Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 166
________________ अष्टमो भवः ३२५ ३२६ समरादित्यसंक्षेपः दध्यौ च नैवमप्येष हतो मेऽधन्यता ततः । गत्वाऽयोध्यां हतं वच्मि लोक: शोचति तं यथा ॥२०२।। स्यादस्याऽपकृतं हन्त कृतेनैतावताऽपि हि । चिन्तयित्वेत्ययोध्यां स गन्तुं प्रावर्तताऽधमः ॥२०३॥ इतश्च विग्रह: प्रोक्तः कुमारेणाऽयुधं कुरू । स प्रोचे नोचितं शस्त्रग्रहणं स्वामिनं प्रति ॥२०४|| युध्यमानान्निषिध्याऽथ सामन्ताशपथैनिजैः । प्रवेशं कणतृण्यादेनिरुध्य च समन्ततः ॥१९०॥ विशालबुद्धिमादिश्य देशस्य परिपन्थने । स्थलस्थितः स्वयं तस्थौ स्वस्थान इव सुस्थितः ॥१९१।। युग्मम् अन्यदा च परिभ्राम्यन् समेतो वानमन्तरः । कुमारं वाहकेलिस्थं वीक्ष्य क्रुद्धो व्यचिन्तयत् ।।१९२।। धीर एव दुराचारो मया हन्तुं न शक्यते । तद्विग्रहस्य साहाय्यं कृत्वाऽस्याऽपकरोम्यहम् ॥१९३।। ध्यात्वेति विग्रहावासं गतः पृष्टश्च तेन सः । हेतुमागमने प्राह साहायककृते तव ॥१९४।। गुणचन्द्रो हि मे वैरी छुटितोऽर्धहतः पुरा । अधुना तु सहाऽनेन नयेऽन्तं तव विग्रहम् ॥१९५।। विग्रह: प्राह मां तत्र गुणचन्द्रान्तिके नय । यथा समापयाम्यस्य विग्रहं स्वयमप्यहम् ॥१९६।। नीतोऽथ विग्रहस्तेन खेचरेणाऽऽत्मपञ्चमः । विद्याबलात्कुमारस्य वासवेश्म प्रवेशितः ॥१९७॥ दृष्ट्वा सुप्तं कुमारं स विग्रहः प्राह विग्रहम् । कृत्वा समं मया शेषे समुत्तिष्ठाऽऽयुधं कुरु ॥१९८।। साधु साध्विति तं जल्पन् कुमारः खड्गमग्रहीत् । उत्थितानङ्गरक्षांश्च स्वद्रोहेण न्यषेधयत् ॥१९९|| वञ्चयित्वाऽस्य घातं च विशस्त्रं तं विधाय च । कुमारः पातयामास केशेष्वाकृष्य विग्रहम् ।।२००|| पातिताश्च भटास्तस्य यामिकैस्तुमुलोऽभवत् । कुमारो जयतीत्युच्चैः प्रनष्टो वानमन्तरः ॥२०१।। ततः स्वसेवया देवः प्रसादं कुरुतां मयि । कुमारः प्राह तातस्ते स्वामी भ्राताऽसि मे महान् ॥२०५।। तत्तातान्तिकमागच्छ विग्रह: प्रतिपद्य तत् । चक्रे वर्धापनं दुर्गमुदवेष्टत भूपभूः ॥२०६।। विग्रहे विनिवृत्तेऽपि विग्रहेण समन्वितः । विग्रहज्ञः पुरीं गन्तुं प्रवृत्तः स सुविग्रहः ॥२०७।। तदा च गुणचन्द्रस्य बोधाय व्योमवर्त्मना । चतुर्ज्ञानधरः साधुधुरन्धरसमावृतः ॥२०८।। क्रियास्वशिथिलाचार: पुरा च मिथिलाधिपः । सूरिविजयधर्माख्यो धर्माख्योद्दाम आययौ ॥२०९।। युग्मम् गुणचन्द्रः परिज्ञाय निजात् परिजनादमुम् । सुस्थितं स्थितमुद्याने गुणसम्भवनामनि ॥२१०|| विग्रहेण प्रधानेन सार्धं परिजनेन च । अत्युकुण्ठसमुत्कण्ठः शुश्रूषितुमुपागतः ॥२११॥ युग्मम् नतस्तं सपरीवारममुना धर्मलाभितः । उपाविक्षदयं दक्षः सहितो विग्रहादिभिः ॥२१२।। १. सप्राह ख ङ च ।

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215