Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 10
________________ १२६ : गुणनिरूपणम् । व्यवहारात । तथापि परत्वापरत्वयोः परस्पराश्रयमवधीकृत्यैवोत्पादादविद्यमानस्य समवायिकारणाभावेऽवधित्वस्याप्यभावात । मृतापेक्षया च वर्तमाने परत्वादिव्यवहारस्तथाविधापेक्षाबुदिविषयत्वगुणनिवन्धनः। .. ननु कालकृतपरत्वापरत्वयोर्मानाभावः । तथाहि परत्वापरत्वाश्रयाभिमतावच्छेदकाद्यसूर्यक्रिया प्रागभावसमानफलत्वालम्बना वा (?) अपरत्वधीस्तु परत्वाबाधाभिमतपिण्डसमानकालपदार्थध्वंसकालोत्पत्तिमत्त्वविषया तदुत्पत्तिकालाश्रयत्वे तदुत्तरकालत्व वास्तु किं ताभ्याम् । ___मैवम् । प्रागभावोत्पत्त्यास्तदानीमतीतत्वे परत्वापरत्वयोवर्तमानतभावानुपपत्तेः । इदानीमयमेतस्मात् परे इति वर्तमानतामानात् प्रागभावादेरवध्यनिरूप्यत्वेन परत्वादेश्च सावधित्वेन तद्भिन्नत्वात् । . केचित्तु । प्रतियोग्यन्यूनानतिरिक्तकालीनावधिकसामवायिकयावत्परत्वाश्रयसमानकालीनकादाचित्काभावत्वं प्रागभावत्वम् । अतः परत्वेनैव प्रागभावनिरूपणान तेनैवान्ययासिद्धिरित्याहुः । ... तन्न। गन्धानाधारकालानाधारत्वाभावेन प्रागभावनिर्वचनात् । बहुतरतपनेति । यत्मागभावावच्छेदकक्षणावच्छिन्नजन्म यदपेक्षया तद्विपकृष्टं यजन्मावच्छेदकक्षणध्वंसक्षणाधिकरणजन्म यदपेक्षया तत्सन्निकृष्टमित्यर्थः । ___ अत्र केचिदाहुः । जन्मान्तर्भावो व्यर्थः। बहुतरतपनपरिस्पन्दावच्छिन्नत्वबुद्धेरेव परत्वोत्पादकत्वात् । एवञ्चानित्यद्रव्यापेक्षया

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 107