Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
सप्तमो भवः
२९१
दध्यौ सेनः स एवाऽयं पादपः प्रियमेलकः । दृश्यन्ते युग्मरूपाणि यत्पुष्पाणि सितानि च ॥३९५।। पल्लीशाय समाख्याय पूजोपकरणं च सः । आनाय्याऽपूजयत्कल्पतरुमेकाग्रमानसः ॥३९६|| तुष्टाऽथ देवता तस्य प्रत्यक्षीभूय तं जगौ । तुष्टाऽस्मि वत्स ! किं ब्रूहि प्रियं ते क्रियतामतः ॥३९७|| स प्राह कि प्रियं मे स्यादेवि ! त्वदर्शनाधिकम् । देवी प्रोचेऽनुरूपे ते निरीहत्वविविक्तते ॥३९८॥ तथापि हि गृहाणैतं मणि नरशिरोमणे ! । परोपकृतयेऽशेषविषरोगनिषेधकम् ॥३९९॥ सेनस्ततस्तदारोग्यरत्नमादाय देवताम् । ववन्दे सा चिरं जीवेत्युदित्वा च तिरोदधे ॥४००।। तापस्यो जहषुर्वीक्ष्य तं देवीबहुमानितम् । ऊचुश्च मध्यसन्ध्यातिकमो यामस्ततो वयम् ॥४०१।। सेनः प्रोचे कुलपति वन्दिष्येऽहं ततः समम् । यामः परिजनेनाऽथ युतोऽनंसीन्मुनीश्वरम् ॥४०२॥ तापस्याख्यातवृत्तान्तस्तुष्टस्तस्मै मुनीश्वरः । पत्नीं समर्प्य प्रोवाच मम धर्मसुता ह्यसौ ॥४०३|| मम च्छिन्नभवस्याऽपि गुणानां पक्षपाततः । प्रतिबन्धो महानस्यां तद् द्रष्टव्या तथा त्वया ॥४०४|| कुमारः प्राह भगवन् यदादिशति मे भवान् । तदा क्व दृश्यो भगवानित्यरोदीन्नृपात्मजा ॥४०५।। प्रोचे कुलपतिश्चैनां वत्से धर्मरतेस्तव । दूरे नाऽस्युपदेशेऽवस्थितियन्मुनिदर्शनम् ॥४०६॥
समरादित्यसंक्षेपः ततः कुलपति नत्वाऽऽपृच्छ्य सा तापसीजनम् । कुमारमागता सोऽपि सर्वं सम्पूज्य निर्ययौ ॥४०७।। दिनैः कतिपयैविश्वपुरं प्राप्तो न्यवेदयत् । राज्ञे शान्तिमतीलाभं सोऽथ वर्धापनं व्यधात् ॥४०८।। अथ संमान्य पल्लीशे विसृष्टेऽमरसेनभूः । शातिमत्या समं भोगान् बुभुजे भूभुजः प्रियः ॥४०९।। अन्यदा कर्मवैचित्र्यात् संसारासारतावशात् । सद्योघाती नृपस्याऽऽगाद्यमराज इवामयः ॥४१०॥ शूलं शिरोतिः सन्धीनां दन्तानां च प्रकम्पनम् । श्वासो लोचनभङ्गश्च स्वरभङ्गश्च जज्ञिरे ॥४११।। भिषजो भेषजे व्यर्थे विषेदुः खेदमाप च । शुद्धान्तस्तं च वृत्तान्तमाख्यत्सेनाय वेत्रभृत् ॥४१२।। सेनोऽथ नृपतेर्विश्वोपकर्तुस्तादृशीं दशाम् । श्रुत्वा स्वमक्षमं निन्दन्प्रतीकारे विमूर्छितः ॥४१३।। वीजित्वाऽऽश्वासितः शान्तिमत्याऽथोपायधीरया । उक्तः स्मरसि किं नाऽऽर्यपुत्र ! तं दैवतं मणिम् ॥४१४।। सोऽथ सुन्दर्यदः साधु स्मृतमुक्त्वेति तं मणिम् । आदाय शकुनैभव्यैः प्रेरितो नृपमासदत् ॥४१५॥ नृपमारोग्यरत्नेन चापमार्जयति स्म सः । अचिन्त्यरत्नमाहात्म्याच्छान्ते शूले शिरोव्यथे ॥४१६।। घटिताः सन्धयः सर्वे दन्ता निश्चलतामिताः । शान्तः श्वासो दृशौ स्मेरे किमेतच्चेति भाषितम् ॥४१७॥
१. शूल
ख ङ
शूलि ग घ च ।

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215