Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नवमो भवः
४०९
समरादित्यसंक्षेपः
सुन्दरा समतैवाऽत्र चिन्तामिति विमुच्य सः । विशुद्धं ध्यानमध्याद्योगः परिणतस्ततः ॥६०८।। महासामायिकं जज्ञेऽथाऽपूर्वकरणं कमात् । क्षपकश्रेणिमारूढो जीववीर्य विजृम्भितम् ॥६०९॥ ध्यानानलः प्रवृद्धोऽथ निर्दग्धाः कर्मशत्रवः । दग्धं मोहेन्धनं लब्धा लब्धयः स्वो विमोचितः ॥६१०॥ स्थापितः परमे योगे घातिकर्माणि तुत्रुटुः । अभूच्च केवलज्ञानं लोकालोकप्रकाशकम् ॥६११।। गिरिसेनेन मन्येऽहं तत्तनुदीपिका कृता । महातम:प्रभा नाम दुर्गति गन्तुमिच्छता ॥६१२।। सत्यं च व्रतपञ्चास्यधर्मत्रस्त इवान्त्यजः । महर्षेः समरादित्यस्याऽङ्गमुल्मुकमादधात् ॥६१३।। पुत्रा अनुहरन्ते यत्पितरं नितरामिति । अशठैः पठितं सूक्तं लोकेऽलीकमजायत ॥६१४|| यतोऽदत्त य एवाग्निर्गिरिसेनस्य दुर्गतिम् । तेनैव जातो ध्यानाग्निरन्यस्य शिवदोऽभवत् ॥६१५।। युग्मम् तत्पूर्वमेव दृष्टाया देव्याः श्रीकेवलश्रियः । शुशुभेऽस्य विभोर्देहोज्वलन्मङ्गलदीपवत् ॥६१६।। तदा केवलिनस्तस्य प्रभावाच्चलितासनः । दत्त्वोपयोगमवधौ सविधक्षेत्रसंश्रयः ॥६१७|| अनेकदेवतायुक्तो गृहीतकुसुमोत्करः । गत्या जवनतरयाऽऽगमद्वेलन्धरः सुरः ॥६१८।। युग्मम्
प्रणम्य भगवन्तं स पुष्पवृष्टिमपातयत् । धूमध्वजं च विध्याप्य जरच्चीराण्यपानयत् ॥६१९|| समरादित्यपूर्वाद्रावादित्य इव केवले । उदिते ज्वलनो जज्ञे नि:प्रभः किं तदद्भुतम् ॥६२०॥ किमेतदिति संक्षुब्धो गिरिसेनोऽथ भाषितः । वेलन्धरेण रे पाप्मन् ! दुराचार ! नराधम ! ॥६२१|| अद्रष्टव्यमुखाऽश्रेयः किमिदं विदधे त्वया । यदेष विश्ववन्द्योऽपि विश्वनिन्द्य ! कर्थितः ॥६२२॥ युग्मम् मुनिचन्द्रमहीन्द्रोऽथ नर्मदादिप्रियान्वितः । महासामन्तसंयुक्तः समेत्य प्राणमत्प्रभुम् ॥६२३।। राज्ञा वेलन्धरः पृष्टः किमेतदिति सोऽवदत् । प्रभोः प्राणान्तिकं ध्यानमनाऽर्येणामुनाग्नितः ॥६२४|| राज्ञोचे मोहसामर्थ्यमहो अस्य सुदारुणम् । अथाऽस्याऽध्यवसायस्य कारणं किं नु सम्भवेत् ॥६२५।। यद्विभुः सर्वजीवानां वत्सलो हर्षकारणम् । वर्जकः परपीडाया अथ वेलन्धरोऽवदत् ॥६२६।। कारणं नाऽवगच्छामि तर्कयामीदृशं पुनः । अशुभः कर्मबन्धोऽस्याऽनन्तसंसारकारणम् ॥६२७|| राज्ञोचे सत्यमेवेदं भगवानत्र पृच्छयते । वेलन्धरोऽवदद्राजन्नाऽन्यथा संशयच्छिदा ॥६२८|| अथो ऋतुप्रभुः कर्तुं महिमानं मुनिप्रभोः । भवता दिव्यनाट्येनाऽऽगमन्नागमधिश्रितः ॥६२९।।
१. वध्याप्य क ग घ.
१. नद्यं for "निद्यं क ख ग घ २. 'दृश for "दृशं ख ङ

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215