Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 156
________________ सप्तमो भवः ३०५ ३०६ बुद्धोऽथ नृपतिः सार्धं जसादित्येन तेन च । महेश्वेरण सहितो व्रतं जग्राह साग्रहः ॥५५९॥ श्रुत्वेति साऽनुतापोऽथ तस्करोऽपि समागतः । निर्वेदवानुवाचैवं पापकर्माऽस्म्यहं प्रभो ! ॥५६०।। मयेदं कर्म निस्त्रिंशं कृतं धर्मोऽवमानितः । पापं बहुमतं चक्रे मानुषत्वं च दूषितम् ॥५६१|| तत्कि गीविस्तरेणाऽहं त्यक्तुकामोऽस्मि जीवितम् । तदादिश यथायोग्यं ज्ञानी ध्यात्वा ततो जगौ ॥५६२।। गृहाणाऽनशनं सोऽथ प्रतिपेदे गुरोर्वचः । शिक्षितश्च नमस्कारं पञ्चानां परमेष्ठिनाम् ॥५६३।। तानि त्रीण्यप्यनशनं परिपाल्य समाधिना । बभूवुर्भाजनं स्वर्गसुखानां नृपनन्दन ! ॥५६४|| तत्त्वया न कृतं भव्यं राज्यमात्रकृतेऽपि यत् । संग्रामो विदधे प्रौढकर्मबन्धनिबन्धनम् ॥५६५।। कुमारस्त्वेतदाकर्ण्य चारित्रपरिणामवान् । ऊचे परिभवाऽमर्षाद्विदधे भगवन्निदम् ॥५६६।। असुन्दरमिदं ज्ञातमधुना ह्युपदेशतः । तदहं यदि योग्योऽस्मि तत्प्रसीद व्रतेन मे ॥५६७|| गुरुः प्रोवाच साध्वेतत् त्वयाऽध्यवसितं ननु । हेय एव भवः सोऽयमुचितश्च व्रते भवान् ॥५६८|| शीघ्रमिष्टं विधेहीदमनित्यं हि शरीरकम् । सेनोऽमात्यं जगावार्य ! श्रुतं भगवतो वचः ॥५६९।। करोमि कियया त्वत्तो नाऽन्यो मे हितचिन्तकः । अनुमन्यस्व मां सोऽथाऽवदद्देव ! भवत्वदः ॥५७०।। समरादित्यसंक्षेपः किं त्वष्ट दिवसान्देवोऽनुग्रहं कुरुतां मयि । प्रतिश्रुते कुमारेणाऽमात्यो दानमदापयत् ॥५७१।। अष्टाहिकामहं चक्रे राज्ये न्यास्थच्च नन्दनम् । आनन्दिताः प्रजाः सन्मानिताः सामन्तमन्त्रिणः ॥५७२॥ सेनः शुभे मुहर्तेऽथ शान्तिमत्या द्विधा युतः । सहितोऽमरगुर्वादिप्रधानैश्चाऽग्रहीद् व्रतम् ।।५७३॥ ततोऽधीतश्रुतो ज्ञाततदर्थः सेवितक्रियः । योग्यत्वाद् गुर्वनुज्ञातो जिनकल्पं प्रपन्नवान् ॥५७४।। स चैकरात्रिकं ग्रामे नगरे पञ्चरात्रिकम् । विहरन्नन्यदाऽऽयातः कोल्लाके संनिवेशने ॥५७५।। स्थितः प्रतिमयैकान्ते युतेन कतिथैनरैः । दृष्टश्च भ्रष्टराज्येन विषेणेन विषीदता ॥५७६॥ प्राक्कर्मदोषतः कुद्धो दध्यौ जातमिदं शुभम् । यन्मुक्ताऽऽयुध एकाकी विविक्ते च हिनस्मि तत् ॥५७७॥ वधोऽस्य पश्यतामेषां साम्प्रतं तु न साम्प्रतम् । ध्यात्वेति स तदासन्नभिन्नदेवकुले स्थितः ॥५७८।। अनुगानामनाख्यातभावो निद्राविवर्जितः । अर्धरात्रे गृहीताऽसिः सेनं हन्तुं गतोऽन्तिके ।।५७९।। तं वीक्ष्य निश्चलध्यानमिद्धकोधधनञ्जयः । निस्त्रिंशः कृष्टनिस्त्रिंशः स प्रोवाच मुनि प्रति ॥५८०|| अरे कुरु दुराचार ! सुदृष्टं जीवविष्टपम् । विपन्नोऽस्यधुना तेन ध्यानिना तत्तु न श्रुतम् ॥५८१।। श्रुतं तु क्षेत्रदेव्या तत्ततः कुपितया तया । हत्वाऽसिं वाहितं साधौ स्तम्भितो भणितश्च सः ।।५८२।।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215