Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 180
________________ अष्टमो भवः स तया पीडितः काये न तु भावे महामनाः । अहतेऽत्र पुनः कुद्धः शिलामन्यां मुमोच सः ॥ ५१६ ॥ एवं त्रिः प्रहतस्तेन शिलया न मृतो यदा । तदा धर्मान्तरायार्थमुपायं विदधेऽपरम् ॥५१७|| कस्याऽपि सदनं मुष्ट्वा मुक्त्वा मोषं च सन्निधौ । आख्यदारक्षकाणां स तेऽथ तत्र समाययुः ॥ ५१८ । वीक्ष्य तं भगवन्तं च शान्तमूर्ति तपः कृशम् । ते दध्युः कथमीदृक्षः कर्मेदृक्षमयं श्रयेत् ॥ ५१९ ॥ अथवा दम्भवैचित्र्यं मोषमन्वेषयामहे । दृष्टे मोषे धृताशङ्कः पृष्टश्च भगवानिमैः ॥ ५२० ॥ न स जल्पत्यथैकेन ताडितोऽपि न जल्पति । हृष्टस्तु खेचरो बद्धं नरकायुर्न्यकाचयत् ॥५२१॥ तलारक्षैरथाऽऽख्यायि विश्वसेनाय भूभुजे । समेतः प्रत्यभिज्ञाय तं ननाम स भावतः ॥५२२॥ ऊचे चाऽऽरक्षकान् किञ्चिद्विलोमं न कृतं मुनेः । ते प्रोचुस्तादृशं किञ्चिन्न चक्रेऽथ नृपोऽवदत् ॥ ५२३|| अहो स्वाम्ययमस्माकं गुणचन्द्राभिधो नृपः । सर्वसङ्गपरित्यागी ध्यानयोगं समाश्रितः ॥ ५२४ || समस्तेष्वपि भावेषु ममत्वपरिवर्जितः । करोति सफलं जन्म मानुषं जिनकल्पतः ॥ ५२५ ॥ युग्मम् धन्योऽयमिति ते प्रोच्य क्षमयामासुराशु तम् । राज्ञोचे कथितं येन तमानयत लध्विह ॥५२६ ॥ श्रुत्वेत्यदर्शनीभूतः खेचरो वानमन्तरः । तमदृष्ट्वा च ते प्रोचुरधुनैव गतः क्वचित् ॥५२७॥ ३५३ ३५४ समरादित्यसंक्षेपः राज्ञोचेऽमानुषः स स्यादुपसर्गकरो विभोः । तेन संक्लिष्टचित्तेन तदलं पापकारिणा ॥ ५२८ ॥ यात यूयं समाख्यात पुरे सान्तःपुरेऽपि च । राजर्षिर्गुणचन्द्रोऽस्त्यागतस्तं नमताऽऽदरात् ॥५२९॥ तदादेशे तलारक्षैर्गत्वा तत्र निवेदिते । अभ्येत्य पूजयित्वा च भक्त्या सर्वैर्नतः प्रभुः ॥ ५३०॥ अथाऽश्मपातनिर्घातमूर्छाव्यपगमे सति । राज्ञो राजर्षिर्वृत्तान्तमित्याख्यत्काष्ठभारिकः ॥ ५३१ ॥ त्रिः कोऽपि भगवत्यस्मिशिलां व्योमचरोऽमुचत् । तन्निर्घाताच्च मे मूर्छाऽऽगता वेद्म्यपरं न तत् ॥५३२॥ ततो नृपः सशुद्धान्तः शुद्धान्तःकरणोऽधिकम् । शोचन्भगवता ध्यानं पारयित्वेति भाषितः ॥ ५३३|| अलं शुचा महाराज ! दुःखरूपो ह्ययं भवः । सन्तस्तत्तापसंतप्ता धर्मशाखिनमाश्रिताः ॥५३४|| सम्यक्त्वमूलं सिद्धान्तस्कन्धं व्रतलतान्वितम् । शीलाङ्गपत्रलं देवनरद्धिकुसुमव्रजम् ॥५३५॥ जिनवाक्कुल्ययाऽजस्रं सिच्यमानमतुल्यया । निर्वाणफलमश्रान्तं सेवितं साधुपङ्क्तिभिः ॥५३६॥ विशेषकम् मूढास्तु तुच्छभोगानां कृते क्लिश्यन्त्यनेकशः । जानन्तोऽप्यस्थिरं देहं स्वं पश्यन्त्यजरामरम् ॥५३७॥ किं च राजन् ! मयाऽप्यत्र संसारे भ्रमता चिरम् । किं किं दुःखं न सम्प्राप्तं बहुकृत्वः सुदारुणम् ॥५३८|| १. धर्मवारिधिमाश्रिताः ख ग घ च ।

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215