Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नवमो भवः
४११
४१२
संशोध्य पृथ्वी सम्पाद्य समतां गन्धवारिभिः । सिक्त्वा सम्पूज्य पुष्पैश्च न्यास्थत्कनकवारिजम् ॥६३०।। उपविष्टो विभुस्तत्र देवराजेन वन्दितः । स्तुतश्च भगवन् ! धन्य ! मोहो व्यपगतस्तव ॥६३१।। निर्वृत्ताः सर्वसंक्लेशो विजिताः कर्मशत्रवः । प्राप्ता केवललक्ष्मीश्चोपकृतं भव्यजन्तुषु ॥६३२।। श्रुत्वेति मुदितो बाद मुनिचन्द्रो महीपतिः । ववन्दे पुनरप्येनं देवीसामन्तसंगतः ॥६३३।। तदा च किन्नरैर्गीतं नृत्तं स्वर्गिवधूगणैः । कैवल्यमहिमा जज्ञेऽमुष्य तेनाऽऽगमञ्जनाः ॥६३४।। अहो महानुभावोऽयं न चके रुचिरं मया । ध्यात्वेति गिरिसेनोऽपि पुण्यबीजी ततो ययौ ॥६३५।। ज्ञात्वाऽथ समयं ज्ञानी प्रारेभे धर्मदेशनाम् । दन्तधुता सितध्यानवर्णिकामिव दर्शयन् ॥६३६।। भो भो भव्यजना ! धर्मशीला ! जन्तुरनादिमान् । काञ्चनोपलवत्कर्ममलेन परिसंगतः ॥६३७|| तदोषादेव लभते विकारान् बहुयोनिषु । तत्रोत्पन्नो जरारोगमृत्युभिश्च कदर्थ्यते ॥६३८।। वेदनां लभते योगवियोगैर्दूयतेऽधिकम् । न मोहाऽऽबाधितो वेत्ति त्रिदोषीव हिताहितम् ॥६३९।। हितं परिहरत्युच्चैरपथ्यं बहुमन्यते । महापदश्च प्राप्नोति तस्मादेवं व्यवस्थिते ॥६४०।। परित्यजत मूढत्वं तत्त्वं वीक्षध्वमादरात् । देवान् गुरूंश्च महत विधिदानं प्रयच्छत ॥६४१||
समरादित्यसंक्षेपः विमुच्य कुत्सितं मैत्रीमङ्गीकुरुत देहिषु । शीलं शुद्धं प्रपद्यध्वमभ्यस्यत तपो द्विधा ॥६४२।। भावना भावयध्वं च त्यजताऽसद्ग्रहं मुहुः ।। ततोऽपनयत ध्यानैः शुभैः कर्ममलं चिरात् ॥६४३॥ एवं जीवेऽथ कल्याणीभूते कर्ममलक्षयात् । न दुष्कृतविकाराः स्युर्जायेत च परं सुखम् ॥६४४|| उपदिष्टगुणेष्वस्मात् स्वशक्त्या कुरुतोद्यमम् । श्रुत्वेति पर्षत् संविग्ना प्रतिपन्ना गुणाऽन्तरम् ॥६४५।। अमराः समरादित्यं समरागं शुभाऽशुभे । नत्वागुरमरावत्याममराधिपसंगताः ॥६४६॥ मुनिचन्द्रोऽथ पप्रच्छ भगवन् ! कि नरार्वणः । तस्योपसर्गकारित्वे कारणं भगवत्यपि ॥६४७|| भगवानाह पापानुबन्धोऽयं सुमहानभूत् । गुणसेनाऽग्निशर्मादिकथामकथयत्ततः ॥६४८|| श्रुत्वेति सर्व संविग्नमथ वेलन्धरोऽवदत् । कीदृशः परिणामोऽस्य भविताऽथ गुरुर्जगौ ॥६४९।। साम्प्रतं नरकप्राप्तिस्ततोऽनन्तो भवः पुनः । अथाऽऽह नर्मदा देवी कीदृशा नरकाः प्रभो ! ॥६५०॥ नारका कीदृशा कीहक् तत्र तीव्रा च वेदना । उवाच केवली वाचमाकर्णय सुधार्मिकि ॥६५१॥ मध्ये वृत्ताश्चतुष्कोणा बहिर्नित्यतमोवृताः । अधः क्षुरप्रसंस्थानस्थिताः सूर्यादिवजिताः ॥६५२।। नित्यलिप्ततलाः पूतिवसामेदोऽस्रकर्दमैः । अमेध्यादिकदुर्गन्धा वह्निवर्णाः सुकर्कशाः ॥६५३॥

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215