Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 171
________________ अष्टमो भवः ३३५ ३३६ समरादित्यसंक्षेपः तत्र साधिकसप्ताब्धीनायुः सम्पूर्ण्य तच्च्युतौ । युवां नृपतिगेहेषु जज्ञाथे अत्र जन्मनि ॥३०४|| तद्भिल्लत्वेऽर्जितं कर्म क्षपितं नरके बहु । शेषं क्षुद्रमनुष्यत्वे तच्छेषमधुना पुनः ॥३०५।। तत्पापकर्मणामत्र मत्वा वीपाकमीदृशम् । तथा कुरु यथा नैव दुःखान्याप्नोषि साम्प्रतम् ॥३०६॥ इत्याकर्ण्य मया साधं देव्या परिजनेन च । प्रतिपन्नं व्रतं सैष वृत्तान्तः प्राक्तनो मम ॥३०७।। श्रुत्वेति पर्षत् संविग्ना गुणचन्द्रो गुरुं जगौ । प्रभोः प्रभावतो धर्मो मया ज्ञातो यथातथः ॥३०८।। ततो देहि गृहस्थत्वस्योचितानि व्रतानि मे । इत्युक्ते विग्रहेणाऽपि द्वयोरपि ददौ प्रभुः ॥३०९।। तौ भावश्रावको भक्त्या गुरुं प्राणमतां ततः । गुरुणा गुणचन्द्रस्तु भाषितो बहुमानतः ॥३१०॥ कुमार तव बोधाय गतो रत्नपुरादहम् । संजातश्चैष तत्तत्र याम्युन्मुखयतिव्रजे ॥३११।। अयोध्यायां पुनर्भावि भवता सह दर्शनम् । भाव्यं दृढव्रतेनोच्चैरादेश इति सोऽवदत् ॥३१२।। गुरुः ससाधुरप्यभ्रगत्या प्रचलितस्ततः । एताभ्यां वन्दितो दूरं वीक्षितश्चातिभक्तितः ॥३१३।। तस्मिंश्चादर्शनीभूते तावयोध्यां पुरीं प्रति । ससैन्यौ चलितौ हर्षकलितौ धर्मलाभतः ॥३१४|| इतश्च गत्वाऽयोध्यायां खेचरो वानमन्तरः । चके कैतवतो वाता कुमारस्य परिग्रहे ॥३१५।। कुमारो निहतो युद्धे विग्रहेणेति सा कमात् । श्रुता मैत्रीबलेनैष न श्रद्धत्ते स्म तां पुनः ॥३१६।। श्रुत्वा रत्नवती त्वेनां मूर्छिता पतिता भुवि । आश्वासिता परिजनेनाऽलं बाष्पमुचा शुचा ॥३१७|| राज्ञो निवेदितेऽत्रार्थे तत्र राजा समागतः । तया वहिप्रवेशाय विज्ञप्तः प्रोचिवानिति ॥३१८।। अश्रद्धेयमिदं तन्मा कार्षीरविधवे शुचम् । गोमायुना दृढेनाऽपि पञ्चास्यो न विनाश्यते ॥३१९।। त्वयि पुत्रं कुमारस्य सिद्धादेशो दिशत्यलम् । दृष्टश्च कुशलस्वप्नो मया मे नाकुलं मनः ॥३२०॥ कुमारस्य च नोत्पातः कोप्यभूदभिषेणने । तवावैधव्यलक्ष्मीश्चाविपन्ना शिवमेव तत् ॥३२१॥ केनाऽपि हि कुमारस्य मन्ये प्राग्भववैरिणा । कृता कैतववार्ताऽसौ तत् त्यजैनमसद्ग्रहम् ॥३२२॥ इदमित्थमथो दैवं यदि सत्यं विधास्यति । ततस्त्वमाकुला कस्मादस्माकमपि सा गतिः ॥३२३|| प्रेषितः पवनगतिनामाऽऽस्ते लेखवाहकः । पञ्चदिन्यागते तत्र करिष्यामो यथोचितम् ॥३२४|| अर्वाक् पुनर्न संतप्यमथ रत्नवती जगौ । तातादेशः प्रमाणं मे किञ्चिद्विज्ञपयामि तु ॥३२५।। करोमि शान्तिकर्माऽहं पूजयामि च देवताः । यावत्कुशलवार्तेति तावदुज्झामि चाऽशनम् ॥३२६।। राज्ञोचे कुर्विदं वत्से ! प्रसाद इति साऽवदत् । त्वं भवाऽविधवेत्युक्त्वाऽगमन्मैत्रीबलो नृपः ॥३२७।।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215