Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३८३
३८४
नवमो भवः सुतेनैतेन धन्यौ हि युवां निर्वृतिहेतुना । तद्विषादं परित्यज्य कार्यमाचर्यतां शुभम् ॥३०७॥ विशेषकम् का त्वं भगवतीत्युक्ते नृपेण प्राह देवता । राजन् ! खड्गायुधा देवी नामतोऽहं सुदर्शना ॥३०८।। वसामि भवनेऽमुष्मिस्त्वत्पुत्रगुणरागतः । हृष्टो नृपः कुमारस्य देवताश्लाधितैर्गुणैः ॥३०९।। देव्यूचे देव पुत्रस्य प्रभावः कश्चिदीदृशः । मन्त्रयन्ति प्रमोदेन यदेवं देवता अपि ॥३१०॥ तदेहि गत्वा तं वीक्ष्य धर्मपिण्डं विदध्वहे । सर्वथा तत्कृतं युक्तमिति तौ मुदितौ गतौ ॥३११।। मत्वा कुमारोऽभ्युत्थाय नत्वा विनयवामनः । निवेश्याऽऽसनयोः प्राह पुनर्नत्वा कृताञ्जलिः ॥३१२॥ किं चक्रेऽनुचितं तात ! किमम्बाऽहं न शब्दितः । नृपो नाऽनुचितं प्रोच्य देवताऽऽख्यातमाख्यत ॥३१३।। ऊचे च जननी वत्स ! त्वमतुच्छगुणाश्रयः । आदेशस्य न योग्योऽसि कुमारस्तामथाऽवदत् ॥३१४|| कस्मादम्ब ! वदस्येवं यूयं हि गुरवो मम । गुर्वादेशविधानं च गुणबन्धनिबन्धनम् ॥३१५।। नृपः प्राह कुमाराऽतिदुष्करं भवता कृतम् । किमिदं दुष्करं तात ! श्रूयतामित्ययं जगौ ॥३१६|| पुरुषाः केऽपि चत्वारस्तत्र द्वावर्थलम्पटौ । द्वौ च स्त्रीलम्पटावेकमध्वानं तु प्रपेदिरे ॥३१७||
समरादित्यसंक्षेपः तेऽद्राक्षुः क्वचिदुद्देशे निधी नायौं च सद्रुची । प्राप्त प्राप्यमतो हृष्टा सम्मुखीना दधाविरे ॥३१८।। कुतोऽपि देवी वागेतैर्मा साहसमिति श्रुता । वीक्षध्वमूर्ध्वं युष्माकं पतत्युपरि पर्वतः ॥३९१।। एतद्गोचरयातानाममुना चेष्टितेन किम् । एतदाकर्ण्य तैरूज़मीक्षितं भयसम्भ्रमात् ॥३२०।। दृष्टश्चाऽध्यासितव्योमा न सोमाकारदर्शनः । देवानामप्यवारोंजाः सर्वतः पर्वतः पतन् ॥३२१।। ते प्रोचुः क उपायोऽत्र कुतोऽप्याकणितं पुनः । न साम्प्रतमुपायोऽस्त्युपद्रवस्याऽस्य विद्रवे ॥३२२।। किंत्विच्छन्त्यर्थभोगान् ये संगताऽसंगतैरपि । तैस्ते शैलेन चूर्यन्ते हन्ताऽनेन पुनः पुनः ॥३२३।। निरीहास्त्वर्थभोगेषु तदसारत्वभावनात् । पुनः पुनर्न चूर्यन्ते कालेनाऽस्माच्छुटन्ति च ॥३३४।। तत्रैके चिन्तयामासुः किं तया दीर्घचिन्तया । ध्यात्वनेति तेऽर्थभोगेषु प्रवृत्ता भाव्यनिश्चयात् ॥३२५॥ अन्ये निवृत्तास्तान् मत्वा चरान् वीपाकदारुणान् । संयुज्यन्ते फलैः स्वैः स्वैस्तत्तत्कर्मानुभावतः ॥३२६।। एवं व्यवस्थिते तात ! के स्युर्दुष्करकारकाः । नृपः प्राह प्रवर्तन्ते ये ते दुष्करकारकाः ॥३२७|| किं पुनर्दुष्करं वत्स ! युक्तियुक्ते निवर्तने । कुमारः प्राह यद्येवं तत्तातेनाऽवधार्यताम् ॥३२८॥
१. तव पुत्रस्य ख ।
१. all Mss spell चूर्यंते; is चूर्ण्यन्ते intended ? |

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215