Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
४१६
नवमो भवः अलङ्काराः समे भाराः कामाः सर्वेऽप्यसातदाः । धर्मशीले ततः सिद्धाः परमार्थेन सुन्दराः ॥६७७।। तेषामेव सुखं यत्ते कर्मबन्धनवर्जिताः । परिनिष्ठितकार्यत्वाद् रहिताश्च मनोरथैः ॥६७८।। निर्भयाः सर्वभावानां ज्ञातारः प्रेक्षकाश्च ते । बुद्धीनां हेतवः सिद्धर्जन्ममृत्युविवर्जिताः ॥६७९॥ यद्वा किं नेदृशां सौख्यं परमानन्दयोगतः । सर्वाबाधानिवृत्तानां सिद्धान्ते हि प्रचक्ष्यते ॥६८०।। सिद्धस्य सुखराशि: स्यात्सर्वाद्धापिण्डितो यदि । अनन्तवर्गभक्तोऽपि सर्वाकाशे न माति सः ॥६८१।। न चास्ति तन्मनुष्याणां सर्वेषां च सुपर्वणाम् । सौख्यं यदस्ति सिद्धानामव्याबाधाजुषामिति ॥६८२।। सुलोचनेति श्रुत्वोचे तथेति भगवन्निदम् । संवेगोऽजनि सर्वेषामथ वेलन्धरोऽवदत् ॥६८३।। भगवन् ! कीदृशं सिद्धस्वरूपं भगवाञ्जगौ । आकारोऽसौ न दीर्घोऽस्ति न हुस्वो न त्रिकोणकः ॥६८४|| न वृत्तश्चतुरस्त्रो वा पञ्चवर्णविवर्जितः । न सुगन्धो न दुर्गन्धो न च स्त्रीपुंनपुंसकः ॥६८५।। न तिक्तो न कटुर्नाम्लो न स्वादुस्तुबरो न च । स्निग्धो रूक्षो मृदुश्चण्डो नोष्णः शीतो गुरुर्लघुः ॥६८६।। न सङ्गो न रुहश्चैव नाऽन्यथाऽस्य च विद्यते । संज्ञोपमा परिज्ञा वा नीरूपः सत्तया तु सः ॥६८७|| शब्दो रूपं रसो गन्धः स्पर्शश्चाऽस्य न विद्यते । अपदस्य पदं नास्ति निर्विकार इति ब्रुवे ॥६८८||
समरादित्यसंक्षेपः समस्ताऽनन्तयोगीन्द्राऽऽनन्दसुन्दरमन्दिरम् । सर्वप्रपञ्चरहितं परब्रह्मेति तं विदुः ॥६८९|| अन्यच्च ज्ञातमस्तीह धर्मशीला निशम्यताम् । सुलोचनाऽवदत्तस्मादनुगृह्णातु नः प्रभुः ॥६९०।। उवाच वाचकपृष्ठः समरादित्यकेवली । क्षितिप्रतिष्ठितं नाम पुरं सुरपुरप्रभम् ॥६९१|| येनैकधनदाऽनेकधनदाश्रयशालिना । वस्वोकसारा नि:सारा विदधे निजसम्पदा ॥६९२॥ जितशत्रुर्धरित्रीस्तत्राऽस्त्यन्वर्थनामभृत् । युक्तं तस्य महादेवी जयश्रीरिति विश्रुता ॥६९३।। तस्य रत्येव कामस्य तया दयितया सह । विषयानुपभुञ्जानस्याऽगात्कालः कियानपि ॥६९४।। महद्धिरपि पापद्धिकृतेऽसौ निर्गतोऽन्यदा । वाह्वीकमश्वमारूढोऽमन्तूञ्जन्तून् बहूनहन् ॥६९५।। कर्मणेव हृतस्तेन वाजिना वायुवाजिना । क्षिप्तोऽतिगहने विन्ध्यधरणीधरगहरे ॥६९६|| ततो विषमदेशेऽस्य प्रसर: स्खलितो महान् । ततः संचरति स्मैष मन्दमन्दं पदस्पदः ॥६९७|| अत्रान्तरे च संनद्धवध्रकङ्कटसंकटः । निध्याय दध्यौ धात्रीशं शबरोऽनुचरोपमः ॥६९८|| महानुभावः कोऽप्येष पुरुषः पतितोऽटवौ । भीमायां तत्करोम्यस्योपचारमुचितोचितम् ॥६९९||
१. क्रमेण क, कर्मणे ख ग घ ङ कर्मणो च.

Page Navigation
1 ... 209 210 211 212 213 214 215