Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नवमो भवः
३७७
३७८
आद्या कुङ्कमलिप्ताऽङ्गी लक्ष्यते दन्तपुत्रिका । नीलाऽश्मपुत्रिकेवाऽन्या श्रीखण्डद्रवमण्डिता ॥२३५।। दध्यौ कुमारस्ते वीक्ष्य कल्याण्याकृतिरेतयोः । सर्गचङ्गानि चाङ्गानि सम्पूर्णावयवावली ॥२३६॥ निष्कलङ्कं च लावण्यमाभोगश्चातिनिर्मलः । लक्षणानि प्रशस्तानि मूर्तिः शान्तरसाश्रया ॥२३७।। अनघं धैर्यमेते तत्पात्रभूते भविष्यतः । इति चिन्तयता तेन चके पाणिग्रहस्तयोः ॥२३८।। विशेषकम् सर्वं यथोचितं कृत्वा भ्रान्ता मङ्गलमण्डली । उपचारो जने चक्रे महादानं च दापितम् ॥२३९।। वृत्तो विवाहयज्ञोऽथ दिनः परिणतोऽभवत् । शीतीभूतं खेबिम्बं संहृतः किरणव्रजः ॥२४०॥ सन्ध्या समागता जातं नभः कनकपिञ्जरम् । अभ्युद्गतो निशानाथः पूर्वकाष्ठा विजृम्भिता ॥२४१।। तदाऽशोकादिभिः सार्धं प्रज्वलन्मणिदीपकम् । पुष्पोपचारसंयुक्तं भ्रमरावलिमालितम् ॥२४२।। संगतं पटवासेन विलुलच्चम्पकस्रजम् ।। संगतं शयनीयेन धूपधूमाऽभिवासितम् ।।२४३॥ ससखीपरिवाराभ्यां वधूभ्यां च विभूषितम् । कुमारो वासभवनमाजगाम शमप्रियः ॥२४४।। विशेषकम् अभ्युत्थितो वधूभ्यां स शयनीये निषेदिवान् । अशोकाद्यः सुहृद्वर्गो यथायोग्यमुपाविशत् ॥२४५।। अथ कुन्दलता नाम्ना सखी संकेतिताऽऽद्यया । परया मानिनी नाम्ना ताम्बूलं ददतुर्मुदा ॥२४६।।
समरादित्यसंक्षेपः मालां बकुलपुष्पाणामस्मै कुन्दलताऽर्पयत् । अतिमुक्तकसम्भूतपुष्पमालां तु मानिनी ॥२४७।। ऊचतुश्च स्वहस्ताभ्यां ग्रथिता प्रियया तव । कुमार तव योग्येयमत्यन्तमनुरागतः ॥२४८।। यथायोग्यं कुमारस्तन्निवेशयतु ते इमे । करोतु सफलं स्वस्मिन्ननुरागं च कान्तयोः ॥२४९।। ऊचे च समरादित्यो भवत्यौ चिन्त्यमस्त्यदः । ममोपर्यनुरागोऽस्ति कान्तयोर्नास्ति वाऽनयोः ॥२५०॥ प्राह कुन्दलताऽग्रेऽदश्चिन्तितं शृणु साम्प्रतम् । त्वन्नाम बन्दिनोद्धृष्टं श्रुतमाभ्यां यदाद्यपि ॥२५१।। तदादि खेदहर्षाभ्यां गृहीते निन्दतः स्तुतः । निजं जन्म कलाजालमस्यतोऽभ्यस्यतोऽपि वा ॥२५२॥ कुरुतः संकथां तेन कुरुतस्तत्र विश्रमम् । खिद्यते च शरीरेण वर्धेते विभ्रमेण च ॥२५३।। मुच्येते लज्जयाऽप्येते बाद रणरणेन च । इदं वीक्ष्य किमेतन्नु व्यषीददनयोः पिता ॥२५४|| ज्ञात्वा व्यतिकरं तं च सुनिष्णातसखीजनात् । स्थानेऽभिलाषं संचिन्त्य सहर्षात् प्राहिणोदिमे ॥२५५।। सम्पन्नस्वेहिते सौख्यसहिते इह चागते । कुमारचिन्तितो दूरमनुरागस्तदेतयोः ॥२५६|| दध्यौ कुमारोऽस्त्यनयोरनुरागो ममोपरि । अनुरक्ताश्च गृह्णन्ति निर्विकल्पं वचोऽङ्गिनः ॥२५७॥ प्रवर्तन्ते स्वभावेन क्रियया विदधत्यपि । तद्युज्यतेऽनयोः कर्तुं देशना क्लेशनाशिनी ॥२५८।।

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215