Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम्
प्रत्यक्षलक्षणपरीक्षा । प्रति गमनं तत्प्रकाशनञ्च न स्यादतस्तदर्थं तदुन्मीलनं तत्संस्कारश्च न व्यर्थ उच्यते तर्हि गोलकानुषक्तकामलादेः प्रकाशकत्वं तेषां स्यात्, न हि प्रदीपः स्वात्मानं शलाकादिकं न प्रकाशयतीति दृष्टम् । गोलकान्तर्गतं किश्चित्तेजोद्रव्यमस्ति तस्य रश्मय इत्यभ्युपगमेऽप्ययं दोषस्तुल्यः, न हि काचकूपिकान्तर्गताः प्रदीपादिरश्मयस्ततो निर्गच्छन्तस्तत्सम्बद्धमर्थ न प्रका. यन्तीति, तदेवं रश्मीनामसिद्धेन ते चक्षुःशब्दाभिधेयाः । अथ रसनादयो बाह्येन्द्रियत्वात् 5 प्राप्तार्थप्रकाशका उपलब्धाः बाहोन्द्रियं च चक्षुः, ततस्तदपि प्राप्तार्थप्रकाशकम् , न च गोलकस्य बाह्यार्थप्राप्तिः सम्भाविनीति पारिशेष्यात्तगश्मीनां तत्प्राप्तिरिति रश्मिसिद्धिः, न, अ. त्यासन्नमलाञ्जनशलाकादेः प्रकाशप्रसक्तेः । किञ्च यदि गोलकान्निर्गत्य बाह्यार्थेनाभिसम्बद्ध्य तद्रश्मयोऽथ प्रकाशयन्ति तीर्थं प्रत्युपसर्पन्तरत उपलभ्येरन , रूपस्पर्शविशेषवतां तेजसानां वयादिवत्सतामनुपलम्भे निमित्ताभावात्, न चोपलभ्यन्त इत्युपलब्धिलक्षणप्राप्ता- 10 नामनुपलम्भादसत्त्वम् । न चानुद्भूतरूपस्पर्शत्वात्स्वर्णतप्तोदकयोरिव तेषामनुपलम्भ इति वाच्यम् , स्वर्णतप्तोदकयोस्तेजस्त्वासिद्धेः, दृष्टानुसारेण चानुपलभ्यमानभावकल्पनाः प्रभ. वन्ति, अन्यथा रात्रौ भास्करकराः सन्तोऽपि नोपलभ्यन्ते अनुद्भूतरूपस्पर्शत्वान्नायनरश्मिवदित्यपि कल्पनाप्रसक्तेः । न च चक्षुस्तेजोरश्मिवत् , रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् , प्रदीपव दित्यनुमानात्तद्रश्मिसत्त्वसिद्धिरिति वाच्यम् , गाढान्धकारायां रात्री 15 वृषदंशचक्षुः, बाह्यालोकसव्यपेक्षार्थप्रकाशकं चक्षुष्ट्वात् , दिवा पुरुषचक्षुर्वदित्यनुमानेन तदा भास्करकराणामपि सिद्ध्यापत्तेः । न च वृषदंशकादेश्चाक्षुषं तेजोऽस्ती न किञ्चित्प्रयोजनमनुद्भूतभास्करकरकल्पनयेति वाच्यम् , मनुष्यादीनामपि तदस्तीति बाह्यतेजसो वैयापत्तेः । न च दृष्टानुसारित्वादभ्युपगमस्य नायनं सौर्य च तेजो मनुष्यादीनां विज्ञानकारणं मार्जारादे रात्रौ नायनमेव दृश्यत इति तदेव कारणमिति वाच्यम् , तथा दर्शनस्यैवाभावात् , नरनायमर- 20 इम्यदर्शनात् तेषामनुमेयत्वे तु रात्रौ. भास्करकराणामपि तथा स्यात् , न चान्धकारावष्टब्धायां रात्रौ भास्करकरसंभवे नक्तञ्चराणामिव नराणामपि रूपदर्शनं स्यादिति वाच्यम् , सता. मपि तत्कराणां नरान् प्रति रूपदर्शनजननासमर्थत्वात् , यथा त एव वासरे उलूकादीनाम्, भावशक्तीनां विचित्रत्वात् ; तस्मादनुपलम्भात् क्षपायां यथा न भास्करकरास्तथा नायनार. श्मयोऽन्यदेति स्थितम् । यदपि चक्षुः, स्वरइिमसम्बद्धार्थप्रकाशकम् , तैजसत्वात् , प्रदीप- 25 वदित्यनुमानम् , तदपि न सम्यकू, किमनेन चक्षुषोरश्मयः साध्यन्ते उतान्यतः सिद्धानां ग्राह्यार्थसम्बन्धस्तेषां साध्यते, आये तरुणनारीनयनानां दुग्धधवलतया भासुररश्मिरहि. तानामध्यक्षतः प्रतीतेः कालात्ययापदिष्टो हेतुः । न चाध्यक्षग्रहणयोग्यस्यानुपलम्भो बाधा, यथाऽनुष्णोऽग्निः सत्त्वादित्यादौ, नायनाश्च रश्मयो नाध्यक्षग्रहणयोग्याः सदा तेषामह
"Aho Shrutgyanam"

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420