Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 119
________________ षष्ठो भवः २३१ २३२ दिव्यौषध्या कृतः सज्जः प्रत्यभिज्ञाय तं जगौ । सखे ! श्रीविजयोऽजीवत् खेचरः प्राह जीवितः ॥२१०|| श्रुत्वैतद्धरणस्तुष्टस्तं लात्वा हेमकुण्डलः । गन्तुं प्रावर्तत प्रीतो रत्नद्वीपं विहायसा ॥२११।। गन्धर्वस्त्रीजनाऽऽरब्धगीतस्थिरमृगव्रजम् । नागवल्लीसमाश्लिष्टपूगपूगमनोरमम् ॥२१२।। तीरस्थिततमालगुन्यकृताऽम्बुधिसंवरम् । सिद्धविद्याधराकीर्णं रत्नद्वीपमवाप सः ॥२१३।। युग्मम् यः कल्लोलभुजैः श्लिष्टो विष्वक्कल्लोलमालिना । प्रियसारङ्गशावाक्षीमनोहरशरीखत् ॥२१४॥ स तत्र फलशाखाभिर्नम्यमान इव द्रुमैः । पूज्यमान इव मरुत्पातितैः कुसुमोत्करैः ॥२१५।। विहितस्वागतप्रश्न इव भ्रमरनि:स्वनैः । विश्रम्य दीर्घिकातीरे सहकारफलानलात् ॥२१६।। युग्मम् खेचरो धरणं क्लृप्तस्नानभोजनमूचिवान् । क्व प्राप्तोऽस्यनया सोऽथ सर्वं वृत्तान्तमाख्यत ।।२१७|| खेचर: प्राह किं कुर्वे तवाऽथ धरणोऽब्रवीत् । कृतं कृत्यं त्वया किं तु मां संयोजय जायया ॥२१८।। स प्राहाऽत्र रत्नगिरौ किन्नरोऽस्ति सुहृन्मम । सुलोचनाख्यस्तं प्रेक्ष्य त्वां हि देवपुरे नये ॥२१९॥ गतस्य तत्र तेऽवश्यं तया योगो भविष्यति । आमेति धरणेनोक्ते जग्मतू रत्नपर्वतम् ॥२२०।। तत्राऽऽरुह्य महारम्ये सुलोचनगृहे गतौ । गन्धर्वदत्तया सार्धं स दृष्टश्चोपवीणयन् ॥२२१॥ समरादित्यसंक्षेपः हेमकुण्डलमाश्लिष्यदभ्युत्थाय सुलोचनः । अप्राक्षीच्च कुतोऽसि त्वं कुतश्चैष महापुमान् ॥२२२।। किं चागमनकार्य तेऽथ प्रोचे हेमकुण्डलः । अहं सुवेलान् मन्मित्रं स्वर्णद्वीपादसौ पुनः ॥२२३।। अस्मै दापयितुं रत्नान्यागतोऽस्मि तवान्तिके । ततः प्रत्यशृणोत् फुल्ललोचनस्तत्सुलोचनः ॥२२४।। विशेषकम् दिनैः कतिपयैर्जात्यरत्नदानपुर:सरम् । धरणः खेचरेणाथ मुक्तो देवपुराद् बहिः ॥२२५॥ जायामिह प्रतीक्षस्वेत्युक्त्वाऽयासीच्च खेचरः । क्षणं स्थित्वा पुरस्याऽन्तर्धरणः प्रविवेश च ॥२२६।। टोपाख्यश्रेष्ठिना दृष्टः संभाष्याऽनायि मन्दिरे । पृष्ठो भुक्तोत्तरं वत्स ! कुतस्त्वमिति सादरम् ॥२२७।। पितृतुल्यस्य तस्याऽग्रे माकन्दीनिर्गमादिकम् । तत्पुरागमवृत्तान्तावसानं च स आख्यात ॥२२८|| अर्पयित्वाऽथ रत्नानि धरणः श्रेष्ठिनं जगौ । तात संगोपयैतानि ततो गोपयति स्म सः ॥२२९|| इत: सुवदनो लक्ष्मी तामाश्वासयति स्म सः । भव ईदृश एवाऽयं गतोऽयं मम तेन तु ॥२३०|| भवत्या नैव सन्तप्यमथ सा कैतवाज्जगौ । त्वयि जीवति सन्तापो न कोऽपि मम मानसे ॥२३१।। पोतेशो जातरूपं तज्जातरूपनिभा च ताम् । विधातुमात्मसात्तस्याश्चित्तमावर्जयद् दृढम् ।।२३२।। तेन सा गृहिणी चके जातरूपमधिष्ठितम् । दिनैः कतिपयैः कूलं यानपात्रमथाऽऽगमत् ॥२३३।।

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215