Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 167
________________ अष्टमो भवः ३२७ ३२८ तदैत्य सहसा कोऽपि दिव्यरूपधरो दिवः । विद्याधरोऽनवद्यात्मा गुरुं नत्वा च सोऽवदत् ॥२१३।। विभो त्वया यः कनकपुरस्वामिपुर: पुरा । उक्तो मार्गप्रपत्त्याद्यो वृत्तान्तः स्वो महाद्भुतः ॥२१४।। ओघेन स श्रुतो लोकात्तच्छ्रुतौ कौतुकं मम । तच्चेन्न धर्मप्रत्यूहस्तदाख्याहि प्रसादतः ॥२१५|| तथैव गुणचन्द्रेण कुमारणाऽपि भाषिते । विभुर्वृत्तान्तमात्मीयमाख्याति स्म तयोः पुरः ॥२१६॥ अस्त्यत्र भरतक्षेत्रे मिथिला नामतः पुरी । तस्य विजयधर्माऽऽख्यो बभूवाऽहं महीपतिः ॥२१७।। ममाऽग्रमहिषी चन्द्रधर्मा नाम्नाऽतिवल्लभा । केनाऽपि मन्त्रसिद्धेन सा मन्त्रविधये हता ॥२१८।। ततो विजयदेव्या मे वृत्तान्तोऽयं निवेदितः । श्रुत्वेति तस्यां मोहेन महामोहं गतोऽस्म्यहम् ।।२१९।। श्रीखण्डद्रवसिक्तोऽथ तालवृन्तैश्च वीजितः । सदुःखं वारवेश्याभिः कथञ्चिदपि बोधितः ॥२२०॥ मम दु:खजुषस्त्रीणि दिनानि व्यतिचक्रमुः । परित्यक्ताऽन्नपानादिदेवपूजादिकर्मणः ॥२२१।। चतुर्थे दिवसे तीव्रतपोनिष्टप्तविग्रहः । आगाज्जटाधरो मन्त्रसिद्धो भूतिविभूषितः ॥२२२।। ऊचे च नृपते कस्मादाकुलः कुलभूषणः । मयामन्त्रविधानाय तव नीता नितम्बिनी ॥२२३।। आचारश्चाऽत्र याचित्वा प्रथमं नैव नीयते । तस्या न पीडा देहस्य शीलस्य च कदाचन ॥२२४|| समरादित्यसंक्षेपः न संतप्यं त्वया षण्णां मासानामन्तरे तया । योक्ष्यसे त्वमिति प्रोच्य मन्त्रसिद्धस्तिरोदधे ॥२२५।। ज्ञात्वेति विरहं दीर्घ मूर्छित्वाऽऽश्वासितः पुनः । तस्थौ तदा नवनवैविलापैविलपन्नहम् ॥२२६।। इत्थं च नारकस्येव पल्योपमसमा मम । महादु:खाद् व्यतिक्रान्ता मासाः पञ्च कथञ्चन ॥२२७।। अन्यदा च ममाऽकस्मात्प्रमोदो हृदि जृम्भितः । अर्हदागममाख्यच्च मम वर्धापकस्तदा ॥२२८।। दत्त्वा यथोचितं तस्य नत्वा तत्र स्थितो विभुम् । नाथं त्यक्तभवोन्माथं सर्वा नन्तुमागमम् ॥२२९॥ दृष्ट्वा समवसरणं प्राकारत्रयसुन्दरम् । उत्तीर्य द्विरदाद् द्वारोत्तरया तत्र चाऽविशम् ॥२३०।। नत्वा जिनेन्द्रमुद्दामप्रमोदोद्भूतकण्टकः । मारेभे सिंहमारेभे स्तोतुं भून्यस्तमस्तकः ॥२३१|| जय त्रिभुवनाधीश ! जय त्रिदशपूजित ! । जय त्रिदोषनिर्मुक्त जय त्रिज्ञानवज्जने ॥२३२।। जय क्रोधदवाम्भोद ! जय मानाचलाशने ! । जय मायालतापर्टी ! जय लोभाब्धिकुम्भज ! ॥२३३|| विषयः पुरतो भूत्वा कृष्टो निजगुणैरहम् । कषायैः प्रेरितः पृष्ठे पतितोऽस्मि भवावटे ॥२३४|| ज्ञानदर्शनचारित्रगुणत्रितयगाढया । गिरा वरत्रयाऽऽकृष्य नय मां शिवभूमिकाम् ॥२३५।। १. त्रिज्ञानवजित ङ ।

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215