Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 193
________________ नवमो भवः ३८० ध्यात्वेत्याह भवत्योः किमनरागोऽस्ति मां प्रति । साशङ्क दध्यतुस्ते किं गम्भीरं वचनं ह्यदः ॥२५९॥ नोचतुश्च पदाङ्गुष्ठप्रान्तालिखितकुट्टिमे । सख्यूचेऽथ स्वया मत्या कुमारेणाऽवधार्यताम् ॥२६०।। कुमारः प्राह यद्येवमहिते प्रविवर्तिषा । सानरागे तया स्याच्चेत्तत् कीगनुरागिता ॥२६१।। मानिन्यूचे कुमारेदं न जानाम्यहितं कथम् । कुमारः प्राह शृणु तत् त्वमत्रार्थे कथानकम् ॥२६२।। कामरूपाभिधे देशे मदनाद्यं पुरं पुरम् । प्रद्युम्नाख्यो नृपस्तत्र प्रियास्य रतिराख्यया ॥२६३।। तयोविषयसौख्येन गते काले कियत्यपि । अन्यदा च गतो राजा वाहवाहनहेतवे ॥२६४।। रत्या विमलमत्याख्यसार्थवाहस्य नन्दनः । दृष्टः शुभकरो राजमार्गे वातायनस्थया ॥२६५।। साऽपि दृष्टिगता तेन साभिलाषं विलोकिता । चित्तज्ञ इति सन्तुष्टा रतिर्मतिविमोहतः ॥२६६।। दुर्निवारस्मरशरप्रकरप्रहता च सा । जालिन्याख्यां सखीमूचेऽमुं युवानं समानय ॥२६७।। अस्मिन्नर्थे सुबोधानि मनांसि खलु कामिनाम् । प्रतार्येति तयाऽऽनीय प्रेष्ययं वासवेश्मनि ॥२६८।। उपविष्टस्य पल्यङ्के ताम्बूलं रतिरार्पयत् । तस्मिन्नर्धगृहीते च बन्दिकोलाहलोऽभवत् ।।२६९।। राजानमागतं ज्ञात्वा चित्ताऽरतिमती रतिः । उपायः कोऽपि नान्योऽपि प्रैषीद्व!गृहेऽथ तम् ॥२७०॥ समरादित्यसंक्षेपः नृपः प्रविश्य पल्यङ्के निविश्य क्षणमाह्वत । वाव्यिापारिणं वर्षो गृहं गन्तुं समुत्सुकः ॥२७१।। श्रुत्वेत्यत्यन्तभीतेन तेन जीवितकाङ्क्षिणा । अगाधे ध्वान्तवत्यात्मा वर्च:कूपे प्रपातितः ॥२७२।। कृमिभिर्वेष्टितो रुद्धा दृष्टिः सङ्कुचिता तनुः । उदीर्णा वेदना बाढमाकुलो मूर्छितश्च सः ॥२७३।। इतो नृपः शकृद्वेश्मन्यङ्गरक्षनिरीक्षिते । प्रविश्य कृत्वा कायस्य स्थिति तस्माद्विनिर्गतः ॥२७४।। स्थित्वा रत्या समं चित्तविनोदेन धराधिपः । अतीते वासरे गत्वा तस्थावास्थानमण्डपे ॥२७५।। शुभकरव्यतिकरं रत्या पृष्टाथ जालिनी । प्रोचे मन्ये मृतः कूपे चित्तादप्यथ विस्मृतः ॥२७६।। शुभङ्करस्तु दुःखार्तस्तत्राशुचिरसाशनः । स्थित्वा कतिपयं कालं वर्च:कूपेऽथ शोधिते ॥२७७।। विष्ठानिर्गममार्गेण निर्गतो विगतच्छविः । निर्नष्टरोमकरजः शुचीभूतः कथञ्चन ॥२७८|| क्लेशेन गृहमायासीद्रीतः परिजनोऽखिलः । मा भैषीरिति जल्पित्वा स्वमाख्यत शुभङ्करम् ॥२७९।। पित्रा पृष्टोऽथ किं चके त्वया येनाऽजनीदृशः । स प्राह तात यच्चके तदाख्यामि रह: कुरु ॥२८०॥ कथिते रतिवृत्तान्ते पिता संविग्नमानसः । तं वेश्ममध्यतो नीत्वा तैलाभ्यङ्गाद्यकारयत् ॥२८१।। कालात्प्रगुणगात्रोऽयं प्रवृत्तो देवतागृहम् । दृष्टो रत्या सखीं प्रेष्याऽऽकारितः पुनरागतः ॥२८२।।

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215