Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
४२१
४२२
नवमो भवः वन्दित्वा हर्षसंयुक्तः सर्वं तदुचितं व्यधात् । तान्यादुर्भगवच्छिष्यशीलदेवान्तिके व्रतम् ॥७४६।। अथाऽऽश्चर्यकृपायुक्तोऽपृच्छद्वेलन्धरः सुरः । प्रभु श्रीसमरादित्यं सम्यगानम्य भावतः ।।७४७|| उद्दिश्य भगवन्तं स स्वोपसर्गविधायकः । स्वामिन्नभव्यो भव्यो वा परुषः पुरुषब्रुवः ॥७४८॥ भगवानाह भव्योऽयमथ वेलन्धरोऽवदत् । आप्तबीजोऽथवाऽनाप्तबीजोऽथ भगवाञ्जगौ ॥७४९॥ अनाप्तबीजः स प्राह कदा प्राप्स्यत्यथाऽवदत् । केवली समरादित्यस्तच्चरित्रमनागतम् ॥७५०॥ पुद्गलानां परावर्तेष्वसंख्येषु गतेष्वयम् । नृपशार्दूलशार्दूलसेनस्याऽश्वो भविष्यति ॥७५१।। तदा प्राप्स्यति येनैष मामुद्दिश्य व्यचिन्तयत् । अहो महानुभावोऽयमिति स्वच्छेन चेतसा ॥७५२।। तेनाऽसफलितं बीजं गुणवत्पक्षपातजम् । तज्जन्मपारम्पर्येण सम्यक्त्वस्य निबन्धनम् ॥७५३।। अतीतेषु त्वसंख्यातभवेषु भववल्लभः । अयं संख्याऽभिधो विप्रो भूत्वा निर्वाणमेष्यति ॥७५४|| इत्याकर्ण्य सकर्णोऽयं हृष्टो वेलन्धरः सुरः । ज्ञानिनं सम्यगानम्य निजं सदनमासदत् ॥७५५।। भव्यान् बोधयतस्तत्रभवतो ज्ञानशालिनः । केवलित्वविहारेण गतः कालः कियानपि ।।७५६||
समरादित्यसंक्षेपः अन्यदा गिरिसेनस्तूज्जयिन्यामेव पुर्ययम् । चौर्यव्यतिकराद्धृत्वा कुम्भीपाकेन घातितः ॥७५७।। मन्येऽस्य गन्तुकामस्य सप्तमी नरकावनीम् । कुम्भीपाको महास्नेहादिव संमुखमागमत् ।।७५८।। उत्पन्नश्च तथारूपप्रभुप्रद्वेषदोषतः । सप्तम्यां नरकावन्यामन्यायकुलसद्म सः ॥७५९॥ पृथिव्यां विहरन् कालक्रमेण भगवानपि । गतो वृषभतीर्थं द्राग् निर्वाणसमयं विदन् ॥७६०॥ केवलित्वसमुद्धातं शैलेशी च प्रपद्य सः । भवोपग्राहिकर्माणि क्षपयामास तत्क्षणम् ॥७६१|| भ्रान्त्वाऽऽदित्य इवावनौ स समरादित्यप्रभुः केवली सच्चकस्य सुखावहः शममहः प्रध्वस्तदोषोदयः । भित्त्वा मोहतमोभरं भवमहाम्भोराशिपारं परं गत्या सार्जवया जगाम समयेनैकेन निःश्रेयसम् ॥७६२।। विज्ञातुं हृदि तत्त्वसत्त्वनवके जेतुं कषायेन्द्रियारातीनां नवकं द्विधा नवविधब्रह्मव्रतं रक्षितुम् । निर्मातुं नवनोकषायकषणं यद्यस्ति वाञ्छा ततो जन्मानां नवकं निबोध समरादित्यस्य वृत्ते विभो ॥७६३।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे नवमोऽनवमो भवः ॥७६४||
१. पुरुषः पुरुषधं ख, पुरुषापुरषध्रुवः च, पुरुषापुरषध्रुवं ग घ. २. 'सकलितं for "सफलितं ख ग घ ङ च.

Page Navigation
1 ... 212 213 214 215