Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 168
________________ ३२९ ३३० अष्टमो भवः जगद्वैद्य ! कृपां कृत्वा कर्माऽजीर्णं क्षिणु क्षणात् । पथ्यां निजगिरं दत्त्वा तपस्तप्ताऽम्भसा समम् ॥२३६।। भ्राम्यन्भवेष्टिकापाके दष्टो मोहमहाग्निना । मूर्छितोऽहमुपेक्ष्यो न जगज्जाङ्गलिक त्वया ॥२३७।। कषायैः करपादाद्यैश्छिन्नैरपि हि रोहति । मत्कर्मरिपुमानस्योत्तमाङ्ग छिन्द्धि तन्मनः ॥२३८॥ मन्मनो विध्यते भ्राम्यद् बहिविषयकण्टकैः । तद्देहि चरणत्राणं जिनेश ! निजदर्शनम् ॥२३९।। इति स्तुत्वा जगन्नाथं नत्वा गणधराधिकान् । साधूनिन्द्रादिकान्देवान्यथोचितमुपाविशम् ॥२४०।। ततो विभुर्भवाम्भोधिनिस्तारणतरीनिभाम् । शुद्धकाष्ठाश्रयां कर्तुमारेभे धर्मदेशनाम् ।।२४१|| अनाद्यनन्तो जीवोऽयं कर्मणाऽनादिना युतः । पापेन जायते दु:खी धर्मेण सुखितः पुनः ॥२४२।। धर्मश्चरित्रधर्मोऽयं श्रुतधर्माद्विजायते । स कषच्छदतापैश्च शुद्धो ज्ञेयः सुवर्णवत् ॥२४३|| सर्वप्राणातिपातादिपापस्थाननिषेधनम् । सध्यानाऽध्ययनादीनां विधिर्धर्मकषो मतः ॥२४४|| बाह्यक्रियाकलापेन येनाऽयं नैव बाध्यते । शुद्धश्च जायते छेदः स धर्मकनके मतः ॥२४५।। जीवादिभाववादो यो बन्धमोक्षप्रसाधकः । स धर्मजातरूपेऽत्र ज्ञेयस्तापो मनीषिभिः ॥२४६।। त्रिभिरेभिर्विशुद्धो यः स धर्मो धर्म उच्यते । अविशुद्धस्त्रिभिर्यः स फलकालेऽन्यथा भवेत् ॥२४७।। समरादित्यसंक्षेपः समग्रपुरुषार्थेषु धर्मो हि प्रथमो मतः । यस्तत्र वञ्चितः सर्वकल्याणेषु स वञ्चितः ॥२४८|| कल्याणकामिना तस्मात्सर्वकल्याणकारणम् । कल्याणवत्परीक्ष्येष ग्राह्यः कल्याणभाषितः ॥२४९।। रत्नत्रयमयं तस्मादादायाऽमुं मयोदितम् । सफलं मानुषं जन्म विधत्ताऽत्यन्तदुर्लभम् ॥२५०।। श्रुत्वेति केऽपि संविग्नाः श्रमणत्वं प्रपेदिरे । केऽपि श्रावकतां केऽपि सम्यग्दर्शनमेव तु ॥२५१॥ तदा च समवसृतौ वीक्ष्य देवी व्यचिन्तयम् । क्वैषाऽत्र मन्त्रसिद्धस्य ततश्च वचनं स्मृतम् ॥२५२।। पृच्छामि च जिनं चक्रे किमयं प्राग्भवे मया । देवीविरहजं दु:खं यतो जातं सुदारुणम् ॥२५३।। ततो नत्वा मया पृष्टो मम प्राक्कर्मदूषणम् । सर्वं सर्वविदां मुख्यः समाख्यातुं प्रचक्रमे ॥२५४|| विन्ध्याऽद्रौ शिखरे सेनो नाम्ना शबरनायकः । त्वमभूः प्रेयसी चेयं श्रीमती नामतस्तव ॥२५५।। अत्रस्नुर्विषये गृध्नुः क्षिप्नुः श्वापदसन्ततेः । धृष्णुजिष्णुः स्वभावेन समभूः शमभूर्न तु ॥२५६।। तेव वल्कदुकूलाऽऽढ्या गुञ्जाफलविभूषणा । भ्रान्ता कान्ताऽपि कान्तारे परिश्रान्ता त्वया सह ॥२५७|| अन्यदा च निदाघार्तावनार्तस्त्वं तया समम् । विषयानुपभुञ्जानो यावदास्से वनान्तरे ॥२५८॥ १. तावत् for तव ख ग घ ।

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215