Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 190
________________ नवमो भवः ३७३ ३७४ कुमारोऽथ समुत्थायाऽऽगतः सहचरैः सह । नत्वा वसुमतीनाथमुपविष्टस्तदन्तिके ॥१८८।। उक्तो भूपतिना वत्स ! मातुलेन तवाऽऽदरात् । भुभुजा खड्गसेनेन सप्तवेणीसुनिर्मले ॥१८९।। जीविताऽभ्यऽधिके पुत्र्यौ प्रहिते ते स्वयंवरे । एका विभ्रमवत्याख्या परा कामलताभिधा ॥१९०॥ युग्मम् तत्तस्य बहुमानेन कन्ययोश्चाऽनुरागतः । आज्ञया गुरुवर्गस्य विशिष्टाऽध्वाऽनुवर्तनात् ॥१९१॥ कुमारेणेष्टसम्पत्त्याऽऽनन्दितव्ये सुनिश्चितम् । कृतेऽस्मिन् वचने स्याच्च सर्वेषामपि निर्वृत्तिः ॥१९२।। श्रुत्वेति समरादित्यो दध्यावेतन्न शोभनम् । संयोगा दुःखबीजानि निदेशवचनं त्वदः ॥१९३|| अभ्यर्थितोऽस्मि प्रथमं मया बहुमतं च तत् । अलङ्घनीया गुर्वाज्ञा मानिता हि जिनैरपि ॥१९४।। नियमेनेष्टसम्पत्त्या निर्वतिः सुन्दरं वचः । कुर्वाणानां च गुर्वाज्ञां क्वाऽपि नाऽशोभनं भवेत् ॥१९५।। विशेषकम् इति ध्यायन्नयं प्रोक्तः साशङ्केनाऽवनीभुजा । चिन्तया पूर्यतां वत्स ! प्रार्थनां मम संस्मर ॥१९६।। न चाऽत्र परिणामस्ते कल्याणानां परम्पराम् । विमुच्याऽन्यादृशः कोऽपि कर्तव्यं तदिदं ध्रुवम् ॥१९७।। इदं सुशोभनं वाक्यमिति प्रमुदितात्मना । अभाष्यत कुमारेण गुर्वाज्ञा मे शिरस्यसौ ॥१९८|| हृष्टोऽथ नृपतिः प्राह साधु साधु सुनन्दन ! । विवेकः संगतस्तेऽसौ गुरुभक्तिः सुशोभना ॥१९९| समरादित्यसंक्षेपः कल्याणभाजनं चाऽसि भवतोऽन्यच्च वेम्यहम् । पक्षपातं महाशुद्धे धर्मे समुचिते सताम् ॥२००॥ असारोऽयं भवः सत्यं निर्वेदस्य निबन्धनम् । तथाऽपि लोकधर्मोऽयमनुवयों मनीषिणा ॥२०१॥ कुशला संततिः कार्या परस्योपकृतिस्तथा । अनुवर्त्यः कुलाचारः सदाचारविचारिभिः ॥२०२॥ इत्थमेकान्ततो लोकधर्म परिणते सति । निष्पन्ने पौरुषे ब्रह्मचर्ये सुष्ठ प्रतिष्ठिते ॥२०३|| वयसः परिणामेऽथोपद्रवैविद्रुतैरलम् । गुणपात्रीकृते चात्मन्युचितं धर्मसेवनम् ॥२०४।। इदं ततः कुमारेण शोभनं विदधेऽधुना । भवत्वेवमिदं भावि परिणामेऽतिसुन्दरम् ॥२०५।। सप्तभिः कुलकम् तदा कक्षाऽन्तरस्थेन सिद्धार्थेन पुरोधसा । उक्तमत्र न संदेहोऽवश्यमेव भविष्यति ॥२०६।। मङ्गल्यतूर्य दध्वान गजितं मत्तहस्तिना । उद्धृष्टो बन्दिलोकेन बाढं जयजयारवः ॥२०७|| नृपः प्रमुदितः प्रोचेऽनुकूलः शकुनव्रजः । अन्यच्च शुद्धधर्माहत्वं सुसुन्दरकारणम् ॥२०८।। गृहीतशकुनार्थोऽथ कुमारो मुदितोऽवदत् । सर्वं ताताशिषा भाव्यथाऽपठत् कालपाठकः ॥२०९।। तमो निर्माश्य मोहं च जनस्य तपनोऽधुना । चेष्टयाऽऽकाशमध्यस्थो धर्मकृत्ये प्रवर्तते ॥२१०॥ १. पीपठत् क ।

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215