Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 189
________________ ३७१ ३७२ नवमो भवः कुमारो जनबोधाय खड्गं लात्वाऽथ तं जगौ । अरे रे दुष्ट ! मृत्योऽमुं मुञ्च युध्यस्व वा मया ॥१६५।। भणन्निति रथोत्थायं प्रवृत्तस्तस्य संमुखः । सूतः प्राह न कोऽप्यस्ति मृत्युनामा पुमानिह ॥१६६।। दृष्टो निग्रहयोग्यश्च नृपतीनामयं पुनः । देहत्यागस्वभावो हि कर्मणा जनितो जने ॥१६७।। तदस्याऽप्रभवो भूपाः सर्वसाधारणो ह्ययम् । अथ पृष्टैः कुमारेण पौरैरपि तदीरितम् ॥१६८।। कुमारोऽथाऽवदत्सूतं बान्धवाः किं त्यजन्त्यमुम् । सूतः प्राह किमेतेन हेतुभूतो गतो हि सः ॥१६९।। कलेवरमिदं तिष्ठदपकाराय केवलम् । सङ्कलं कृमिजालेन पूतिगन्धनिबन्धनम् ॥१७०।। कुमारः प्राह तयेते बान्धवा विलपन्ति किम् । सूतः प्राह प्रियोऽमीषां गतोऽयं दीर्घयात्रया ॥१७१।। एतेनाऽदर्शनं चैषां स्मृत्वा तत्सुकृतान्यतः । निरोद्धुमक्षमाः शोकमनुपाया रुदन्त्यमी ॥१७२।। कुमारः प्राह यद्येष प्रियः किं नाऽनुयान्ति तत् । सारथिः प्राह नो शक्यमिदं कर्तुं कथञ्चन ॥१७३।। गच्छन्नाख्याति न प्रेमाऽपेक्षते दृश्यते न च । स्थानं न ज्ञायते चाऽस्य वैचित्र्यात्कर्मणां गतः ॥१७४|| अनवस्थितसंयोगादनुबन्धो न चेदृशः । नाऽनुगच्छन्त्यतो हेतोः कुमारोऽथाऽवदत्पुनः ॥१७५।। समरादित्यसंक्षेपः एवं यदि ततो व्यर्था प्रीतिस्तत्रेतरो जगौ । परमार्थोऽयमेवाऽत्र कुमारः प्राह यद्यदः ॥१७६।। ततः कश्चिदुपायोऽस्ति तमुवाचाऽथ सारथिः । उपायो योगिगम्योऽत्र ज्ञायतेऽस्मादृशैर्न हि ॥१७७|| पृष्टैरथ कुमारेण पौरैरपि तदीरितम् । ऊचे कुमारो यद्येवं तत्सर्वसमताजुषि ॥१७८।। असुन्दरे प्रकृत्या च सर्वथाऽप्यपकारके । मृत्यौ चिन्त्यः प्रतीघातोपायः किं नर्तनेन नु ॥१७९।। श्रुत्वेति पौराः संविग्ना बोधिबीजानि लेभिरे । नृत्यादुपरताः कृत्ये प्रवृत्ताश्च यथोचितम् ॥१८०॥ कुमारः सवसन्तस्य वसन्तसुहृदश्चमः । चर्चरीमिषतो मन्ये त्रिभङ्क्त्वा स्ववशे व्यधात् ॥१८१।। अथ ज्ञात्वेति वृत्तान्तं देवसेनाऽभिधद्विजात् । राजा प्रेष्य प्रतीहारं समरादित्यमाह्वत ॥१८२।। आयातः प्रणतः प्रोक्तो भूभुजा वच्मि किञ्चन । कुमार तत्कुमारेणावश्यं कर्तव्यमेव च ॥१८३|| कुमारः प्राह गुरवो दुलझ्यवचनाः खलु । राज्ञोचेऽवसरे तर्हि भणिष्याम्यधुना व्रज ॥१८४।। आदेश इत्यथ प्रोच्य प्रणम्य च महीपतिम् । कुमारः सदनं गत्वा कर्तव्यमुचितं व्यधात् ॥१८५।। अन्यदा भवनस्थस्य मित्रैर्धर्मकथाकृतः । अमारस्य कुमारस्य प्रतीहारः समागमत् ॥१८६।। अवोचच्च कुमार त्वां देव इत्यादिशत्यहो । एहि त्वं वेगतोऽमात्याः समेता मातुलस्य ते ॥१८७।। १. रथोत्थाय ख ङ च ।

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215