Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 205
________________ ४०३ ४०४ नवमो भवः स्मृतेरनुसृतेर्जापान्न तत्तेभ्यो न जायते । श्रुत्वेति प्रतिबुद्धोऽग्निभूतिराह तथेति च ॥५४०॥ तदा चाऽभिनवः श्राद्धः समैत्परिजनान्वितः । धनवृद्धयभिधः श्रेष्ठी श्रीनाभेयमपूजयत् ॥५४१|| नत्वा च वाचकं तस्योपविष्टोऽन्ते तमूचिवान् । भगवन् ! सर्वसावधव्यापारविरतिर्यतेः ॥५४२।। स्थूलप्राणातिपातादिरूपाणुव्रतदानतः । श्राद्धानामपरे तस्यानुमति किं न जायते ॥५४३।। गुरुः प्रोवाच विधिना प्रदाने सा न जायते । स प्राह विधिदानं तत् कीदृशं भगवाञ्जगौ ॥५४४॥ कथयित्वा ससंवेगं भवसात्म्यं यथा विधिः । अनवस्थितमेकान्ताहुःखधोरणिकारणम् ॥५४५।। तस्य निर्घातने शक्तमात्यन्तिकरसायनम् । मोक्षसाधकमक्षेपान्मुनिधर्म यथास्थितम् ॥५४६।। जनयित्वा शुभं भावं संवेगस्य प्रवर्धनात् । तमप्रपद्यमानेषु श्रावकेषु स्वकर्मतः ॥५४७॥ लग्नेष्वणुव्रतादाने माध्यस्थ्याद्यच्छतो मुनेः । आकाराद्यवदातं तद्विधिदानं प्रकीर्तितम् ॥५४८।। कलापकम् श्रेष्ठ्यूचे भगवन्नेवमपि तस्येतरे कथम् । न स्यादनुमतिः प्राह भगवाशृणु सुन्दर ! ॥५४९|| श्रीवसन्तपुराधीशो जितशत्रुरभून्नृपः । सधर्मचारिणी तस्य धारिणी शीलधारिणी ॥५५०॥ समरादित्यसंक्षेपः नाट्याऽतिशयतस्तस्याः परितुष्टो धराधिपः । उवाच कियतां किं ते प्रियं प्रियतमे ! वद ॥५५१|| साऽवोचदार्यपुत्राऽत्र प्रसाद: कौमुदीमहे । यथोप्सितप्रचारेणाऽन्तःपुराणां विधीयताम् ।।५५२।। इति प्रतिश्रुते राज्ञा दिवसः स समागमत् । सर्वत्रोद्घोषितं चेत्थं पुरे पटहपूर्वकम् ॥५५३।। यः कोऽप्यद्य पुरस्यान्तः पुरुषो निशि वत्स्यति । तस्य दण्डो विधातव्यो मया विग्रहनिग्रहः ॥५५४।। उग्रदण्डं नृपं मत्वा निर्ययुः पुरुषाः समे । एकस्य श्रेष्ठिनः किं तु षट् सुता न विनिर्गताः ॥५५५।। व्यवहारजुषां तेषां प्रतोल्यः संवृत्तास्ततः । ते तत्रैव निलीयाऽस्थू रजन्यामुत्सवोऽभवत् ॥५५६॥ द्वितीयदिवसे राज्ञा परिज्ञाय चरैरिमे । कुद्धेनाऽवन्ध्यकोपेन बध्यत्वेन निदेशिताः ॥५५७।। गृहीता राजपुरुषैः षडपि श्रेष्ठिनन्दनाः । नीताश्च वध्यमेदिन्यां श्रेष्ठिना शुश्रुवे च तत् ॥५५८।। गृहीत्वाऽथ महारत्नपूर्ण स्थालं समागतः । समीपे नृपतेरित्थं स च विज्ञो व्यजिज्ञपत् ॥५५९|| देव मन्तुं क्षमस्वैषामेकवारं विमुञ्च च । अन्येऽप्येवं विधातारो नेति मुञ्चति भूपतिः ॥५६०॥ मा भूत् कुलक्षय इति भण्यमानः पुनः पुनः । ज्येष्ठपुत्रं नृपोऽमुञ्चत् पिता तं बह्वमन्यत ।।५६१।। १. सौ for सा ख ङ १. सोऽत्र for स च; ग घ.

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215