Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नवमो भवः
३८७
३८८
दध्यौ पुरन्दरो नैतद्धटतेऽम्बा तु भाषते । तत्परीक्ष इति ध्यात्वैकान्ते सा तेन भाषिता ॥३५३।। राजाऽऽदेशेन गन्तव्यं मया कान्ते महासरः । सम्यगेवाऽऽसितव्यं तत्त्वया कत्यपि वासरान् ॥३५४|| सा प्रोचे कीदृशं सम्यगार्यपुत्र ! त्वया विना । इत्युक्त्वा रुदती शीघ्रमेष्यामीति प्रबोधिता ॥३५५।। द्वितीयदिवसे गत्वा कैतवेन पुरन्दरः । निर्गम्य वासरं रात्रियामयुग्मेऽविशद् गृहम् ॥३५६।। वासवेश्म प्रविष्टेन तेनाऽदृश्यत नर्मदा । अर्जुनेन समं सुप्ता सुरताऽऽयासखेदतः ॥३५७|| कुद्धो दध्यौ सुधाहारतुल्या नार्योऽतियत्नतः । भोगश्च रक्षणं चासां दुराचारोऽर्जुनः पुनः ॥३५८।। हन्म्येनं तदिति ध्यात्वा सुप्तस्तेनाऽर्जुनो हतः । निर्गत्य वासगेहाच्च बहि: कोणे स्थितः स्वयम् ॥३५९|| विबुद्धा नर्मदा रक्तस्पर्शतो ध्यातवत्यथ । हहा केनाऽपि पापेन हतो मे प्राणवल्लभः ॥३६०।। हताऽहं निहता किं न तं विना जीवितेन किम् । निवृत्ता रतिसौख्यस्य कथा हृद्बन्धनं गतम् ॥३६१।। ध्यात्वेति भित्त्यधो गर्ता कृत्वा न्यस्तस्तया शवः । विलोक्येति स्वकार्याय निर्जगाम पुरन्दरः ॥३६२।। सा तु कृत्वा स्थली तत्र तन्मूर्ति देवतामिव । नित्यमर्चति नैवेद्यबलिदीपविधानतः ॥३६३।। आश्लिष्यति च मोहेनाऽथोचिते समये समैत् । पुरन्दरो न चाऽलक्षि सावहित्थतया तया ॥३६४||
समरादित्यसंक्षेपः दिनैः कतिपयैदृष्ट्वा स्थलीशुश्रूषणोद्यताम् । तामेष दध्यौ मूढत्वमहो अस्याः सरागता ॥३६५।। यद्वाऽनधीतशास्त्र: स्त्रीजनो हि भवतीदृशः । सुधाहारसमा नार्यो मुनिवाक्यमिदं यतः ॥३६६।। ध्यात्वेति पूर्ववत् सार्धं तया विषयसेवनात् । अह:समाः समास्तस्य द्वादश व्यतिचक्रमुः ॥३६७|| इतोऽहि पञ्चमेऽतीते पक्षान्ते प्रस्तुते बलौ । अभुक्तेषु द्विजेष्वेषा स्थलीबलिविधि व्यधात् ॥३६८।। तां वीक्ष्य सस्मितं प्राह किं तेऽद्यापि हलेऽमुना । श्रुत्वेति भिन्नचित्ता साऽध्यायद्ध्याममुखाम्बुजा ॥३६९॥ मन्ये मम प्रियोऽनेन हतो हन्मि रिपुं ततः । वैरनिर्यातनां कुर्वे प्रदाय विषभोजनम् ॥३७०॥ ध्यात्वेत्यसौ तथा चक्रे तात ! व्यतिकरो ह्ययम् । स्थल्युपद्रवकर्तुश्च शुनः कस्याऽप्यदः कृतम् ॥३७१।। किं च तत्प्रेममोहेन रक्षितुं स्थल्युपद्रवम् । तया हतोऽर्जुनः सैष सप्तकृत्वः स्ववल्लभः ॥३७२।। कृमिपल्ल्याखुमण्डूकालसाहिश्वानरूपतः । उत्पन्नः स्थानकस्नेहाद्वराको निहतस्तया ॥३७३|| धिक् संसारं युवा यत्र निजरूपेण गर्वितः । कृमिविपद्य जायते निज एव कलेवरे ॥३७४।। तत्प्रेममोहितहृदा स्त्रियैव च स हन्यते । तथापि जन्तुर्मोहेन विषयेष्वेव खेलति ॥३७५।। तदेष श्वानवृत्तान्तः संविग्नो नृपतिस्ततः । दध्यावहो भवो भीष्मो विचित्रा कर्मणां गतिः ॥३७६।।

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215