Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 101
________________ पञ्चमो भवः अथाश्रौषमहं व्योम्नि भेरीभाङ्कारभासुरम् । किङ्किणीकणितं हस्तिबंहितं हयहेषितम् ॥३९०॥ यावत्पश्यामि विस्मेरदृगहं विस्मितो नभः । तावद्विद्याधरचमूमागच्छन्तीमलोकयम् ॥३९॥ चत्वारः पुरतः कान्तिहृद्या विद्याधरास्ततः । आगत्य मां नमस्कृत्य कृत्यमित्यभ्यधुः स्फुटम् ॥३९२।। देव सद्गुणवित्ताढ्यं(?) वैताढ्यगिरिभूषणम् । समस्ति दक्षिणश्रेण्यां पुरं गगनवल्लभम् ॥३९३।। तत्र विद्याधराधीशः पुराऽऽसीत्कनकध्वजः । अपुत्रः प्राप पञ्चत्वमेष दैवप्रपञ्चतः ॥३९४|| ततो राज्यप्रधानान्नः स्वामिशोकविसंस्थुलान् । एत्याऽजितबला देवी स्वप्नान्तरिदमादिशत् ॥३९५।। सनत्कुमारनामाऽयं यशोवर्मनृपात्मजः । मलयेऽस्ति स वः स्वामी प्रदत्तस्तुष्टया मया ॥३९६।। देव्यादेशेन तद् देव मुदिता वयमागताः । राज्यं वैद्याधरं चैतत् तवायाति स्वयंवरम् ॥३९७|| अत्रान्तरे परेऽप्येत्य मां नमन्ति स्म खेचराः । ऊचे विद्याधरै राज्याभिषेकाय च तैरहम् ॥३९८।। तदा वामभुजादण्डस्पन्दमन्दमना अपि । अवोचं धैर्यमालम्ब्य तानहं सुमना इव ॥३९९।। भवत्वेवं पुनर्मित्रं वसुभूति: समेतु मे । सोऽथ तैः शब्दितो नोचे नालक्ष्यत च दीक्षितः ॥४००॥ मयाऽथ तं स्वयं द्रष्टुमुत्पेते सह खेचरैः । ततो दृष्टः स दृष्ट्वा तु साक्षेपं खेचराजगौ ॥४०१॥ समरादित्यसंक्षेपः खेटखेटा मदीयस्य सुहृदो हृदयेश्वरीम् । हा विलासवतीं हत्वा क्व प्रयास्यथ सम्प्रति ॥४०२।। तन्निशम्य मयाऽचिन्ति किं केनाऽपि हृता प्रिया । निष्फलो मन्दभाग्यस्य प्रयासस्तोसौ मम ॥४०३|| मया नीचेन भूत्वाऽथ वसुभूतिरभाष्यत । स तु मां विटपेनाऽहन् मया घातोऽस्य वञ्चितः ।।४०४|| आच्छिद्य विटपं हस्तात्पुनरप्येष भाषितः । प्रत्यभिज्ञाय मां विज्ञस्त्यक्त्वा संरम्भमब्रवीत् ॥४०५।। देव ! त्वया समारब्धे विद्यासाधनकर्मणि । प्राप वैद्याधरं वृन्दं मया तदवधीरितम् ॥४०६।। क्षणार्धेन ततोऽश्रौषं देव्याः कन्दितमुच्चकैः । सशङ्कस्तामपश्यं च विद्याधरविमानगाम् ॥४०७।। हहाऽऽर्यपुत्र ! हा तस्य मित्र त्रायस्व मामिति । निशम्य कन्दितं तस्या गुहां गत्वा न्यभालयम् ॥४०८।। तामदृष्ट्वाऽनुधावंश्च विमानं न व्यलोकयम् । तन्न वेद्मि हृता देवी केनाऽपि क्वाऽपि तिष्ठति ॥४०९|| ततोऽहमवदं मित्र वसुभूते विषीद मा । ममाऽजितबला देवी तुष्टाऽस्ति किमिदं ततः ॥४१०॥ अथो मलयशैलस्य शृङ्गे तत्रैव तस्थुषा । मयाऽऽत्मसेवकैः सार्धममन्त्र्यत नभश्चरैः ॥४११॥ तेऽप्यूचुः खेचराः स्वामिन् ! देवी येन हृता यदि । सोऽपि विद्याधरस्तन्न भक्ष्यते नखिभिनखी ॥४१२।। विग्रहीष्यामहे तं च विज्ञायेति निगद्य माम् । शुद्ध्यै पवनगत्याख्यं प्राहिण्वन् खेचरं च ते ॥४१३॥ युग्मम्

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215