Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नवमो भवः
यदेतदीदृशं पक्षपाते सत्यपि मेऽनयोः । पक्षपातं च तं वेत्ति मदीयं किल केवली ॥४०१ ||
परमेष्ठिमहामन्त्रे प्रयत्नं तत्करोम्यहम् । तं ध्यायन्नेष हित्वाङ्गं ब्रह्मलोके सुरोऽभवत् ॥ ४०२ ||
ज्ञात्वावधेरकृत्वाऽपि देवकृत्यं कृपाभरात् । समायातो विबोधाय वेगतो मित्रभार्ययोः ॥४०३||
स्यादेवंविधयोर्बोधिर्विनिपातं विना न हि । तद्देवमायया चक्रे बन्धुलायां विशूचिकाम् ||४०४।।
तस्याश्च वेदनार्ताया अशुच्यपि विकुर्वितम् । दुर्गन्थं चिक्कणं स्पर्शे भिन्ना तेन समन्ततः ॥४०५॥ हा म्रिये इति जल्पन्ती धनदत्तमसौ श्रिता । सोऽमेध्यलेपितो जातारतिरेतद् व्यचिन्तयत् ॥४०६ || अहो कीदृगिदं जातमित्युद्विग्नो विदूरगः । तयोक्तो मम भज्यन्तेऽङ्गान्यर्त्याऽहं म्रिये तथा ॥ ४०७|| स प्राह किमहं कुर्वेऽसाध्यमेतत्तयोदितम् । संवाहयाऽङ्गं सोऽप्येतदुपरोधात्तथा व्यधात् ॥ ४०८ ॥ श्लिष्टावशुचिजम्बाले न च संचरतः करौ । स दध्याविति किं पापं प्रकर्षमिदमागतम् ||४०९ || ऊचे च किमहं कुर्वे यतो न वहतः करौ । स दध्यौ सत्यमेवं यद्वञ्चितस्तादृशः पतिः ॥ ४१० ॥
कृतं लोकद्वये निन्द्यमिति संवेगमागता ।
प्रवृत्ता रोदितुं बाढं हाऽऽर्यपुत्राऽऽर्यपुत्र हा ||४११||
१. हाहा for बाढ़ क.
३९१
३९२
समरादित्यसंक्षेपः
दध्यौ च धनदत्तो हा हाऽनार्य धनदत्त ! ते । ईदृशे जीवलोकेऽस्मिन्नसारे च शरीरके ॥४१२|| श्रुत्वा प्रियसुहृद्वाक्यं प्रसादानुपजीव्य च । किमीहगुचितं चेष्टातुल्यं परिणतं च ते ॥ ४१३||
हा मया मन्दभाग्येन प्रियमित्र ! भवानपि । द्रोहितोऽसीति संवेगसङ्गतो मोहमासदत् ॥४१४|| विबुध्याऽवधिना बोधकालं संवेगवृद्धये । शवपूजामिषाद्देवः प्रत्यक्षः शवमार्चयत् ॥४१५ ॥
एतौ हतार्त्तिशोकाग्नी तं नत्वा हृदि दध्यतुः । अहो अस्य प्रभावेण वेदनाऽपगताऽऽवयोः ||४१६ ||
शक्ती रूपं द्युतिः कीर्तिरहो अस्येति विस्मितौ । पुनर्नत्वोचतुः कस्त्वं किं निमित्तमिहागतः || ४१७ || देवोऽहं जिनधर्मार्चापूजार्थ च समागतः । तेनोक्ते प्रोचतुस्तौ क्व सा देवेन प्रदर्शिता ||४१८||
तां वीक्ष्य हृदि संक्षुब्धावूचतुर्भगवन् ! क सः । निर्जीवा लक्ष्यते मूर्तिस्तत्तत्त्वं कथयाऽऽवयोः ||४१९|| इत्युक्त्वाऽह्निपतितयोः स प्राह ससुरोऽभवत् । दृष्टस्ताभ्यां स पश्यद्भ्यां मञ्चकीलेन कीलितः ॥४२०|| विकर्म कृतमावाभ्यामित्युक्त्वा तौ च मूर्छितौ । देवेनाऽऽश्वासितौ मर्तुमारब्धौ च त्रपाभरात् ॥४२१ ।। स प्राह कि म्रियेथे तौ प्रोचतुर्ज्ञानवान् भवान् । स प्राह वां तदादेशपालनं मरणाद् वरम् ॥४२२||

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215