Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 207
________________ नवमो भवः ४०७ ४०८ लग्ना दशसहस्त्याः सर्वद्रव्यव्ययः कृतः । परया पायितः सीधु घृतपूरांश्च भोजितः ॥५८६।। विलेप्य यक्षपङ्केन प्रदत्ता स्वर्णमेखला । सहस्त्रा विशतिस्तस्या लग्ना स्वस्वव्ययः कृतः ॥५८७|| अन्यया भोजयित्वैष भोजनं सर्वकामितम् । पायितः पानकान्युच्चैर्भूषितो दिव्यभूषणैः ॥५८८।। प्रदत्तमथ ताम्बूलं लक्षं द्रव्यस्य चाऽलगत् । सापि चौरस्य तस्याऽर्थे सर्वद्रव्यव्ययं व्यघात् ॥५८९।। रात्रौ कमलिनीवाथ कमलाऽऽख्या मुकुल्यभूत् । भणिता च नरेन्द्रेण किञ्चित्त्वं न ददासि किम् ॥५९०॥ सोचे ममाऽऽर्यपुत्राऽर्थो नास्ति दानेऽस्य सुन्दरि ! । राज्ञोचे तव किं नास्ति मत्प्राणा अपि ते वशाः ॥५९१|| सोचे महाप्रसादो मे यद्येवं देवनिर्मितः । आर्यपुत्राऽनुमत्याऽस्मै तत्किचिद्वितराम्यहम् ॥५९२॥ एवं कुर्विति राज्ञोक्ते बभाषे तस्करस्तया । भद्र ! दृष्टस्त्वयाऽकार्यबीजद्रुकुसुमोद्गमः ॥५९३|| स प्राह देवि ! दृष्टोऽयं सुष्टु तेनाऽनुतापवान् । यावज्जीवं निवृत्तोऽस्म्यकार्याऽऽचरणतोऽमुतः ॥५९४।। देवी प्रोवाच यद्येवं तद्ददेऽस्याऽभयं मया । सुदत्तमिति राज्ञोक्ते चौरः स मुदितोऽधिकम् ॥५९५।। हसितं शेषदेवीभिः प्रदत्तं सुष्टु सुन्दरम् । कमलोचे हसत किं पृच्छतैनं हि सुष्टु किम् ।।५९६।। समरादित्यसंक्षेपः ताभिः पृष्टोऽवदच्चौरो मया मृत्युभयात्पुरा । ज्ञातं किमपि नो वस्तु साम्प्रतं सुखितः पुनः ।।५९७।। सर्वाभिः सत्यमित्युक्तं विशिष्टमभयं ततः । हृष्टस्त्रिलोचनः प्रोचे तथेति भगवन्निदम् ॥५९८।। कालवेलाऽथ संजाता श्राद्धवर्गो ययौ गृहम् । कृतं भगवता सर्वं तदात्वसमयोचितम् ॥५९९।। इत्थं विहृत्य देशेषु गते काले कियत्यपि । वाचकः समरादित्योऽन्यदाऽवन्त्यां समागमत् ।।६००। स जातशिष्यनिष्पत्तिः सद्योगाराधनाविधौ । अशोकोद्यान एकान्ते स्थितः प्रतिमया स्थिरः ॥६०१|| तथास्थो गिरिसेनेन दृष्टश्च क्लिष्टकर्मणा । हिण्डितोऽयं बहु कालमित्यत्यन्तं चुकोप सः ॥६०२॥ स रौद्रध्यानसंधानो दध्यावेतच्च चेतसि । प्रस्तावोऽत्रैष न पुनरीदृशः क्वापि दृश्यते ॥६०३।। हन्म्येनं तदुराचारं पूरयामि मनोरथम् । तथा हन्मि यथा दुःखं महच्चानुभवत्ययम् ॥६०४|| शीघ्रं कुतश्चिदानीय वेष्टितः स पटच्चरैः । सिक्तश्च तैलेनैतस्य लगितोऽथ हुताशनः ॥६०५।। किञ्चिद्भगवतो योगाऽतिशयात्तन्न चेतितम् । प्रवृत्ते देहदाहे तु समभूद् ध्यानसंक्रमः ॥६०६।। दध्यौ चाहो भवो भीमः कस्याऽपि क्लेशकारणम् । बभूवाऽहमथाऽलं मे चिन्तितेनाऽमुनाऽधुना ॥६०७।। १. तं for न क २. वशे ख ङ च. ख. १. महत्वा क ग घ.

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215