Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 128
________________ षष्ठो भवः गतैश्च दिवसैः कैश्चिदवधेरुपयोगतः । ज्ञात्वा देवेन सव्याधिः कृतो लोकेन नन्दितः ॥४२३|| तद्बन्धुभिस्तु सोऽन्विष्टो वैद्यः प्राप्तः कथञ्चन । उक्तः प्रशमने व्याधेर्व्रतमग्राहयत्पुनः ॥४२४ || पुनस्त्यक्तव्रते तस्मिन्महाव्याधिं सुरो व्यधात् । उक्तोऽथ बन्धुभिर्वेत्सि नात्मानमपि मूढधीः ||४२५॥ म्रियस्व तस्य वा वाक्यं कुरु स प्राह साम्प्रतम् । तं प्रेक्षे यदि तत्तस्य वचनं विदधाम्यहम् ||४२६ || गवेषितोऽथ तैर्दृष्टो वैद्यः प्रोक्तश्च सत्रपैः । तदेव तव पुत्रेण कृतं व्याधिर्महानभूत् ॥४२७|| ततः कोऽप्यस्त्युपायोऽत्र वैद्यः प्राहैष लम्पटः । निःपौरुषश्च दौर्गत्ये बह्वीः प्राप्स्यति वेदनाः ||४२८ ॥ आयुष्मतां तु युष्माकमुपरोधात्तमेकदा । तच्चिकित्सामि चेत्सार्धं मयैव हि स हिण्डति ॥ ४२९|| प्रतिपद्य तदेतैश्चाऽर्हद्दत्ताय निवेदितम् । नान्या गतिरिति ध्यात्वा प्रत्यपद्यत सोऽप्यदः || ४३०|| तैरानीतो भिषक् प्राह क्रीडेयं पश्चिमा ननु । त्वया भव्येन तद्भाव्यं तत्कार्यं यत्करोम्यहम् ||४३१ || अहं न क्वापि मोक्तव्योऽर्हद्दत्तस्तत्प्रपन्नवान् । चिकित्सित्वा च स प्रोक्तो मा भूः कापुरुषोऽधुना ॥ ४३२ ॥ देवेन तस्य चाऽगौणं गोणत्रितयमर्पितम् । नगरीतो विनिर्गत्य गतौ ग्रामान्तरे ततः ॥ ४३३|| देव: स्वमायया ग्रामं तं ज्वलन्तमदर्शयत् । विध्यापनाय तृण्यां च गृहीत्वा स्वं प्रधावितम् ||४३४|| २४९ २५० समरादित्यसंक्षेपः अर्हदत्तोऽवदद् दीप्तं किं विध्याप्यते तृण्यया । किं वेत्सीदं सुप्रोक्ते किं ज्ञेयममिह सोऽवदत् ॥४३५|| देव: प्रोवाच चेद्वेत्सि तत्क्रोधाऽनलदीपिते । गृहे गृहीतदेहैधः कथं विशसि बालक ! ||४३६ ॥ स्थितस्तूष्णीं न बुद्धस्तु ततः कण्टकसंकुले । देव: पथि व्रजन्नुक्तस्तेन त्यजसि किं समम् ॥४३७॥ देव: प्रोवाच वेत्सीदं यदि तत्किं शिवाध्वनः । रागादिकण्टकाकीर्णे भवमार्गे व्रजस्यहो || ४३८ ॥ स्थितस्तूष्णीं न संबुद्धो देवेनाथाऽस्य दर्शितः । जनैः प्रपूजितो यक्षः पुनः पुनरधः पतन् ॥ ४३९ ॥ निर्भाग्यो यक्ष इत्युक्ते तेन देवो जगाद तम् । यदीदं वेत्सि तत्किं त्वं प्रयासि नरकं प्रति ॥ ४४०|| स्थिते तूष्णीमसंबुद्धे तत्र कोलोऽथ दर्शितः । हित्वा धान्यतुषान्स्वादमानोऽमेध्यममेध्यधीः ||४४१ ॥ तेनोक्ते निर्विवेकोऽयं सुरः प्राहेति वेत्सि चेत् । तत्किं श्रमणतां हित्वा विषयान्बहुमन्यसे ||४४२ ॥ स्थिते तूष्णीमसंबुद्धे तत्र देवो वृषं व्यधात् । क्षेत्रमध्याविदूरस्थत्यक्तजञ्जमचारिकम् ||४४३|| शुष्ककूपैकदेशस्थदूर्वालेशाभिलाषुकम् । पतितं कूपके चूर्णीभूताङ्गोपाङ्गदुः स्थितम् ||४४४॥ युग्मम् अर्हद्दत्तस्तु तं वीक्ष्य प्राहाऽहो अस्य मूढता । देव: प्रोवाच जानाति यदीदं तत्कथं भवान् ॥४४५ ॥ हित्वा जञ्जुमचार्याभं क्षेत्रस्थं स्वर्गिणां सुखम् । दूर्वाभमर्त्यभोगेषु लुब्धः पतति दुर्गतौ ॥४४६॥ युग्मम्

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215