Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
10
:२५२: सम्मतितत्त्वसोपाने
[ अष्टाविंशम् साद्यपयेयसिते इति द्वे अपि ते स्वसमयो भवत्येवम् ।
परतीर्थिकवक्तव्यञ्च एकसमयान्तरोत्पादः ॥ छाया ॥ सादीति, द्वे अपि ते ज्ञानदर्शने यदि युगपनाना न भवतस्तदा स्वसिद्धान्तः सायपयवसिते इति घटते, यस्तु तयोरेकसमयान्तरोत्पादः यदा जानाति तदा न पश्यतीत्येवम 5 भिधीयते स परतीर्थिकशास्त्रं नाहद्वचनं नयाभिप्रायेण प्रवृत्तत्वादिति ।। ८५ ॥ एवम्भूतं वस्तुतत्त्वं श्रद्दधानः सम्यग्ज्ञानवानेव पुरुषः सम्यग्दृष्टिरित्याह
एवं जिणपण्णत्ते सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे सणसद्दो हवइ जुत्तो ॥ ८६ ॥ एवं जिनप्रशप्तान् श्रद्दधानस्य भावतो भावान् ।
पुरुषस्याभिनिबोधे दर्शनशब्दो भवति युक्तः ॥ छाया ॥ एवमिति, एवमनन्तरोक्तविधिना जिनप्रज्ञप्तान् भावान् श्रद्दधानस्य पुरुषस्य यदा. भिनिबोधिकं ज्ञानं तदेव सम्यग्दर्शनं विशिष्टावबोधरूपाया रुचेः सम्यग्दर्शनशब्दवाच्यत्वादिति भावः ॥ ८६ ॥
ननु यदि सम्यग्ज्ञाने सम्यग्दर्शनं नियमेन, दर्शनेऽपि रुचिलक्षणे सम्यग्ज्ञानं किमिति 15 न स्यात्, न, एकान्तरुचावपि सम्यग्ज्ञानप्रसक्तेरित्याह
सम्मण्णाणे णियमेण दसणं दसणे उ भयणिजं । सम्मण्णाण च इम ति अत्थओ होइ उववण्ण ।। ८७ ॥ सम्यग्ज्ञाने नियमेन दर्शनं दर्शने तु भजनीयम् ।
सम्यग्ज्ञानञ्चेदमित्यर्थतो भवति उपपन्नम् ॥ छाया ॥ 20 सम्यग्ज्ञान इति, सम्यग्ज्ञाने नियमेन सम्यग्दर्शनम् , सम्यग्दर्शने तु विकल्पनीयं
सम्यग्ज्ञानम् , एकान्तरुचौ न सम्भवति अनेकान्तरुचौ तु सम्यग्दर्शने समस्ति । यतश्चै. वमतः सम्यग्ज्ञानश्चेदं सम्यग्दर्शनश्च विशिष्टरुचिस्वभावमवबोधरूपमर्थतः सामर्थ्यादुपपन्नं भवति ।। ८७ ।।
अत्र साद्यपर्यवसितं केवलज्ञानं सूत्रे प्रदर्शितम् , अनुमानश्च तथाभूतस्य तस्य प्रति. 25 पादकं सम्भवति, तथाहि धातिकर्मचतुष्टयप्रक्षयाविभूतत्वात् केवलं सादि, न च तथोत्पन्नस्य
पश्चात्तस्यावरणमस्ति, अतोऽनन्तमिति न पुनरुत्पद्यते विनाशपूर्वकत्वादुत्पादस्य, न हि घटस्याविनाशे कपालानामुत्पादो दृष्ट इत्यनुत्पादव्ययात्मकं केवलमित्यभ्युपगमवतो निराकसुमाह
"Aho Shrutgyanam"

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420