Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
२१० गुणनिरूपणम् तथापीति। तदिन्द्रियम् । तत्र रूपाभावानुभवे । संनिकृष्टमित्यर्थः ।
प्राभाकरं समुत्थापयति-यत्पुनरिति । व्यभिचारमेवाहपटद्वितीय इति। यद्यप्यद्वितीयत्वं द्वितीयाभावस्तथाचाभावः सिद्ध एव । यद्यपि च पटज्ञानभूतलस्वरूपज्ञानाभ्यां पटाभावव्यवहारः क्रियते तत्र भूतले ज्ञातेऽपि पटो न ज्ञात इति न भवंति पटाभावव्यवहारः । तथाप्येतस्मिन् वाधके सत्येव वाधकान्तरमुक्तम् । न च केवलं भूतलं तदालम्बनम् । घटविरोधिनोऽतिरिक्तकैवल्यस्यानङ्गीकारात् । अङ्गीकारे वा स एवाभावः । प्रतियोगित्वं विरोधित्वम् । विरोधश्च सहानवस्थाननियमो वा वध्यघातकत्वं वा । आये। न तावदिति । द्वितीये । परस्परमिति। नाप्यभावेति। व्यवहर्तव्यस्याधिकस्याभावे तस्य भाववत्यपि प्रसज्जितत्वेनानिरासकत्वादित्यर्थः । नन्वतिरिक्ताभाववादिनाप्यभावः साश्रयो वाच्यः, देशादिनियमेन व्यवहारात । तथाचाश्रयो भूतलविशेपो वाच्य इति स एवाभावव्यवहारहेतुरित्याह-यत्पुनरिति । यद्धटाश्रयस्येव विशेषस्यैवाभावाश्रयत्वम् । अन्यथा गोत्वादिकमपि न स्यात् । तदाश्रयविशेषादेव तद्यवहारोपपत्तेरित्याशयेनाह-भावव्यवहारस्थापीति । व्यवस्थेति । येन केनापि द्वितीयेन घटबद्वयवहारापत्तेरित्यर्थः।
ननु घटबद्भूतलबुद्धिभिन्ना भूतलबुद्धिरभावव्यवहारहेतुः । न चैवं घटवति घटवत्त्वाज्ञाने भूतलवुद्धिरभावः । वस्तुतो घटवतो भूतलस्य ज्ञानाद्भिन्नस्य भूतलज्ञानस्याभावत्वात ! बुद्धयोश्च भेदः स्वरूपविशेपावेव । घटवद्भूतलभिन्नभूतलमेव वाऽभावव्यवहारहेतुः ।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107