Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
चतुर्थो भवः तत्राऽशोकतरोर्मूले मूलोत्तरगुणैर्युतम् । आचार्य कोशलाधीशविनयन्धरनन्दनम् ॥२५२।। अनेकसाधुसंयुक्तं सुधाशुभ्रयशोधरम् । नाम्ना यशोधरं सूरिमद्राक्षीन्मुदितो धनः ॥२५३।। युग्मम् रूपयौवनलावण्यशान्तिसंतोषमार्दवैः । तदीयैर्विस्मितो दध्यौ दृश्यः सेव्यश्च नन्वयम् ॥२५४|| ध्यात्वेति गत्वा वन्दित्वा तं साधुजनसंयुतम् । तद्दत्तधर्मलाभाशीरुपाविक्षत्क्षमातले ॥२५५।। अवोचच्च विभो ! किं ते भवनिर्वेदकारणम् । यद्रूपेण जितकामश्चरित्रेण पुनर्जितः ॥२५६।। प्रभुः प्राह भवादस्मान्नित्यनिर्वेदमन्दिरात् । किमन्यदपि निर्वेदकारणं प्रष्टुमर्हसि ॥२५७।। धनः प्रोवाच भगवन्सर्वसाधारणं ह्यदः । विशेष वद स प्राह चरित्रं निजमेव मे ॥२५८|| धनः प्राह प्रसद्येश निजं चरितमादिश । वीक्ष्याऽमुं शान्तकल्याणाकृति प्राह गुरुः शृणु ॥२५९|| विशालायां पुरि पुराऽमरदत्तोऽभवन्नृपः । देवी यशोधरा तस्य सतीव्रतयशोधरा ॥२६०|| तदङ्गभूर्बभूवाऽहं वीतेऽस्मान्नवमे भवे । सुरेन्द्रदत्तनामाऽस्मि पित्रोरत्यन्तवल्लभः ॥२६१।। मम वक्षोविभूषार्थमपरा मौक्तिकावली । भार्यास्त्युच्छसिताम्भोजनयना नयनावली ॥२६२।। तातः प्रदाय मे राज्यमात्मना व्रतमात्तवान् । अहमप्यात्तसम्यक्त्वो राज्यमस्मि प्रपालयन् ॥२६३।।
समरादित्यसंक्षेपः अन्यदा नयनावल्या दासी सारसिकाऽभिधा । ममैतं पलितव्याजाद्धर्मदूतमदर्शयत् ॥२६४|| ततोऽहं भवनिर्विण्णो दध्याविति निजे हृदि ।
अहो असारं मानुष्यं क्षणादेव विनश्यति ॥२६५।। नित्यं निशादिनव्याजाज्जीवानां यौवनायुषोः । त्रुट्यन्ति खण्डखण्डानि न जानाति जनो जङः ॥२६६।। जनायुर्जलमादाय निशादिनघटीचयैः । अर्केन्दुधुर्यो कालारघट्ट भ्रमयतः सदा ॥२६७|| जीवितव्याम्भसि क्षीणे देहसस्ये च शुष्यति । उपायः कोऽपि नास्त्यस्य तथापि सुखितो जनः ॥२६८।। तत्प्रमादं परित्यज्य प्रपद्ये व्रतमुत्तमम् । ध्यात्वेति नयनावल्या निजाकूतं न्यवेदयम् ॥२६९॥ साऽजल्पच्च मयाऽऽत्मायमार्यपुत्र तवाऽर्पितः । यत्त्वं प्रपद्यसे पूर्वं तत्प्रपत्स्येऽनु नन्वहम् ॥२७०|| अचिन्तयमहं देव्या अहो स्नेहो ममोपरि । चित्तज्ञत्वं विवेकश्च समानसुखदुःखता ॥२७१।। तदा बन्दी पपाठेत्युदयं प्राप्य प्रतप्य च । उद्द्योत्य भुवनं सर्वमस्तमेति दिवाकरः ॥२७२।। ततोऽध्यायमहं सूरस्याऽप्येकत्र च वासरे । इयत्यः स्युरवस्था यज्जीवलोकं धिगस्तु तत् ॥२७३।। कियन्तमपि निर्गम्य सन्ध्याकालं सदस्यथ । ययौ प्रदोषे नीरन्ध्रमणिदीपकमण्डितम् ॥२७४।।
१. नास्त्यन्यस्तथापि ख ग घ ङ च ।

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215