तथाऽनुपलब्धितोऽसत्वात् न चैकस्य द्रव्यस्याभावादने कान्ताभावप्रसक्तिः, यतोऽभि- 25 नकालाश्वोत्पादादयः, न हि कुशूलविनाशघटोत्पादयोर्भिन्नकालता, अन्यथा विनाशात् कार्योत्पत्तिः स्यात्, घटाद्युत्तरपर्यायानुत्पत्तावपि प्राक्तन पर्यायध्वंसप्रसक्तिश्च स्यात्, पूर्वोत्तरपयाविनाशोत्पादक्रियाया निराधाराया अयोगात्तदाधारभूतद्र व्यस्थितिरपि तदाऽभ्युपग
३५
"Aho Shrutgyanam"
: २७ :
10
15

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420