Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३८९
३९०
समरादित्यसंक्षेपः
नवमो भवः अहो विषयलोलत्वमहो चाज्ञानजृम्भितम् । अहो अतत्त्ववेदित्वं सर्वथा गहनं ह्यदः ॥३७७।। तदा वैद्याः समागत्याऽवदन् देवप्रसादतः । पुरन्दरः कुक्कुरश्च देव ! द्वावपि जीवितौ ॥३७८।। जीवितौ कथमित्युक्ते नृपेण भिषजो जगुः । दत्त्वा त्याजनकान्युच्चविषं संत्याज्य जीवितौ ॥३७९।। तदा बालातपप्रायं तेजः पुर्यां विजृम्भितम् । दुन्दुभिदिव्यगेयं च श्रुतेर्हर्षप्रहर्षदे ॥३८०॥ राज्ञोचे किमिदं वत्स ! देवोत्पातं स आख्यत । वत्स ! कोऽयं सुरः किं चाकाण्डेऽस्योत्पातकारणम् ॥३८१।। कुमारः प्राह तातैष गुणधर्मेभ्यनन्दनः । जिनधर्माभिधोऽद्यैव देवभूयं जगाम सः ॥३८२॥ स्वभार्यासहृदोर्बोधायाऽऽगतो बोधितौ च तौ। निजश्रीर्दशिता तेनोत्पतता स्वर्गतेः कृते ॥३८३।। नपः प्राह कथं वत्स ! अद्यैव देवत्वमाप सः । कथं वा गृहिणीमित्रे बोधिते तेन मे वद ॥३८४|| ऊचे कुमार एषोऽपि तात व्यतिकरोऽखिलः । जात: कर्मपराधीनसत्त्वचेष्टाऽनुरूपकः ॥३८५।। तथापि कथ्यते पृष्टस्तातेनेत्यन्यथा कथम् । लोकद्वयविरुद्धं हि शक्यमाख्यातुमीदृशम् ॥३८६।। राज्ञोचे वत्स ! संसारे नाख्येयं किञ्चिदस्ति किम् । कुमारः प्राह यद्येवं तत्ताताकर्ण्यतामिदम् ॥३८७।। जिनोक्तभावितो ह्येष भीत: संसारखासतः । विषयेषु निरीहश्च कुशलं भावयत्यलम् ॥३८८।।
तन्मित्रं धनदत्ताख्यो द्वितीयहृदयोपमः । भार्या च बन्धुला तेन संगता सा विमोहतः ॥३८९।। जिनधर्मस्त्वनाख्याय निरपेक्षोऽद्य मन्दिरे । आसन्नशून्यगेहेऽस्थात् प्रतिमा सार्वरात्रिकीम् ॥३९०॥ बन्धुलाऽपि तमज्ञात्वा तत्संकेतनिकेतनम् । सलोहकीलं पल्यङ्कं समादाय समागता ॥३९१।। जिनधर्मपदस्योपर्यभूत्पर्यङ्कपादकः । द्विधाऽप्यस्यास्तमोदोषाद्विद्धः कीलेन तत्पदः ॥३९२।। तत्रैत्य धनदत्तेन समं सा बन्धुलाऽवसत् । तद्भारपीलितः कीलो भित्त्वांऽहि धरणीमगात् ॥३९३।। मूर्छितः पीडया ताभ्यां भित्त्यस्रस्थो न लक्षितः । सोऽथ संजातचैतन्योऽपश्यद् व्यतिकरं च तम् ॥३९४|| प्रवृद्धधर्मबुद्धिः संश्चिन्तयामास चेतसि । ईदृशा विषया एते धर्मबुद्धिविमोहकाः ॥३९५।। नाशकाः शीलरत्नस्य दुर्गदुर्गतिपातकाः । दुश्चिकित्स्या अमी भावव्याधयश्च शरीरिणाम् ॥३९६।। धन्यास्ते त्रिजगत्पूज्यास्तीर्थेशा मुनयोऽपि च । प्रायो न प्राणिनां पापबुद्धिर्यत्सन्निधौ भवेत् ॥३९७।। अधन्योऽहं तु भावोपकारं कर्तुं यदेतयोः । कुक्षिम्भरिः क्षमो नास्मि नित्यसंगतयोरपि ॥३९८।। अहो ममाऽकृतार्थत्वमहो मे दुःखहेतुता । संक्लिष्टं चेष्टितं हेतुर्दुर्गतेश्च यदेतयोः ॥३९९।। मया व्यर्थीकृतं सूक्तं श्रूयते यन्न नि:फलः । योगः कल्याणमित्राणां कीहक् कल्याणता च मे ॥४००।।

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215