Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 120
________________ २३३ २३४ षष्ठो भवः यानं चीनागतं श्रुत्वा धरणोऽथ समाययौ । दृष्ट्वा सुवदनं लक्ष्मीसहितं तुष्यति स्म सः ॥२३४|| लक्ष्मी: सुवदनश्चैतौ जातौ कुवदनौ पुनः । दत्तासनोपविष्टोऽयं पृष्टः सुवदनेन तु ॥२३५।। आख्याति स्म यथावृत्तं ततः सुवदनोऽवदत् । त्वं जीवितोऽसि तज्जातं भव्यं स्वं स्वं गृहाण तत् ॥२३६।। धरणः प्राह पोतेश मत्प्राणा अपि ते वशे । लक्ष्मीसंगमकर्तुः का वार्ता स्वर्णादिवस्तुनः ॥२३७।। जगाद धरणश्चैतौ पुरमध्ये प्रविश्यते । आर्यपुत्र ! त्वमप्यत्र वसेत्यस्य प्रियाऽवदत् ॥२३८।। अभ्यक्तोऽयमथालोचि ताभ्यामद्यैव निश्यसौ । कथञ्चिदपि हन्तव्यः कृतपानाऽशनो रिपुः ॥२३९|| ध्यात्वेति मज्जयित्वाऽसौ पायितः कापिशायनम् । भुक्तः सुप्तश्च शय्यायां रजन्यामथ योषिता ॥२४०॥ कण्ठे पाशः प्रदत्तोऽस्य पोतेशेन दृढीकृतः । ततो मृत इति त्यक्तस्ताभ्यां जलनिधेस्तटे ॥२४१॥ युग्मम् तयोश्च गतयोर्याने समुद्रतटवायुना । शीतलेन समाश्वस्तो धरणो हृद्यचिन्तयत् ॥२४२।। किमिन्द्रजालं किं स्वप्नः किं वा मे मतिविभ्रमः । सत्येनैवाऽथ पाथोधितटमभ्यागतोऽस्म्यहम् ॥२४३|| जातेऽथ निश्चये दध्यावहो दुश्चरितं स्त्रियाः । अहो सुवदनस्यापि कीदृशं पुरुषव्रतम् ॥२४४।। जलज्वलनवायूनामस्ति वायुभुजामपि । प्रतीकारो न कोऽप्यस्ति महिलामनसः पुनः ॥२४५।। समरादित्यसंक्षेपः इदं सुवदनेनाऽपि विषयाऽऽमिषगृधुना । अहितं विहितं मन्ये लोकयोरुभयोरपि ॥२४६|| इति ध्यायन्नयं श्रेष्ठिपुरुषैः साश्रुलोचनैः । प्रातदृष्टश्च पृष्टश्च किं त्वं निश्यपि नागतः ॥२४७|| विधुतातिना तेन प्रेषितास्त्वां गवेषितम् । तद्देहि दर्शनं देहि तापनिर्वापणौषधम् ॥२४८।। स ध्यायन्नन्तरं नृणां श्रेष्टिनो गृहमागतः । पृष्टो वत्स ! कृतोऽसि त्वं हेतुना केन दुर्मनाः ॥२४९।। न किञ्चिदिति तेनोक्ते श्रेष्ठी प्राह श्रुतं मया । यानं चीनात्समायातमुपलेभे त्वया न वा ॥२५०॥ सबाष्पं तं च पप्रच्छ भार्या जीवति ते न वा । धरण: प्राह शीलेन मृता देहेन जीवति ॥२५१।। कथं वेत्सीति तेनोक्ते स प्रोचे तात कार्यतः । पृष्टोऽथ श्रेष्ठिना सत्यं सर्वं वृत्तान्तमाख्यत ॥२५२।। तादृशं वैशसं श्रुत्वा ततः सुवदनं प्रति । कोपाटोपयुतष्टोपश्रेष्ठी व्यजिज्ञपन्नृपम् ॥२५३॥ ततः पोतेशमाकार्य कार्यवेदी नृपेश्वरः । उवाच श्रूयते स्वर्ण घनं तत्कथमर्जितम् ॥२५४|| स प्रोवाच क्रमायातमियं भार्या कुतस्तव । स प्राह गुरुभिर्दत्ता राज्ञा श्रेष्ठ्यथ वीक्षितः ॥२५५॥ प्राह देवाऽनृतं सर्वं ततः सुवदनोऽवदत् । किं पुनः सत्यमत्रेति श्रेष्ठी प्रोचेऽथ धीरधीः ॥२५६॥ वर्णिनी च सुवर्णं च धरणस्येति सूनृतम् । ऊचे सुवदनोऽपूर्वदैवज्ञ ! प्रत्ययोऽत्र कः ॥२५७।।

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215