Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 163
________________ ३१९ अष्टमो भवः चन्द्रः सलाञ्छनो वज्री सहस्रेक्षणदूषणः । विष्णुः कृष्णः स्मरोऽनङ्गः सख्यूचे स्वयमूह्यताम् ॥१२३।। चिरं निरीक्ष्य सा प्रोचे सखि ! नाऽयममानुषः । वर्धमानवयोऽवस्थो निमेषोचितलोचनः ॥१२४|| सख्यूचे सुष्टु विज्ञातं भवत्या भर्तृदारिके । अहं तु तर्कयाम्येष वरस्तव भविष्यति ॥१२५॥ तदा स्वकार्यमुद्दिश्य सिद्धादेशः पुरोहितः । प्रोवाच संशयो नाऽत्र निःसंदेहं भविष्यति ॥१२६।। श्रुत्वा रत्नवती हृष्टा सख्याहोपश्रुतिः श्रुता । तद्वाक्यं बहु मत्वाऽथ समारेभे निरीक्षितुम् ॥१२७।। आनीते चित्रसुन्दर्योपस्करे चित्रकर्मणः । तदवस्थं समालेख्य प्रैषीन्मदनमञ्जुकाम् ॥१२८।। सा गत्वा चार्पयित्वा च महिष्यै चित्रपट्टिकाम् । उवाच रत्नवत्युक्तमयमाराधितो न वा ॥१२९।। देवी तं वीक्ष्य दध्यौ च प्रतिच्छन्दादयं वरः । कुमाराऽऽलिखितां रत्नवतीमूर्तिमथैक्षत ॥१३०॥ मिथुनं चाऽनुरूपं तद्वीक्ष्योचे महिषी मुदा । गत्वाऽऽख्याहि हलेऽत्यन्तं भवत्याराधितो ह्ययम् ॥१३१।। पारितोषिकमेतत्ते यत्तेनाऽऽराधितो ह्यलम् । रूपेणाऽप्रतिरूपेण सश्लोकेन द्विधाऽमुना ॥१३२॥ अन्यच्च सर्वदाऽप्येतदाराधनपरा भवेः । इत्युक्त्वाऽदर्शयद् गत्वा तस्याः सा चित्रपट्टिके ॥१३३।। समरादित्यसंक्षेपः ऊचे च मद्वितर्कोऽयं वरो भावीति नाऽनृतः । ततो रत्नवती वीक्ष्य चित्रं श्लोकमवाचयत् ॥१३४।। मुदा रत्नवती प्राह किमिहाऽऽलिखितास्म्यहम् । सख्याह लिखिता किं वा संक्रान्ता ज्ञायते न तत् ॥१३५।। प्राह रत्नवती कः स्यादूचे मदनमञ्जुका । अयं सर्वकलाऽम्भोधिः कश्चित्त्वय्यनुरागवान् ॥१३६।। आह रत्नवती रागः किमदृष्टेऽपि सम्भवेत् । सख्याह त्वं हि चित्रस्था तेन दृष्टा भविष्यसि ॥१३७।। पुना रत्नवती प्राह रागश्चित्रेऽपि किं भवेत् । सख्याहाऽऽकृतिमाहात्म्यात् स्याद्रागोऽस्मिन् यथा तव ॥१३८॥ स्मित्वा निरश्वसीदेषा सख्यूचे मा स्म संतपः । अवश्यं युज्यते स्वामिन्यनेनेति मनो मम ॥१३९|| रत्नवत्याह भाग्यं मे क्वेदृक् चिन्तामणिप्रदम् । स्फुरता वामनेत्रेण निश्चिते परितोषमैत् ॥१४०।। अथैत्य प्रियमेलाऽऽख्या चेटी प्राहाऽऽदिशत्यदः । देवी भोजनवेलाऽभूदभ्यर्णावश्यकं कुरु ॥१४॥ सोत्थाय देवान् सम्पूज्य विधाय विधिनाऽशनम् । कुमारस्य प्रतिच्छन्दं करे कृत्वा व्यचिन्तयत् ॥१४२॥ रुचिरं धैर्यलालित्यमङ्गन्यासश्च सुन्दरः । दृष्टिः सलवणा भावः प्रगल्भः सत्त्वमुद्भटम् ॥१४३॥ अहो नरविशेषः स्यादीदृशोऽपि महाद्भुतः । इत्थं यान्ति दिनास्तस्याः कुमारगुणकीर्तनैः ॥१४४।। इतो रत्नवतीरूपदर्शनस्य विनोदतः । कुमारगुणचन्द्रस्याऽप्येवं गच्छन्ति वासराः ॥१४५॥ १. तमालेख्य ख । २. भव ङ भवे क ख ग घ च ।

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215