Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
२१४
गुणनिरूपणम् मुपसर्जनापत्तिर्विशेष्यालाभश्च । द्वितीये स्वार्थविशेष्यकप्रतीत्यजननाद्वाक्यभेदापत्तिः । किञ्चान्वये पदानां शक्तियदि वोधकतामात्र तदा सिद्धसाधनम् । अथान्वितत्वेनैव शक्तिः। तन्न । आकाङ्क्षाधुपेतपदार्थान्तरोपसंदानत एवान्वयज्ञानोपपत्तावन्यलभ्यत्वात् । अनन्यलभ्यपदार्थमात्रे शक्तिकल्पनात् । इदं च त्वयापि वाच्यम् । पदादन्वयमात्रोपस्थितावपि तद्विशेषज्ञानार्थं तदपेक्षणात् । अवश्यं चान्वयवोधे आकाङ्क्षादीनामसाधारणी निमित्तता वाच्या। वाक्यैकवाक्यतादौ प्रतीयमानान्वये पदशक्तेरभावात् । एवञ्चावश्यकपदार्थशक्तेरेवान्वयविषयतोपपत्तौ प्रतिवाक्यार्थमन्वयशक्तिभेदस्वीकारे गौरवमित्यन्यत्र विस्तरः । ननु यदि पदानामन्विते शक्तिर्नास्ति किन्तु पदार्थ एव (परम्) । तथाच यतः कुतश्चिदुपस्थितेषु पदार्थवन्वयबोधः स्यादिति पदानामेवान्वयवोधे शक्तिरास्थेयेत्याहशब्दमहिमानमिति। ___ भट्टमतेन परिहरति-आधुनिकेति । शब्दव्यतिरेकेऽपि संस्कारादुपस्थितानां पदार्थानामन्वयवोधादन्वयवोधे पदार्था एव ज्ञाताः करणम् । पदानि पुनः स्वार्थोपस्थितावेवान्यथासिद्धानीत्युपेयम् । अन्यथा नवकाव्यसंसर्गवोधात्पदरचना न स्यादित्यर्थः। न चावश्यकपदशक्तरेव पदार्थवदन्वयोऽपि विषयोऽस्तु न तत्र शत्यन्तरमुचितमिति वाच्यम् । श्रुतेऽपि पदे यावन्न पदार्थ उपतिष्ठते तावदन्वयामतीतरुपस्थितेषु पदार्थेष्वन्वयावगमादवश्यं पदार्थानां कारणत्वेन शक्तत्वात् ।
ननु पदार्थानामतीतानागतत्वाद्वोधकतैव नास्ति । दूरे ज्ञाता

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107