Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नवमो भवः
शुक्ललेश्यस्ततः साधुः शुक्लध्यानी च सिध्यते । बुध्यते मुच्यते सर्वदुःखान्तं च करोत्ययम् ॥५१६॥ तदेवं परमार्थेन दुःखरूपो न संयमः । इन्द्रशर्माऽऽह भगवंस्तवेच्छाम्यनुशासनम् ॥५१७॥ अथ पूर्वागतश्चित्राङ्गदो नत्वाऽवदत्प्रभो ! । के प्राणिनः कतिविधं कर्म बध्नन्ति किंस्थितिः ॥५१८ ||
स प्रोचे सप्तधा कर्माण्यायुर्बध्नन्ति देहिनः । मोहायुर्वर्जितं सूक्ष्मसम्परायास्तु षड्विधम् ॥५१९॥ बध्नन्ति च जिना वेद्यं कर्म द्विसमयस्थितिः । न सम्परायं शैलेशीप्रतिपन्नास्त्वबन्धकः ॥५२०||
अप्रमत्तमुनीनां स्यान् मुहूर्तान्यष्ट तु स्थितिः । उत्कृष्टानां जघन्यां तु मुहूर्तान्तः प्रचक्षते ॥५२१॥ अनाकुट्य प्रमत्ता ये घ्नन्ति तेषां स्थितिर्मता । उत्कृष्ट वत्सराण्यष्टौ मुहूर्तान्तः परा पुनः ॥ ५२२|| बन्धः सम्यग्दृशां ग्रन्थि व्यतियाति कदापि न । उत्कृष्टस्तु भवेन्मथ्यादृष्टीनां सूत्रभाषितः ॥ ५२३|| चित्राङ्गदो जगादाऽथ तथेति भगवन्निदम् । बाढं चानुगृहीतोऽस्मि तदिच्छाम्यनुशासनम् ॥५२४॥ आगता कालवेलाऽथ नरनाथाऽऽदयो गताः । द्वितीयेऽपि दिनेऽभ्येत्य चैत्यमस्थान् मुनीश्वरः ॥ ५२५॥ समागादग्निभूत्याख्यो विप्रः श्रीवृषभप्रभुम् । नत्वा च समरादित्यवाचकं समुपाविशत् ॥५२६॥
ऊचे च भगवन्देवविशेषं मे समादिश । तदुपास्तिविधिं तस्य पर्युपास्तेः फलं तथा ॥५२७||
४०१
४०२
समरादित्यसंक्षेपः
भगवानाह यो वीतरागो दोषविवर्जितः । ज्ञानी सुरासुरैः पूज्यः परमार्थस्य देशकः ॥५२८॥ कृतार्थोऽचिन्त्यमाहात्म्यः सर्वजीवहितोऽपि च । जन्ममृत्युजराहीनः परमात्मा स देवता ॥५२९ ॥ युग्मम् यथाशक्ति निरीहेण चित्तेनाऽत्यन्तभावतः । क्रियते निरतीचारं सारं तदुपदेशितम् ॥५३०॥
दानं प्रदानं शीलस्य पालनं तपसः क्रिया । भावनाभावनं चेति तदुपास्तिविधिर्मतः ॥ ५३१ ॥ युग्मम् पर्युपास्तिफलं दिव्याः कामभोगाः कुलं शुभम् । रूपं मतिः स्थितिर्धर्मे गतिश्च परमे पदे ॥ ५३२॥ ऊचेऽग्निभूतियों वीतरागो मध्यस्थ एव सः । कस्याऽपि कुरुते नोपकारमन्यव्यथाभयात् ॥५३३॥
तं चाऽकुर्वन् कथं सर्वहितो हेतुमिहाऽऽदिश । उवाच समरादित्यवाचकः शृणु सुन्दर ! ॥५३४|| कथनात् परमार्थस्य महामोहप्रणाशनम् ।
न च तस्मात् परः कश्चिदुपकारपरो भवेत् ॥५३५॥ परपीडापरित्यागाद् भगवांस्तं करोति च । एष एवाऽत्र हेतुस्तदग्निभूतिरथावदत् ॥५३६|| भगवन्नित्युपास्तौ स्यादुपकारोऽस्य कीदृशः । फलसिद्धिः कथं तस्याऽभावे तस्माच्च सा कथम् ॥५३७||
गुरुः प्राह न खल्वत्र मता तस्योपकारतः । फलसिद्धिर्भवेत् किं तु तदुपासनयाऽनया ॥ ५३८ ॥
दृष्टं तदुपकारस्याऽभावेऽपि विधिसेवया । चिन्तामण्यग्निमन्त्रेभ्योऽभीष्टार्थफलसेधनम् ॥५३९॥

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215