Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नवमो भवः
मृत्युशैले जगत्त्रय्याघातकेऽत्यन्तभीषणे । पातुकेऽभीष्टभावानां वियोगकृति दुर्जये ॥ ३२९ ॥ अर्थकामपरित्यागोऽव्याबाधः शिवकारणम् । सेव्यते दुष्करं नैतद् दुष्करस्त्वितराश्रयः ||३३०॥
राज्ञोचे सत्यमेवेदं सम्यगालोच्यते यदि । दुरन्तस्तु महामोहः कुमारोऽथ जगाद तम् ||३३१||
सत्यं दुष्टाऽवसानोऽयं यन्मृत्यो प्रभवत्यपि ।
जया गृह्यमाणा अप्यर्थभोगवशंवदाः ||३३२ ॥
सर्वजन्तुहितेऽत्यन्तं मृत्युवार्धकघातके ।
जिनोक्ते न प्रवर्तन्ते धर्मे निर्वाणसाधके ॥ ३३३॥ युग्मम्
राज्ञोचे सत्यमेवेदं सोद्वेगा प्राह तत्प्रिया । मोहनाशेन नौ जातं कामितं न तु बालयोः ॥ ३३४ ॥
प्रोचे कुमारोऽलं मातरुद्वेगेन यदेतयोः । सम्पन्नं कामितं धन्ये मोक्षबीजेन संगते ॥ ३३५॥
तन्मुखे वीक्षिते देव्या प्रोचतुस्ते प्रणम्य ताम् । स्नेहमात्रनिमित्तोऽयमुद्वेगो वां मनस्यलम् ||३३६|| अन्यथा त्वार्यपुत्रेण यदादिष्टं तथैव तत् । सफलं मानुषत्वं नौ सम्पन्नं कामिताऽधिकम् ||३३७||
दध्यौ च देव्यहो रूपमनयोस्तत्त्ववेदिता । गाम्भीर्य वाक् शमो भक्तिः समुदाचरणं तथा ||३३८||
ऊचे च युवयोर्वत्से खड्गसेनेन जातयोः । युक्तमेतद् गुरुजनो यदेवमनुवर्त्यते ॥ ३३९॥
तदा पुरन्दराऽऽख्यस्य भट्टस्य सदने महान् । आक्रन्दोऽभून्नृपो ज्ञातुं यावत्कञ्चित्प्रहेष्यति ॥३४०॥
३८५
३८६
समरादित्यसंक्षेपः
तावदुक्तः कुमारेण तात ! ज्ञातमिदं खलु । विजृम्भितं भवस्याऽथ राज्ञोचे कथय स्फुटम् ॥३४१||
कुमारः प्राह भट्टोऽयमस्त्यर्धोपरतोऽधुना । तद्वेश्मन्ययमाक्रन्दो नृपः प्रोचेऽद्य सेक्षितः || ३४२।। कुमारः प्राह ताताऽयमहेतुर्मृत्युधर्मिणाम् ।
नृपः प्राह न कोऽप्यस्य व्याधिरासीत्कथं मृतः ॥३४३||
ऊचे कुमारोऽवक्तव्यस्तात ! व्यतिकरो ह्यसौ । निन्द्यो लोकद्वये यस्मादथ प्राह धराधवः ॥ ३४४ ||
निन्द्यं किं वा न संसारे कौतुकं मम तद्वद ।
न चाऽत्राऽसज्जनः कश्चिद्यस्माद् गोप्यं प्रकाशते ॥ ३४५॥
कुमारः प्राह यद्येवं तातस्तर्हि शृणोत्विदम् । सोऽस्ति नर्मदया पत्न्याऽर्धहतो विषदानतः ॥ ३४६ ॥ अन्यच्च तद्गुहद्वारनैर्ऋत्यां श्वाऽपि तिष्ठति । तयैवाऽर्धहतो वैद्यान् प्रैष्य द्वावपि जीवय ॥३४७॥ तात जीविष्यतोऽवश्यमेकेनैवौषधेन तौ । नृपो दध्यावहो ज्ञानातिशयो मत्तनूभुवः ॥ ३४८ ॥ विषवैद्यानथाऽऽदिश्य नृपः प्रोचे कुमार किम् । अस्याऽसद्व्यवसायस्य तस्या जज्ञे निबन्धनम् ||३४९||
स प्राह निर्विवेकत्वं विशेषादपरं पुनः । पुरन्दरस्य सातीव शचीव खलु वल्लभा ॥३५०|| मोहदोषान् निजे दासेऽर्जुनाख्ये प्रासजत्पुनः । तत्परम्परया श्रुत्वा श्रद्धधे स्नेहतो न सः ॥३५१|| अन्यदा तज्जनन्या स्ववंशभ्रंशनभीतया ।
न सुन्दरा महेला ते मोपेक्षस्वेति भाषितम् ॥३५२॥

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215