Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 146
________________ सप्तमो भवः २८५ २८६ समरादित्यसंक्षेपः चम्पाऽऽवासनिवेशेऽसौ जायमात्रपरिच्छदः । तदा राजपुराऽऽयातानुस्मृतेश्चोपलक्षितः ॥३२४॥ इत्यादि प्रार्थनाप्रान्तऽमाख्यायाऽथ न्यवेदयत् । तदद्याकर्णितं देव शबरेभ्यो मयेदृशम् ॥३२५।। नीतौ कुमारपल्लीशौ धाट्या देवनिदिष्टया । निवेदितुं व्यतिकरमिदं देवमुपागमम् ॥३२६॥ कलापकम् राज्ञोचे रुचिरं चक्रे त्वादृशां युज्यते ह्यदः । अथाऽऽदिशन्नृपो भृत्यान् यत्नः कर्तव्य एतयोः ॥३२७।। अथ कक्षाऽऽन्तरे शय्या प्रवरा रचिता तयोः । ततो वैद्यान्समाह्वाय्य प्रस्तुतं व्रणकर्म च ॥३२८॥ प्रेषिताश्च नरा दिक्षु राजपुत्रीं गवेषितुम् । दिनैः कतिपयैः सानुदेवश्चाहूय भाषितः ॥३२९।। विषमाध्वनि सार्थस्ते प्रत्यासन्नो घनागमः । स्थाने च राजपुत्रोऽस्ति तद् गच्छ त्वं नृपोदिते ॥३३०।। स प्राह वहतो नैव चरणे चरणे मम । कुमारः प्राह देवस्याऽऽदेशं कुर्वथ सोऽगमत् ॥३३१।। सपल्लीशे कुमारेऽथ स्नाते वर्धापनं व्यधात् । नृपोऽवोचच्च ते वत्स ! किं करोमि प्रियं पुनः ॥३३२॥ पुरुषाः प्रेषिताः सन्ति वधूं तव गवेषितुम् । तेषु केऽपि समायाता नायान्त्यद्यापि केचन ॥३३३|| तदा च सोमसूराख्यः प्रोचे देव स्मृतं मया । कुमारस्य प्रियतमासमायोगस्य कारणम् ॥३३४|| राज्ञा कीदृगिति प्रोक्ते स प्राह श्रूयतां प्रभो ! । अस्ति कादम्बरीकक्षान्तस्तीर्थं प्रियमेलकम् ॥३३५।। वदन्ति च तदैतिहमटव्यन्तः पुराऽभवत् । विशाखवर्धनाऽऽभिख्ये पुरेऽजितबलो नृपः ॥३३६॥ श्रेष्ठी वसुंधरस्तत्र प्रियमित्रोऽस्य नन्दनः । लब्धा तेनेश्वरस्कन्दनन्दना नीलुकाभिधा ॥३३७|| तयोरव्यूढयोरेव वसुंधरगृहाद्वसु । गतं कर्मानुभावेन सोऽथ निर्वेदतो मृतः ॥३३८।। प्रियमित्रोऽपि दारिद्मात्पराभूतः पुरीजनैः । विनिर्गत्योत्तरां गच्छंस्तातमित्रेण वीक्षितः ॥३३९।। नागदेवाऽभिधो वीक्ष्य स तं पाण्डुरभिक्षुकः । समुपालक्षयद्दौःस्थ्यावसथं च कथञ्चन ॥३४०|| ऊचे वत्स ! तवाऽवस्था किमीहक प्रस्थितः क्व च । स प्राह पृच्छ तं दैवं येनैवं विहितोऽस्म्यहम् ॥३४१॥ तपस्व्यूचे पितुस्तेऽस्ति क्षेमः स प्राह मत्पितुः । क्षेमः स्वःस्थस्य न तु मे लोकद्वयबहिर्जुषः ॥३४२।। मुनिः प्राह गतः सोऽस्तं बन्धुकैरवचन्द्रमाः । ही कर्मेति भवं हित्वा मुनयो हि ययुः शिवम् ॥३४३॥ अन्यच्च त्वं कथं वत्स ! लोकद्वितयवर्जितः । योग्योऽसि परलोकस्य साधने तं च साधय ॥३४४|| सोऽथाऽख्याय विधि तेन दीक्षितः कुरुते व्रतम् । नीलुकापि हि तच्छ्रुत्वा गृहेऽपि व्रतवत्यभूत् ॥३४५।। गते काले स चायातस्तत्पुराऽन्ततपोवने । श्रुतो नीलुकया याता तं नन्तुं पित्रनुज्ञया ॥३४६।। ध्यानस्थं वीक्ष्य तं साऽथ संभ्रमान्मूर्छिताऽपतत् । जाते परिजनाऽऽकन्दे किमिदं पृच्छति स्म सः ॥३४७||

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215