Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 183
________________ नवमो भवः बहुकस्तूरिकापङ्कग्रस्यमानजनक्रमम् । शिञ्जानमञ्जुमञ्जीरनारीराजिविराजितम् ॥२३॥ परस्परसमुत्क्षिप्तोत्तरीयाणां च योषिताम् । संलक्ष्यमाणवक्षोजविस्तरं कामिभिर्नरैः ||२४|| आयल्लकमिलत्पौररुध्यमानाध्वसंचरम् । मार्दङ्गिकव्रजन्यस्यमानकण्ठविभूषणम् ||२५|| परस्परपरिस्पर्धानृत्यद्वारवधूजनम् । वर्धापनमभूद्दिव्यं जितस्वर्गिमहोत्सवम् ॥ २६ ॥ पञ्चभिः कुलकम् मास्यतीतेऽस्य च स्वप्नदर्शनस्याऽनुमानतः । समरादित्य इत्याख्यामदात्पैतामहीं नृपः ||२७|| वानमन्तर उद्धृत्य भवं भ्रान्त्वाऽऽप्य फेरुताम् । तत्रैव पुरि मातङ्गग्रन्थिकाऽऽख्यस्य सद्मनि ॥ २८ ॥ भार्यायां यक्षदेवायां गिरिसेनः सुतोऽजनि । कुरूपो दुःस्थितो मूर्खः समयं गमयत्ययम् ॥ २९ ॥ युग्मम् बाल्येऽपि समरादित्यस्त्वबालचरितक्रमः । कलाकलापसम्पूर्ण: कुमारत्वमवाप्तवान् ॥३०॥ शास्त्रानुरक्तः श्रद्धालुः संविग्नः समतास्थितः । तत्त्वज्ञः सोऽस्मरज्जाति तन्न वेत्ति जनः पुनः ||३१|| विशुद्धज्ञानयुक्तोऽयं विहाय विषयव्रजम् । विरक्तात्मा शुभध्यानस्थितो यतिरिवाऽभवत् ||३२|| निरीक्ष्य तादृशं राजा विषयाऽऽ सेवनाविधौ । तं दुर्ललितगोष्ठीषु निधातुमुपचक्रमे ||३३|| १. तदुल्ललितघोष्ठीषु विधा क । ३५९ ३६० समरादित्यसंक्षेपः अथ कामाङ्कुराशोककलिताङ्गाभिधाभृतः । भुजङ्गास्ते नरेन्द्रेण मित्रत्वेऽस्य नियोजिताः ||३४|| ते च गायन्ति खेलन्ति स्मरगाथाः पठन्ति च । कामशास्त्राणि शंसन्ति प्रशंसन्ति च नाटकम् ||३५|| संविग्नात्मा कुमारस्तूपायं तद्बोधहेतवे । ध्यायन्नस्थादचक्षाणो वचनं तद्विरोधकृत् ॥३६॥ तद्बोधायाऽन्यदा नाट्यभङ्गीमङ्गीचकार च । नीत्वा विश्वस्ततां प्रीतिर्वर्धिताऽपि च तैः समम् ||३७|| अशोकेनाऽन्यदा पृष्टः कामशास्त्रस्य चारुताम् । प्रोचे कामाङ्करस्तद्धि त्रिवर्गफलकारणम् ॥३८॥ कामशास्त्रप्रयोगाद्धि स्वदाराऽऽराधनं ततः । शुद्धः सुतो भवेद्दानाद्येन धर्मोऽप्यनुत्तरः ||३९|| सम्पद्येते च कामार्थी रक्तस्त्रीशुद्धपुत्रतः । विपर्यये तु सर्वेषामर्थानां स्याद्विपर्ययः ||४०|| कामशास्त्रं मतमतः कामधर्मार्थसाधकम् । ललिताङ्गो जगादाऽथ सुशोभनतरं ह्यदः ॥ ४१ ॥ धर्मार्थसफलत्वस्य निदर्शनमितो भवेत् । मोक्षो ह्यलौकिको ध्यानभावनादिप्रकर्षजः ॥४२॥ तस्माद्धर्मार्थसाफल्यनिदर्शनपरत्वतः । सुशोभनतरं ह्येतदशोकोऽथ सुहृज्जगौ ||४३|| कुमारोऽत्र प्रमाणं नः प्राह कामाङ्करोऽस्त्विति । ललिताङ्गोऽवदत्तर्हि प्रसादं कुरुतां गिरा ॥४४॥ कुमारः प्राह कोप्यं न परमार्थं भणाम्यहम् । ते प्रोचुः कीदृशः कोपोऽस्माकमज्ञाननाशने ॥४५॥

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215