Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 188
________________ नवमो भवः प्रोचे कुमारस्तद्व्याधौ सर्वसाधारणे रिपौ । उपायो धर्म एवाऽत्र कार्यः किं नर्तनादिभिः || १४१ || पौराः प्राहुरिदं सत्यं लोकस्थितिरियं पुनः । लोकस्य रसभङ्गस्तत्कर्तुं देव ! न युज्यते ॥ १४२ ॥ इत्थं सारथिनाऽप्युक्तेऽनुमते नृपसूनुना । प्रवर्तन्ते स्म चर्चर्यः कियतीमपि भूमिकाम् ॥१४३॥ अपश्यच्च स कोणस्थं स्वगृहस्योपरि स्थितम् । श्लथाङ्गं खलति क्षीणदन्तं कम्प्रशरीरकम् ॥ १४४॥ गलद्विलोचनं काशश्वासैर्भाषितुमक्षमम् । वणिग्मिथुनकं वृद्धमवज्ञातं सुतैरपि ॥ १४५ ॥ युग्मम् तद्वीक्ष्य सूतं बोधाय प्राह किं प्रेरणं न्विदम् । स प्राह प्रेरणं नैतज्जरातं मिथुनं त्वदः ॥ १४६॥ कुमारः प्राह का नाम जरा स प्राह देव या । अजीर्णमपि कालेन कुरुते गात्रमीदृशम् ॥ १४७॥ ऊचे कुमारो दुष्टेयमहिता च जने ततः । कस्मादुपेक्षते तातः स प्रोचे तस्य नो वशे ॥ १४८ ॥ किं वशे नेति स प्रोच्य बोधायाऽसि विमार्ग्य च । प्रोचे जरे विमुञ्चेदं स्त्री त्वं किं भण्यसे परम् ॥१४९॥ भणन्निति रथोत्थायमेतां प्रति चचाल सः । चर्चर्योऽथ पुनः शान्ता मिलितश्चाखिलो जनः ॥ १५०॥ सूतः प्रोचे जरा देव न स्त्री काऽप्यस्ति किं पुनः । नृणां कालपरिणतिस्तन्नोपालम्भमर्हति ॥ १५१ ॥ देव साधारणा चेयं सर्वेषामपि देहिनाम् । कुमारपृष्टैः पौरैरप्येतदेवमितीरितम् ॥१५२॥ ३६९ ३७० समरादित्यसंक्षेपः कुमारोऽथ जजल्पाऽस्यां प्रणाशिन्यां महौजसः । धर्मकामाऽपकारिण्यां पराभवकुलावनौ ॥१५३॥ उपहासप्रवधिन्यां प्रभवन्त्यां जनं प्रति । युज्यते नर्तनाद्यं किं हित्वा धर्मरसायनम् ॥ १५४ ॥ युग्मम् श्रुत्वेति ते कुमारस्य विवेकं तत्त्वदर्शिताम् । स्तुवन्तः परमं प्रापुः संवेगमखिला जनाः || १५५ ॥ ऊचुश्च देव साधूचे किं त्वेषा मोहवासना । दुस्त्यजा भूपसूः प्राह मोहवासनया कृतम् ॥१५६॥ यदेष दारुणो व्याधिर्जरा रौद्रा च पापिनी । तद्विपक्षे ततो धर्मे कर्तुं यत्नः सुसंगतः ॥ १५७॥ अत्रान्तरे जरन्मञ्चस्थितो जीर्णपटावृतः । उत्क्षिप्तः पुरुषैर्दनैः कतिथैर्बन्धुभिर्वृतः ॥ १५८ ॥ रुदता स्त्रीजनेनौच्चैः पत्न्याऽनुक्रन्दमानया । जनेन वीक्ष्यमाणश्च दरिद्रः पञ्चतां गतः ॥ १५९ ॥ आराद् दृष्टः कुमारेण ततः पृष्टश्च सारथिः । आर्य ! मह्यं समाख्याहि किमिदं प्रेरणं नवम् ॥१६०|| विशेषकम् दध्यौ सूतो विदन्नेष विप्रलम्भयति ध्रुवम् । वाणी किमनभिज्ञस्याऽस्मादृग्बोधे प्रगल्भते ॥ १६१|| प्राप्तकालं भवत्वेवं सत्यमाख्याम्यथाऽवदत् । प्रेरणं न भवत्येतन्मृत्युग्रस्तः पुमानयम् ॥१६२॥ कुमारः प्राह को नाम मृत्युः प्रोवाच सारथिः । इत्थं संत्यज्यते मर्त्यो येन ग्रस्तः स्वकैरपि ॥ १६३॥ कुमारोऽथावदद् दुष्टोऽहितश्चैष जनं प्रति । तत्किं न हन्ति तातोऽमुं तेनाऽवध्य इतीरितम् ॥१६४॥

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215