Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 66
________________ १८२ ..... गुणनिरूपणम् कार्यास्वाभिधानस्येत्यर्थः । ननु कथमों श्रावयन्नध्वर्युहोंतुर्लिङ्गम् । होतारं · विनाप्यध्वयोंरोंशब्दकर्तृकत्वादित्यत आह-होतुरित्यनेनेति । तेन होतृमन्निहितायां यागभूमावों श्रावयन्नध्वर्युहोतृलिङ्गमिति वाक्यार्थ इत्यर्थः । ननु लिङ्गाविशेषणत्वेन होतुः मागेव ज्ञानात् किमनुमेयमित्यत आह । प्रयोगस्त्विति । तेनाध्वयोंझेतृसवन्धे साध्ये न सिद्धसाधनम् । होतुः सन्निहितयागभूमावित्यन्वयः। . तदनन्तरभावित्वेति।अभ्युपगमवादोऽयम् । वस्तुनश्चन्द्रोदयसमुद्रदृद्ध्योः समयभावित्वमेव । पूर्वरूपनिवृत्ताविति। यद्यपि - जलपरमाणौ रूपं नित्यमेव जलावयविनि कारणगुणमक्रमेणैवोत्पद्यते । तथापि पूर्वरूपनिवृत्ताविति पूर्वरूपवतः पार्थिवस्य निवृत्ती रूपादीत्यतद्गुणसंविज्ञानवहुव्रीहिणा स्वच्छतां लक्षयति । सा चौपाधिकसंसर्गाभाव एव । सर्वमेवानुमानमिति । अनुमानमत्र लिङ्ग न तु फलम् । तस्य सर्वत्रादृष्टत्वात् । सर्वमेवेति । सामान्येन रूपेण व्याप्सिग्रहविषयतया सर्वमेवानुमानं सामान्यतो दृष्टं भवतीत्यर्थः । समानतन्त्रेति । तत्रोक्तस्य पारिभाषिकरूपान्तरस्यानभिधानादित्यर्थः । नाति । तत्र सामान्यतो दृष्टपदस्य नवर्यान्तभर्भावेन व्याख्यातत्वादित्यर्थः । एकस्य हीति । एकस्य पक्षस्य ! व्याप्त्या व्याप्तिज्ञानेनं । सामान्यलक्षणप्रत्यासत्त्या सामान्येन - पक्षविषयकमपि साध्यज्ञानं वृत्तमित्यर्थः । यथा गव्येवेति । आधदर्शनादौ गोत्वमनुपलभ्यापि सानोपळव्या । भूयोदर्षनादौ

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107