Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३८१
३८२
नवमो भवः पुनरप्यागते राज्ञि प्रागुक्तं सर्वमप्यभूत् । इत्थं पुन: पुनर्जातं बहुशोऽप्येतदीदृशम् ॥२८३॥ ततः पृच्छाम्यहं तस्मिन् रतेः स्नेहोऽस्ति वा न वा । मानिन्यूचे कुमाराऽस्ति परमार्थेन न ध्रुवम् ।।२८४।। निर्मतिः सा रतिर्वस्तु निजं भावं च नेक्षते । आत्मनः परतन्त्रत्वं ध्यायत्यस्याऽऽयति च न ॥२८५॥ कुमारः प्राह तन्नैवाऽनुरागोऽस्त्यनयोर्मयि । इमे अपि मतिभ्रष्टे स्वचेतसि विचार्यताम् ।।२८६।। एते यदिच्छतो भोगान् स्वभावाऽसुन्दराऽस्थिरान् । हेतूनीpविषादादेस्तेन वस्तु न पश्यतः ॥२८७।। दुर्लभं च मनुष्यत्वं निर्वाणपदकारणम् । न नियोजयतो धर्मे तेन भावं न पश्यतः ॥२८८।। तथा मृत्योरतिकूरस्याऽऽत्मानं गोचरे स्थितम् । यन्न चिन्तयतस्तेन नेक्षेते परतन्त्रताम् ॥२८९।। तथा भोगविषं जीवमोहकं दुर्गतिप्रदम् । नियोजयन्त्यौ मां तत्राऽऽयति चिन्तयतो न मे ॥२९०|| एवं स्थिते कथं नामाऽहितेषु विनियोजनात् । एतयोः परमार्थेनाऽनुरागः स्यान्ममोपरि ॥२९१।। श्रुत्वेति वध्वौ संविग्ने जातसंशुद्धभावने । गुरोरिव कुमारस्य क्रमौ नत्वेत्यभाषताम् ।।२९२।। आर्यपुत्राऽऽवयोः कामरागो भवभयादिव । गतस्तत्स्वानुरागस्य तुल्यं यत्कृत्यमादिश ॥२९३।। कुमारस्ते प्रशस्याऽऽह मोहसंक्लेशयोरमी । विषया हेतवः सात्म्यान्येतयोश्चानुबन्धकाः ॥२९४।।
समरादित्यसंक्षेपः तत्त्यज्यन्तामिमे यावज्जीवमाद्रियतां शमः । चित्ते विचार्यतां धर्मे क्रियतामुद्यमः परः ॥२९५|| प्रोचतुस्ते तवाऽऽदेशाद्यावज्जीवं समुज्झिताः । आवाभ्यां विषयाः शेषे प्रमाणं शक्तिरेव नौ ॥२९६।। ये चर्चरीचमूभङ्गेऽनङ्गो दुर्गे किलाश्रयत् । ताभ्यामपि कुमारेण धर्मद्वारा निरासि सः ॥२९७।। दध्यौ हृष्टः कुमारोऽथ धन्यत्वमनयोरहो । धीरत्वमल्पकर्मत्वं प्रशमस्तत्त्ववेदिता ॥२९८।। ध्यात्वेत्याह युवां धन्ये यावज्जीवं मयाऽपि तत् । विषयान्सम्परित्यज्य ब्रह्मचर्य प्रतिश्रुतम् ॥२९९।। अहो श्रेष्ठमहो श्रेष्ठमित्यशोकादयोऽवदन् । चके कुसुमवृष्टिश्च यथासन्निहिताऽमरैः ॥३०॥ सर्वं हर्षमयं जज्ञे तदा त्वावरणक्षयात् । कुमारस्याऽवधिज्ञानं वर्धमानमजायत ॥३०१।। वीक्ष्याऽतीतादिकान्भावान्संविग्नोऽतिशयेन सः । श्रुत्वेति पितरौ द्वा:स्थाद्विषण्णावेवमूचतुः ॥३०२। कुमारो नोचितं चक्रे त्यजन् भवभवं सुखम् । इदं सुदुःकरं कस्माद्विदधे तनयः स नौ ॥३०३|| तदा खड्गकरा सर्वाङ्गीणाभरणभारिणी । पराभवन्ती तेजोभिः प्रदीपान्देवताऽऽगमत् ॥३०४॥ अथो सहर्षखेदाभ्यामेताभ्यां प्रणता च सा । ऊचेऽलं वां विषादेन कुमारेणोचितं कृतम् ॥३०५॥ सुधाऽऽदायि विषं हित्वा क्लैब्यं हित्वा च पौरुषम् । औदार्य क्षुद्रतां हित्वा भवं हित्वा च निर्वृतिः ॥३०६॥

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215