Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
गुणनिरूपणम्
नहि घटो नास्तीति बुद्धेर्यदि संयोगात्यन्ताभावो विषयस्तदा घटसंयोगो नास्तीति प्रतीतेराकारः स्यात् ।
मैचम् । यथा हि भूतले घटास्तित्वव्यवहारस्तत्संयोगेन तथा तदभावेन घटाभावव्यवहृतिः । यत्पुरस्कारेण यत्र यद्भावव्यवहारः, तत्संबन्धाभावात्तत्र नास्तिताव्यवहारात् ।
केचित्तु | घटात्यन्ताभाव एव तद्विषयः । उत्पादविनाशप्रत्ययस्तु तत्संवन्धतथात्वप्रयुक्तः । स च संयोगध्वंसरूपः । न चैव घटात्यन्ताभावसंवन्धस्य संयोगध्वंसरूपतया नित्यत्वात्तत्र घटधीः कदापि न स्यादिति वाच्यम् । न हि घटसंयोगोऽस्ति तत्र तत्संयोगध्वंसः । सामान्यध्वंसस्य यावद्विशेषध्वंसव्याप्यत्वादेकविशेषवति सामान्यध्वंसस्याभावेन तदुपपत्तिरित्याहुः ।
२१२
अन्ये तु । यथा प्रतियोगिभेदेनाभावभेदस्तथा तदवच्छेदकमेनापीति । तत्र संयुक्तघटस्याभावः । स चान्यविशिष्टभाववदुत्पादविनाशशीलोsन्य एवेति वदन्ति ।
यथानादिसंसर्गाभाववैधर्म्येऽपि प्रतीतेरनन्यथासिद्धत्वादुत्पादनशीलो ध्वंसः स्वीकृतस्तथा तत एवोत्पादविनाशशीलस्तुरीयः संसर्गाभावो घटस्येत्यप्याहुरेके । स चायमिति । संसर्गाभावश्चायमित्यर्थः ॥
अवाधिताकारमित्यनेन प्रमाणत्वमुक्तम् । आचाराच्चेति । वटे वटे यक्षः प्रतिवसतीत्यैतिह्याव सत्तां पूजनाचारः । तस्मात् स्मृति: । ततश्च श्रुतिरनुमीयत इत्यर्थः । आप्तोपदेश एवेति । यद्यपि विशिष्य वक्तृज्ञानं नास्ति तथापि महाजनपरिग्रहात प्रामा

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107