Page #1
--------------------------------------------------------------------------
________________
.. श्रीः किरणावलीप्रकाशः
(गुणग्रन्थः ) वईमानविरचितः
लखनौ विश्वविद्यालयाध्यापकन 'एम. ए.' इत्युपाधिधारिणा
शास्त्र्युपाबदरीनाथ शर्मणा संस्कृतः।
THE
KIRANĀVALİ PRAKASA
(Guna)
BY
VARDHAMĀNA UPĀDHYĀYA
Edited by
Badri Nath Shastri, M. A., Lecturer in Sanskrit, Lucknow University ( Inicknow ).
' 1936.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
Introduction. No apology is needed at this late hour, I hope, for the publication of Vardhamāna's commentasyon Udayana's Kiraņāvali (Guņa section ), because the sub-commentary on Vardhamāna's work has already appeared in print in this series. The study of Prasastapādabhāșya can not be properly undertaken until all the late. works which have a bearing, either direct as commentary or sub-commentary or indirect as an independent treatise affiliated to the main stock of the school, on Prasastapādā’s masterpiece have been published. The Sūkti, Setu, Vyomavati, Nyāyakandali & Kiraṇāvali have appeared already. If Śrīvatsa's Nyāyalīlāvati refers to Vallabha's famous work of the same name, it has also come out. The present commentary is on Kiraņāvali and is from the pen of Vardhamāna Upādhyāya, son of the great Gangeśa Upādhyāya of Mithilā, author of Tattvachintāmaņi in four sections and father of the so-called Neo-Logic of Bengal & Mithilā.* The age of Vardhamāna is not precisely determinable, but it is believed that he belonged to the fourteenth century of the Christian era. He is said to have been the author of the following works:
* This Vardhamāna is to be differentiated from an earlier author of the same name associated with the composition in 1140. A. D.) of Gạnaratnamahodadhi and also" from "amater jurist of the same name, son of Bhaveša and author of Daņdaviveka, Dharmapradīpa, etc...
Page #4
--------------------------------------------------------------------------
________________
A-In Nyāya. (1) Nyāyapariśiştaprakāśa, commentary on
. Nyāyapariśişta of Udayana. ( 2 ) Nyāyanibandhaprakāśa, com. on Nyāya
vārtikatātparyaparisuddhi of Udayana. (3) Nyayakusumāñjaliprakāśa, com. on Nyāya.
kusumāñjali of Udayana. (4) Tattvachintāmaņiprakāśa, com. on his
father's Tattvachintamani. (5) Prameyatattvabodha.
B-In Vaiseşika. (6) Kiraņā valsprakāśa, com, on Kiraṇāvali of
Udayana. (7) Nyāyalilāvatīprakāśa, com. on Nyāy&līlāvati of Vallabha.
C-In Vedanta. (8) Khaņdanakhandakhādyaprakāśa, com. on
Khandanakhaņdakhādya of Śri Harşa. It is unfortunate that the personal views of Vardhamāna are not available in the form of a separate treatise, but these can be easily gleaned from the numerous commentaries of which he was the author. · It is hoped that students of Indian philosophy, especially those of the Vaisoșika System, will find the work highly useful and serviceable in the interpretation of many a knotty passage of Udayana's text.
Lucknow University.
Badrinath Shastri.
Page #5
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः १२१ णा जन्यतां तन्तुविभागेनैव वा स्वाव्यवहितोत्तरकाल एव तज्जननं स्यादित्यत आह-कारणे चेति(१) । उत्तरविभागस्तन्त्वाकाशविभाग इत्यर्थः । स चेति । तन्तुविभाग इत्यर्थः । अपेक्षाकारणं द्वितन्तुकनाश इत्यर्थः(२) पूर्वसंयोगेति । पूर्वसंयोगस्य नन्ताकाशसंयोगस्येत्यर्थः । ननु परमाणुकर्मणा न झणुकपरमाण्दोर्विभागः तस्य संयोगपूर्वकत्वात् आरम्भकपरमाणुना सह घणुकस्यासंयोगादित्यत आह-अनारम्भकादिति । अनारम्भकेन परमाणुना सह यणुकस्य संयोगपूर्वको विभागः
सम्भवत्येवेत्यर्थः । विनाशकारणामावादिति । पाश्रय___ नाशविरोधिगुणान्तराभावादित्यर्थः । कर्मण इति । कर्मान
न्ये च विभागे तस्यासमवायिकारणत्वादित्यर्थः । अंश्वन्तरविभागमिति । द्रव्यारम्भकसंयोगाविरोधिनमारभ्यारम्भकवादनिपेधादित्यर्थः।
ननु यत्कर्म द्रव्यारम्भकसंयोगविरोधिविभागननकं . न तत्तदविरोधिविभागजनकमिति न व्यवस्था, किन्तु मूर्तमात्रविभागजनकममूर्तविभाग(३) न जनयत्तीति । एतावतापि विभागजविभागसिद्धिः(४) । तथाच द्रव्यारम्भकस्यापि(५)
(१) कारणविभागेन हीति-इति (क) (ब) पु०। (२) नाशमित्यर्थः--इति (ख) पु०। (३) अमूर्तवृत्तिविभाग:-इतिं (क) पु०। (४) सिद्धः-इति (क) पुर।.. (५) द्रव्यानारम्भकस्यापि इति (क) पु०...
Page #6
--------------------------------------------------------------------------
________________
१२२ . गुणनिरूपणम् .. तन्त्वंश्वन्तरतन्तुसंयोगस्य विरोधी विभागो द्रव्यारम्भकसंयोगविरोधिविभागजनकेन कर्मणा जन्यताम् मूर्तवृत्तित्वाव(१) न त्वाकाशतन्तुविभागोऽमूर्तवृत्तिवादित्याशङ्कयः निराकरोति-भू मूर्तेति । प्रत्यक्षेण तथा सहचारानवसायाद्वयाप्तौ मानाभावादित्यर्थः । मूर्तेति(२) । यदि नैवं तदा पद्मपत्रकर्मणाप्याकाशविभागो न स्यादिति(३) । तत्रापि विभागजविभागोऽङ्गीक्रियेतेत्यर्थः(४) । आपरमाण्विति । साक्षात्परम्परासाधारणद्रव्यारम्भकसंयोगविरोधित्वमात्रस्य विवमितत्वादित्यर्थः । तस्मादिति(५)। . . . . .
ननु द्वितन्तुकारम्भकांशुसंयोगस्य द्वितन्तुकपटे नासमवायकारणत्वं समवायिकारणहत्तेरेव तथात्वात् । नापि समवायितया । आरभ्यारम्भकवादनिषधन पटं प्रत्यंशूनामतत्वाद । नापि निमित्ततया । तन्तुत्वेनैवान्यथासिद्धत्वात् । तथाच द्रव्यासमवायिकारणतन्तुसंयोगविरोधिविभागजनककर्मणः कथमसम. वायिकारणेतरसंयोगविरोधिविभागजनकत्वं विरोधाव। .. __ अत्राहुा । अंशुसंयोगः. पदनिमित्तकारणम् ।. न. च तत्र मानाभावः । अवयवावयवसंयोगविशेषादपि कार्यविशेषदर्शनात् ।
-
(१) मूर्तमात्रवृत्तित्वात्-इति (क) पु०। (२) मूर्तविभागजनकत्वेनेति-इति (क) पु.।। (३) न जन्येतेति-इति (क) पु०। (४) नाङ्गीक्रियेतेत्यर्थः-इति (क) पु०। (५) तस्माद्व्यारम्भकेति-इति (क) पु०।
Page #7
--------------------------------------------------------------------------
________________
किरणावली प्रकाश
१२३
अकारणविशेपस्य च कार्यविशेषत्वात् । अतस्तदाश्रया अंशकोऽपि तत्कारणानि संयोगमात्रस्याकारणतया संयोगिविशेषितस्प तस्य कारणत्वात् । अन्यथा संयोगेनान्यथासिद्धमिन्द्रियाद्यपि प्रत्यक्षादौ कारणं न स्यात् । द्रव्यारम्भकसंयोगविरोधित्वेन च द्रव्यमात्रस्य निमित्तकारणसाधारणतयाविवक्षितत्वाव । एल्लभ्यत इति । क्रमेण तन्तोरंशुकम्माशुविभागारम्भकसंयोगनाशतन्तुनाशाः । अंशुकर्मकाले वीरणे कर्म । ततो विभागस्ततः संयोगनाशोऽयोत्तरदेशसंयोग इत्युभाभ्यां स्वाश्रयनाशोत्तरदेशसंयोगाभ्यां तन्तुवीरणविभागो नाश्यत इत्यर्थः ।
परत्वनिरूपणावसर एवापरत्वनिरूपणमुपपादयति । परस्परेति। परत्वापरत्वयोरन्योन्यमाश्रयमवधिमपेक्ष्पैवोत्पत्तेः । परस्परसामग्रीनैयत्यात् । परस्परोत्पत्तित्ववव्यवहारविषयत्वज्ञापनमेव व्युत्पत्तिवैषम्यमित्यर्थः । मिलितस्यासम्भवं निराकुर्वन्नाइ-यथायथमिति । निमित्तत्वमदृष्टादिष्वतिव्याप्तं मत्वाइ-यविशिष्ट इति । लक्षणमिति । यद्यपि दिक्कनकाळकृतपरत्वापरत्वयोः शन्दमात्रसाधारण्यात परापरव्यवहारयोर्नकत्वम् अपेक्षाबुद्धिजन्याविभुटत्तिमात्रत्तिगुणत्वव्याप्यजातिमत्त्वञ्च न लक्षणं परस्परलक्षणस्य परस्परास्मिन्नव्याप्तः । तथापि शृङ्गप्राहिकया व्यक्तिविशेष निर्दिश्य एतत्तिगुणत्वव्याप्यजातिमत्त्वं लक्षणमेकैकस्य । न च तादृशजाती मानाभावः । सामग्रीवैलमण्येन कार्यवेजात्यस्यावरकत्वात् । दिक्कालकृतयोः परत्वयोरपरत्वयोश्चात्यीयस्त्वारःपेक्षावुद्धिजन्यमूर्त्तमात्रगुणत्वेनोपाधिना एकगुणत्वम् । Fe:
Page #8
--------------------------------------------------------------------------
________________
१२४ ... गुणनिरूपणम्... ञ्चेति । उक्तमेव प्रत्यक्षमित्यर्थः । ननु किञ्चिदवध्यपेक्षसंयुक्तसंयोगभूयस्त्वाल्पीयस्त्वविषयापेक्षाबुद्धिजन्यत्वात परत्वापरत्वयोरावश्यकत्वाल्लोघवाच्च ताभ्यामेव परापरव्यवहारौ . स्तां किं गुणान्तरकल्पनयेत्याह-संयुक्तसंयोगेति । प्रभातर्यपीति । ननु तादृशसंयोगाश्रयत्वे यत् प्रतीयात् तत्र परापरव्यवहारो न तुं तदवधित्वेन प्रतीयमाने । प्रमातापि यदा तादृशसंयोगाश्रयत्वेन ज्ञायते न त्ववधित्वेन तदा प्रमातर्यपि वाराणसीतः परोऽहमिति व्यवहारों भवत्येव । अत एवान्यत्राप्यवधौ संयुक्तसंयोगाविशेषऽपि न परत्वाद्युत्पत्तिः । तथाच यदेव परत्वाद्युत्पत्ती नियामकं तदेव व्यवहारनिमित्तमस्तु । ___ अत्राहुः । प्रमातात्मा न शरीरमिति विभत्वात्तत्र व्यवहारानास्पदेऽपि तादृशसंयोगाश्रयत्वेन परव्यवहारापत्तिः । न च मूर्त्तत्वमपि तद्वयवहारनिमित्तमस्तु । संयोगस्य सावधित्वाभावात् । इदमस्मात संयुक्तमित्यप्रतीतेः । परत्वादेस्तु सावधित्वेन प्रतीतेः । परत्वादेरेकवृत्तितया प्रतीतेासज्यत्तिसंयोगानेदाव । संयोगभेदापरिगणनेऽपि परव्यवहाराच्च । . अन्ये तु संयुक्त संयोगाल्पीयस्त्वभूयस्त्वे नाकाशादिदेशा. पेक्षया, तेषामविशिष्टत्वादतीन्द्रियत्वाच । किन्त्वालोकादिमध्यवर्त्यपेक्षया । तथाचैकदिगवस्थितयोरेव द्वयोरेकस्य घनतरालोकवर्तिनः संयुक्तसंयोगस्य भूयस्त्वे यदपरत्वं विरलालोकमध्यवर्तिनः संयुक्तसंयोगाल्पीयस्त्वे यत् परत्वमुत्पद्यते तन्न स्यादित्याहुः ।। ... . . ननु व्यवहारेति । अज्ञातात कारणात् कार्योत्पत्तिनियमो
Page #9
--------------------------------------------------------------------------
________________
१२५
किरणावली प्रकाशः भवति व्यवहारविशेषश्च व्यवहर्त्तव्यविशेपं विना नेत्यर्थः । एवं सत्यनुमानमप्याहुः । घटः समानाधिकरणसंयोगासमवायिकारणकैकत्तिगुणवान् मूर्त्तत्वात् पार्थिवपरमाणुरत् । दृष्टान्ते तादृशो गुणः पाकजो गन्धादिः। __ अयं पार्थिवः परमाणुरेतत्तिविशेषगुणभिन्नसंयोगासमवायिकारणकैकत्तिगुणाश्रयः पार्थिवत्शत् पार्थिवान्तरवदिति न युक्तम् । एकेनापरस्यान्यथासिद्धावुभयासिद्धेः । दिकालकृतत्वं कार्यमात्रस्येत्यतोऽन्यथा व्याचष्टे-दिक्संयोगेति।
दिश एकत्वाद्विशेषासम्भव इत्यन्यथा व्याचष्टे-दिग्विशेषः कालादिति।
दिशः स्वापेक्षया न विशेषः किन्तु कालापेक्षयेत्यर्थः । एवमिति। कालस्यापि दिगपेक्षया विशेषो न स्वापेक्षयेत्यर्थः। दिशि विशेषो दिगुपाधिलक्षणः।
ननूत्पत्त्यभिधानप्रतिज्ञा व्यर्था, उत्पत्तेरंवाभिधातुं युक्तत्वादित्यत आह-शिष्याणामिति । ननु परत्वाधार इत्ययुक्तमपेक्षाबुद्धयनन्तरं परत्वाद्युत्पत्तेरित्यत आह-भविष्यदिति । . तर्हि कारणाविशेष इति।दिच्छाकास्कृतपरत्वापरत्वयोः कार्ययोः कारणे विशेषाभावात कयं विशेष इत्यर्थः ।
. न हीति । दिक्कृतपरत्वानिवझणपरत्वाचनुमेपनाह कालस्येत्यर्थः। . अवर्तमानस्येति । यसपाश्चिमानस्य ममारिकामा भावेऽपि.अवधित्वेन दोपामाः, माया वन्द शार
Page #10
--------------------------------------------------------------------------
________________
१२६ : गुणनिरूपणम् । व्यवहारात । तथापि परत्वापरत्वयोः परस्पराश्रयमवधीकृत्यैवोत्पादादविद्यमानस्य समवायिकारणाभावेऽवधित्वस्याप्यभावात । मृतापेक्षया च वर्तमाने परत्वादिव्यवहारस्तथाविधापेक्षाबुदिविषयत्वगुणनिवन्धनः। .. ननु कालकृतपरत्वापरत्वयोर्मानाभावः । तथाहि परत्वापरत्वाश्रयाभिमतावच्छेदकाद्यसूर्यक्रिया प्रागभावसमानफलत्वालम्बना वा (?) अपरत्वधीस्तु परत्वाबाधाभिमतपिण्डसमानकालपदार्थध्वंसकालोत्पत्तिमत्त्वविषया तदुत्पत्तिकालाश्रयत्वे तदुत्तरकालत्व
वास्तु किं ताभ्याम् । ___मैवम् । प्रागभावोत्पत्त्यास्तदानीमतीतत्वे परत्वापरत्वयोवर्तमानतभावानुपपत्तेः । इदानीमयमेतस्मात् परे इति वर्तमानतामानात् प्रागभावादेरवध्यनिरूप्यत्वेन परत्वादेश्च सावधित्वेन तद्भिन्नत्वात् । . केचित्तु । प्रतियोग्यन्यूनानतिरिक्तकालीनावधिकसामवायिकयावत्परत्वाश्रयसमानकालीनकादाचित्काभावत्वं प्रागभावत्वम् ।
अतः परत्वेनैव प्रागभावनिरूपणान तेनैवान्ययासिद्धिरित्याहुः । ... तन्न। गन्धानाधारकालानाधारत्वाभावेन प्रागभावनिर्वचनात् ।
बहुतरतपनेति । यत्मागभावावच्छेदकक्षणावच्छिन्नजन्म यदपेक्षया तद्विपकृष्टं यजन्मावच्छेदकक्षणध्वंसक्षणाधिकरणजन्म यदपेक्षया तत्सन्निकृष्टमित्यर्थः । ___ अत्र केचिदाहुः । जन्मान्तर्भावो व्यर्थः। बहुतरतपनपरिस्पन्दावच्छिन्नत्वबुद्धेरेव परत्वोत्पादकत्वात् । एवञ्चानित्यद्रव्यापेक्षया
Page #11
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः १२७ नित्यद्रव्येऽपि तादृशापेक्षाबुद्धया परत्वमुत्पद्यते । ज्येष्ठेऽतीते चिरं जीवतः कनिष्ठस्य नपरत्वोत्पत्तिः । तत्मागभावकालावच्छिन्नत्वबुद्धेरेव परत्वोत्पादकत्वादिति ।
विप्रकृष्टत्वेनेति । परत्वापरत्वयोरुत्पत्तिक्षणानव्यवहितप्राक्क्षणवृत्तिविप्रकृष्टत्वसन्निकृष्टत्वाभ्यां प्राप्तत्वादित्यर्थः। ___ तस्मादिति । द्रव्यनाशापेक्षाबुद्धिनाशयोरभावात् । पारिशेष्येण संयोगनाश एव परत्त्वादिनाशक इत्यर्थः । . .
। यद्यपीति । एताभ्यां पर्यायशब्दाभ्यामभिधेया बुद्धिरित्यसाधारणतया व्यवच्छेदकत्वात् पर्यायाभिधानमपि लक्षणम् । यद्यपि सङ्केतमात्राधीनमहत्तयः शब्दाः सर्वत्र संभवन्ति तथापि प्रादेशिकस्य सङ्केतस्यातयात्वेऽपि सर्वजनीन ऐश्वरः सकेनः शक्नोति बुद्धि व्यवच्छेत्तुम् । तेनापि करणव्युत्पत्त्या बुद्धिज्ञानशब्दो यद्यपि मनसि पर्त्तते तथापि भावव्युत्पत्त्यात्र लक्षणम् । ननु बुद्धिज्ञानशब्दौ चैत्रादिपदवत् यत्र सङ्लेत्येते तत्रातिव्याप्तिः । द्वादशेऽह्नि पिता नाम कुर्यादिति सामान्येन रूपेण तस्यापीश्वरसतविषयत्वादिति चेत् । बुद्धिज्ञानशब्दद्वयवाच्यत्वस्य विवक्षितत्वात् । द्वादशेऽह्नि पिता नाम कुर्यादित्यत्र विधेयगतसंख्यात्वेनैकत्वस्य विवक्षितत्वे नामदयस्यैका तात्पर्यागोचरत्वात । __ यद्वा । पर्यायशब्दाभिधानेन बुद्धिरिति लक्ष्यनिर्देशः । ज्ञानपदस्य स्वप्रत्तिज्ञानत्वनिपित्तज्ञानत्वजातो तात्पर्य तेन ज्ञानत्वं लक्षणम् । तत्सिद्धिश्चानुगतबुद्धेराश्रयासिद्धिं निवारयति । .. ..
तस्मिन् सतीति । न.च ज्ञानग्रहणसामग्यास्तद्ग्रहणोत्तर
Page #12
--------------------------------------------------------------------------
________________
२२८ ... गुणानिरूपणम् . . मपि सत्त्वादेकज्ञानधीपरम्परया विषयान्तरसञ्चारो न स्यात् । विषयान्तरधीसामग्र्याः प्रतिबन्धकत्वात् । कार्यदर्शनेन. तथा कल्पनात । सांख्या हीति । प्रथमः परिणाम आद्या विकृतिः । सत्त्वरजस्तमासाम्यरूपायाः परिणामिन्याः सत्त्वभेदः : प्रथमः परिणामो बुद्धिरन्तःकरणभेदः । सांख्यानां बुद्धिमनोऽहङ्कारभेदेन तवैविध्याव ।
बुद्धेरिति । बुद्धस्त्रयोऽशाः पुरुषोपरागविषयोपरागण्यापारावेशभेदाव । मयेदं कर्तव्यमित्यध्यवसायात् । तत्र मयेत्यतात्त्विको महचेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपरागः। : : . नीलादिष्विन्द्रियसन्निकर्षाव तत्स्वभावस्य महत्तत्त्वस्य नीलाचाकारपरिणतिभेदोत्पादो मलदर्पणसम्बन्धवत् पारमार्थिको विषयोपरागः । पुरुषोपरागविषयोपरागाभ्यां कर्तव्यविषयस्य प्रतिमासात्तदधीनः करोमीत्यध्यवसायो व्यापारावेशः । तत्राघोंऽशो
बुद्धिर्द्वितीयो ज्ञानं तृतीयश्चोपलब्धिरित्यर्थः। . .., . बुद्धिस्थामिति । बुद्धर्भावाष्टकसम्पन्नत्वात् मुखादिकं भावनान्तं तद्धर्म इत्यर्थः।
यदीति । करणव्युत्पन्नस्यान्तःकरणवांचितयास्माभिरुप-गमादित्यर्थः ।
: तद्भिन्नान्तःकरणे बुद्धिर्नास्ति मानाभावादित्याह-ततोऽ पीति । भावव्युत्पन्नस्य बुद्धिशब्दस्य नान्तःकरणवाचिता, करणफलयोर्मेदादित्याह-बोध इति । अन्तःकरणस्यातीन्द्रियत्वात प्रत्यक्षाया बुद्धभेदमाह-स चेति । ननु फलमपि महदन्तःकरणस्य
Page #13
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः १२९ धर्मो धर्मधर्मिणोश्चाभेदादन्तःकरणाभिन्नं स्यादित्यत आह-अत एवेति । अहं बुद्ध इत्यनुभवस्य सर्वजनीनत्वादित्यर्थः ।
स चायमनुभवो भ्रम इत्याह-न चेति । ननु बुद्धेरात्पधर्मत्वेऽनित्यधर्मानाश्रयत्वं कौटस्थाश्रुतिसिद्धं विरुध्यत इत्यत आहन चैवमिति । नित्यत्वं कौटस्थ्यमनुक्तरूपम् । तच्च धर्मधर्मिणो दाद्धर्मानित्यत्वेऽपि न विरुद्धमित्यर्थः।
एतेनेति । बुद्धरात्मधर्मत्वव्युत्पादनेन तद्वदभिमान आत्मनि ज्ञानाभिमानः । ज्ञानाभिन्नाया बुद्धरात्मधर्मत्वे सिद्ध ज्ञानमप्यात्मवृत्तीति सिद्धमित्यर्थः। __ अधिकमिति।बुद्धेरिति शेषः। परिभाषैवेति। "शब्दमात्रं न त्वर्थोऽधिक " इत्यादिना तस्याः समानतन्त्रनिरासादित्यर्थः ।
स्वरूपकृत इति । साक्षात्कारित्वादित्यर्थः ।
वैयधिकरण्यं परिहरति-अनन्तार्थत्वादिति । व्यासो विस्तारः।
यथार्थमिति । ___ ननु यथार्थज्ञानत्वं स्मृतावतिव्याप्तं यथार्यानुभवत्वञ्च संशयविशेषेऽतिव्यापकम, अन्यतरत्वस्य काशब्दार्थत्वात, तस्य क्वचित् सत्त्वात् । . न यथार्थनिश्चयत्वम् । यथाऽर्थस्तथा ज्ञानमित्यर्थे यथाशब्दार्थसादृश्यस्य सर्वथैकदेशाभ्यामव्याप्त्यतिव्याप्तिभ्यामनुपपत्तेः ।
नापि विशेष्यत्तिप्रकारत्वं निर्विकल्पकाव्याः । नापि विशेष्यात्त्यप्रकारकत्वम् । एकैकविशेष्यात्तिनाना
Page #14
--------------------------------------------------------------------------
________________
१.३० . गुणनिरूपणम् ... प्रकारकसमूहालम्बनाव्याप्तः । न च प्रकारस्यैकविशेष्यत्तितया न विशेष्यावृत्तित्वम् । प्रमाऽप्रमारूपसमूहालम्बनाव्याप्तः। :
न च यावद्विशेष्यावृत्तित्वं विवक्षितम् । एकैकविशेष्यवृत्तेविद्विशेष्यात्तित्वेन समूहालम्बनाव्याप्तः ।
नाप्यबाधितानुभवत्वम् । वाधस्य प्रमात्वा । नापि जातिविशेषः । योग्यवृत्तितया तत्संशयानापत्तेः।
प्रमात्वस्य नित्यानुमेयत्वात् । प्रत्यक्षत्वादिना सङ्करप्रसङ्गाच्च । उच्यते । यत्र यदस्ति तत्र तस्यानुभवः प्रमा । यद्यत्रं नास्ति तत्र तस्यानुभवोऽप्रमा । अत एव रजतमिदमिति ज्ञानमिदन्त्ववति तदनुभवात् प्रमा। रजतत्वाभाववति तदनुभवादप्रमा -1 न. चाव्याप्यतिममायामव्याप्तिः । भिन्नावच्छेदेन हि तत्र भावाभावयोतिः। तथाच यत्र यस्य , भादो न तत्र तस्याभावः । अविद्यायाः पश्चादनुमाने विद्यापूर्वकत्वादिति हेतुः अविद्यायाः प्रथमविभागे लघुमतिपत्तिकत्वादित्ति हेतुः । धमाशे सर्वधियां यथार्थतया सकल- ज्ञानव्यापकत्वेन विद्याया गुरुप्रतिपत्तिकज्ञानत्वात् । सूचीकटाहन्यायेनाविद्यायाः प्रथमं विभाग इत्यर्थः । ___ अथेति । तस्यायथार्थज्ञानत्वादविद्यायां तद्विभागो युक्त इत्यर्थः । . संशयात्प्रच्युता इति । संशयो हि दोलायितानेककोटिकः । तर्कस्तु नियतां कोटिमालम्बत इत्यर्थः । .
प्रमाकरणनिष्ठः प्रमाणसहकारी न तु तत्समवेतः। आविज्ञाततत्त्व इति । न विज्ञातं विशेषतो ज्ञातं तत्त्वं वास्तवं रूपं यस्यार्थ
Page #15
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः
१३१ स्येति विशेषनिषेधात् सामान्यज्ञानला भे धर्मिज्ञानं संशायकं लभ्यते । कारणोपपत्तिरिति । कारणं व्याप्यं तदुपपत्तिराहार्यांरोपरूपा । परेणाभ्युपगतस्य हेतोर्निर्वह्नित्वस्य व्याप्यस्य य आरोपस्ततोऽनिष्टस्य निर्द्धमत्वस्याप्रसञ्जनं तर्क इत्यर्थः ।
यद्यपि संशयजिज्ञासे अप्यविज्ञाततत्त्वे मर्त्तेते । तथापि प्रमाणोपपत्तित इति तद्व्यवच्छेदः ।
अनियतजिज्ञासाविच्छेदेनेति । साध्यतदभावविषयकसमकोटिक जिज्ञासा निवृत्तेत्यर्थः ।
संशयस्य स्वनियत जिज्ञासात एव निवृत्तेः । संशयो हि विरोधिविपयकतया स्वसमानविषयापनुमितिं प्रतिबध्नाति । न हि विरोधिनो ज्ञानस्य निश्चयत्वं तन्त्रं किन्तु ज्ञानत्वमात्रं लाघवात । एवं तज्जनिताऽनियतकोटिका जिज्ञासापि तत्प्रतिबन्धिका । तत्प्रतिबन्धकत्वे विरोधिविपयत्वमात्रस्यैव प्रयोजकत्वाल्लाघवादिति । तन्निवृत्तिस्तक्र्व्वादित्यर्थः ।
·
•
ननु विरोधिविपयत्वेऽपि संशयस्याव्यवेस्थितको टिकतया हीनवळत्वान्न प्रतिबन्धकत्वंम् । अन्यथा तेन प्रतिबन्धादनुमानवत्तक्र्श्वोऽपि न प्रवर्त्तेत । न वा तत् संशयनिवृत्तिः । वैषयिको हि विरोधस्तत्र तन्त्रम् । न च निवर्त्तनीयनिर्वह्नित्वादिको टिविरुद्धविषयो यद्ययं निर्वह्निः स्यान्निर्द्धमः स्यादिति तर्कः । अत एवं । साध्यविरोधिजिज्ञासापि नानुमितिप्रतिबन्धिका । तस्या भपि संशयवदीनवत्वात् । तृतीयलिङ्गपरामर्शानन्तरं विरोधिजिज्ञासयानुमितिविलम्बे मानाभावाच्च । न च साध्यैककोटिका जिज्ञासा
Page #16
--------------------------------------------------------------------------
________________
१३२ . गुणनिरूपणम् . . नुमितिहेतुः । 'सा तर्केण कोट्यन्तरेऽनिष्टमुपनयता जन्यते, न्तव्यतिरेकेऽप्यनुमित्युत्पत्तेः। ... मैवम् । कामिनीजिज्ञासोः धूमपरामर्शेऽप्यग्न्यननुमित िज्ञासाविशेषस्यानुमितिप्रतिबन्धकत्वे विरोधिविषयस्यैव तन्त्रत्वादः। एवं विरोधिनानाविषयस्य जिज्ञासा । तद्बोधकजिज्ञासानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थि । तत्र कोठ्यन्तरे तर्केणानिष्टमुपनयता सा जिज्ञासापनीयते । इदमेव वक्ष्यति " न हि कुर्यामित्यादि ।" : इह भूतल इति । ननु तर्कस्य न प्रत्यक्षानुग्राहकत्वम् । त विनाप्युन्मीलिताक्षस्याभावधीदर्शनात् तत्मामाण्यानुग्राहकानुमानानुग्राहकत्वे तु अनुमान एव तत्त्वम्। . . मैवम् । प्रत्यक्षस्य घटाभाववति भूतले वर्तमानस्य विरोधिधीनिरासरूपोऽनुग्रहः क्रियत इति विरोधिधीपूर्वकप्रत्यक्षे सावधारणप्रत्यक्षविशेषे च तापक्षणात् । . ननु यद्यपि नियतकोटिकजिज्ञासा . ज्ञानेष्टसाधनताज्ञानेन जन्यते । तथाप्यन्वयव्यतिरेकाभ्यां तोऽपि तद्धेतुः ।
यद्यपि. च यथोक्तंतक विनाप्यनुमितिदर्शनाद्वयभिचारेण तर्कस्तत्र न. कारणम् । तथापि पुरुषपयनसाध्या यत्रानुमानमत्तिस्तत्रैतादृशस्तर्कः कारणम् ।
... - अनियतकोटीति । तस्यारोपिता, व्यवस्थितसत्त्वौपाधिकसत्त्वविषयत्वेनानिश्चायकतया प्रमारूपत्वाभावादित्यर्थः । .. प्रमितहानिरिति । प्रमितस्य धूमस्य हानिरप्रमितस्य निर्द्ध
Page #17
--------------------------------------------------------------------------
________________
किरणावली प्रकाश
१३३ मत्वस्योपगम इत्यर्थः । एवमन्यत्रापि । न्यायाङ्गतयेति । संशयवदिति शेषः । विरोधिनानार्थावमर्ष इति ।
नन्वेतत् स्थाणुः पुरुषश्चेति भ्रमेऽतिव्याप्तम् । विरोधे भासमान इति विशेषणेऽपि धूमाभाववानयं यदि धूमवान् स्यात् वह्नयभाववानपि वह्निमान स्यादित्यत्र त:ऽतिव्याप्तिः । न च तत्र वह्नयभावविशिष्टे वह्निवैशिष्टयं विषयः । संशये तु तुल्यवधुभयवैशिष्टयं विषयः। तथापि विरोध्युभयविशिष्टमिति शब्दजन्यज्ञानेऽतिव्याप्तिः । न च जिज्ञासाजनकं ज्ञानं संशयः । उपेक्षणीयसंशयाव्याप्तेः । योग्यतायाश्च तदवच्छेदकधर्मप्रतीतावप्रतीतेः । अनुव्यवसायेऽतिव्याप्तेश्च । नापि स्थाणुर्वा पुरुषो वेति स्मरणाभावात् संस्काराजनकं ज्ञानं संशयः। तथाविधनिश्चयेऽतिव्याप्तः। तस्यापि किञ्चिदवाच्छिन्ने ग्रहः ।
उच्यते । एकस्मिन् धर्मिणिविरोधिनानाप्रकारकं ज्ञानं संशयः। न चैतनिरुक्तजन्यज्ञानेऽतिव्याप्तिः । तत्र विरोधिनानामकारकत्वस्य प्रकारत्वात् । संशये च विरोधिनोरेव प्रकारत्वाद । विरोध्युभयविशिष्टमितिशब्दस्यायोग्यतया ज्ञानाजनकत्वात्तजनकत्वज्ञानेऽतिव्याप्त्यभावात्तदेव वा लक्षणम् ।
ननु समानधर्मदर्शनात्तद्भिन्ने धर्मिणि कथं संशय इत्यत आह-उभयति । संशयस्य चेति । ननु कस्यचित संशयस्य मुखमात्रजनकत्वाद्धर्मजन्यत्वमपि । . . . . __अत्राहुः । संशयो न संसारविरोधी । किन्तु य आत्मगोचरः । संसारविरोधीति दर्शयितुं दुःखपदं संसारे उपचर्य
Page #18
--------------------------------------------------------------------------
________________
१३४
: गुणनिरूपणम् संसारहेतुत्वेन धर्मस्याप्यधर्मत्वेनाभिधानम् । ज्ञातृधर्मेति । ज्ञातुरपि ज्ञेयत्वात् गोवृषन्यायेन विभागः । भ्रान्तोऽहमिति । यद्यप्ययमात्मधर्मिकः संशयस्तथापि ज्ञानधर्मिक एवोचितः । तथैवोपक्रमात् ।
ननु समानधर्मज एव न संशयः । उपलब्ध्यनुपलब्धिविप्रतिपत्तीनामपि संशायकत्वादित्यत आह - एतदुक्तमिति । तद्विषयेऽपि समानधर्मसद्भावं दृष्टान्तेनाह - यथाहीति । व्याहतेति । ननु विप्रतिपत्तिर्विरुद्धधर्मविषयकः शब्दप्रयोगः । कारणेन कार्यस्य लक्षणात् । वादिगतायास्तस्याः परोक्षत्वात् । स च समानधर्मवद्धर्मिनिष्ठत्वेनाप्रतिसन्धीयमानं एव संशयहेतुः । न । तस्यापि विषयविषायभावेन सम्बन्धेन धर्मिनिष्ठतया प्रतिसंहितस्यैव : संशाय - कत्वात् । अन्यथातिप्रसङ्गात् । ननु समानधर्मो न संशयमात्रे हेतुः । व्यभिचारात् । न । तद्विशेषे जातिकृतस्य तस्यासिद्धेः । कारणत्वग्रहात्तत्कल्पनेऽन्योन्याश्रयात् ।
किञ्च । न तस्य स्वरूपतः संशायकत्वं किन्तु तत्सहचरितकोटिस्मारकतयति तत्रैवान्यथासिद्धिः । न च कोटिस्मरणं तद्वयापारः । केवलाददृष्टादपि कोटिस्मृतेः । अत एव स्मर्यमाणकोटिके संशये तत्कारणत्वमपास्तम् । तस्मात् कोट्युपस्थितिधमिज्ञानविशेषादर्शनान्येव संशयकारणानि ।
मैवम् । उत्कटकोटिकसंशयस्यान्यथासिद्धेः । यत्र कोटी भूयःसहचरितधर्मग्रहस्तत्रैवोत्कटत्वात् । तथाच तत्र विशेषे तत्कारणत्वादन्यत्रापि तत्र तथा । यद्वा वेगेन गच्छतस्तत्तत्कोटिस्मृतौ विशेषादर्शने च समानधर्मज्ञानाज्ञानयोः
Page #19
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः १३५ संशयतदभावाभ्यां तत्कारणत्वम् । केवलादृष्टस्मारितकोटिकश्च संशयो नास्त्येव येन तस्य वहिर्भावः स्यात् । सर्वत्र समानधर्मस्यान्वयादिदर्शनात् ।
ननु समानधर्मेषु समानशब्दो न सादृश्यार्थः । किन्तु साधारणार्थ इति स्थाणुपुरुपसंशयो न स्यात् । तयोः परिमाण. स्यासाधारणत्वात् । तजातेश्चाद्रव्यत्तित्वात् ।
न । जातरपि परम्परासम्बन्धेन द्रव्यवृत्तेः। .. सारूप्यज्ञानादिति । स्थाणुपुरुपसदृशोऽयमिति ज्ञानात् विरुद्धनानाप्रकारकज्ञानस्यैकस्मिन् धर्मिमण्यनुभवसिद्धत्वादित्यर्थः ।
वाकारार्थश्च विरोधः।
परस्परेति । आरोप्यारोपविषययोम्मिथो भेदार्थ वैधयमुक्तम् । सामर्थ्यानुपलब्धाविति । तोयनातीयस्य पिपासोपरामनसामर्थ्यानुपलब्धावित्यर्थः ।
तहेतुत्वासम्भवेनेति । इष्टानिष्टसामर्थ्यानुपळम्भसम्भवेनेत्यर्थः ।
अनुपलब्ध इति । आरोपणीय इत्यर्थः ।
आरोप्यज्ञानस्यारोपप्रयोजकत्वमुक्त्वारोपविषयज्ञानस्य तत्प्रयोजकत्वमाह-आरोपविषयेति । आरोप्यज्ञानेति । ननु सारूप्यं न सरूपसम्भ्रमहेतुर्मानाभावादिति, ज्ञातस्य तस्य हेतुत्वे तस्य भेदाधिष्ठानतया भेदग्रहात्तदनुपपत्तिः । न साधारणधर्ममात्रग्रहस्यारोप्यस्मारकतया प्रत्यक्षभ्रमे . तन्त्रत्वाव । अन्यथा तद्विषयनियमानुपपत्तेः।
Page #20
--------------------------------------------------------------------------
________________
१३६ ...गुणनिरूपणम्... . . न च विशेषाग्रहमात्रं. तन्नियामकम् । अगृहीतावशेषेऽप्यसरूपे भ्रमादर्शनात् । अत.. एच. सारूप्यस्यैकदेशकास्न्ये विकल्पोऽप्यपास्तः । आरोप्योपस्थापकत्वमात्रस्य प्रयोजकत्वात् । एवञ्च स्मर्यमाणारोपे सारूप्यग्रहः कारणम् । पतिः शङ्ख इत्यादौ च नयनादिसम्भिन्नपित्तपीतिमानमनुभूय शङ्ख तदारोपः । किञ्च । नात्र शखे पीतगुण आरोप्यते । किन्तु शङ्खपीतगुणावारोपविषयौ संसृष्टत्वमारोप्यम् । तथाच • संसृष्टस्वभावाभ्यां गुणगुणिभ्यां सारूप्यमारोपप्रयोजकम् । तचासम्बन्धानहरूपमत्रास्त्येवेत्याह-न च पीतिमतिक्तत्वे इति । संसृष्टत्वस्यारोपे तस्य केवलान्वयितया तत्र विशेषादर्शनादित्यर्थः ।
न चैवं प्रतीतर्धमत्वानुपपत्तिः केवलान्वयिधम्मिविषयज्ञानस्य यथार्थत्वस्य नियमादिति वाच्यम् । संसृष्टविषयत्वे तथात्वे धर्मद्वय. प्रकारत्वांशे भ्रमत्वात् ।
नन्वेवं शङ्खपीतगुणौ संसृष्टाविति धीः स्यात् । मैवम् । संसर्गस्य ससम्बन्धिकतया तन्निरूप्यत्वेनोपस्थितपदार्थेनैव तन्निरूपणातः । तथाप्यसंसर्गाग्रहस्य स्वरूपसत एवारोपहेतुत्वादाराप्यारोपविषयसा
रूप्यस्य च ज्ञातस्योपयोगात् । .... अत्राहुः । यत्र तादात्म्यारोपः तत्र सारूप्यं ज्ञातमुपयुच्यते संसर्गारोपे तु स्वरूपसदेव प्रयोजकमिति. भवत्यसंसर्गाग्रहः सारूप्यम् । यद्वा । यत्र सारूप्यमेव / दोपस्तत्रारोप्योपस्थापकतया सारूप्यमुपयुज्यते .. न . तु यत्र. पित्तादिर्दोषः । तत्रारोप्योपस्थितेरनुभवरूपायाः सम्भवात् । ननु दोपानसर्गिकक्रार्य
Page #21
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः प्रतिवन्धका न त्वागन्तुककार्यजनका इति । ततो यथार्थज्ञानं मा जनिष्टायथार्थज्ञानन्तु, कुत इत्यत आह-न च दोषा इति । स्वच्छत्वमभास्वररूपविरहः । व्यूहनं वाजीकरणम् । विष्टम्भनं गतिप्रतिबन्धः । ननु चक्षुत्रिग्राह्यत्वं पीतादौ तत्सामान्ये चास्तीति तदपि सारूप्यादागेप्यतेत्यत आह-नियमादृष्टवशादिति । यथा मण्डूकवसाअनादोषाद्वंश एवोरगभ्रमो नान्यत्रेति नियमस्तथा नियमादृष्टवशादत्राप्यारोपनियम इत्यर्थः।
पारलौकिकपथदर्शनानुपायत्वात् पाखण्डदर्शनानामाह-दर्श नप्रतिरूपकेविति । तेष्वेव वेदद्धेष्वेव ।।
ननु नित्यद्रव्याविषयको भ्रमः केवलान्वय्यत्यन्ताभावप्रति. योगिमात्रविपयको न वेति विमतिपत्तृभ्रमः प्रमाविषयाविषयकः भ्रमान्यज्ञानान्यत्वात् आकाशवत् । न चामयोजकत्वम् । तथाहि पुरोवर्तिनि रजते च न भ्रमत्वं तयोः सत्त्रात किन्त्वेतयो:शिष्टथे । तच्चासदेव । नेदं रजतमिति च कस्यापि न पुरोवर्तिरजते वाध्यते । अपि तुः तयोर्वैशिष्टयं वाध्यमतो भ्रमे तदुपस्थितिरेव युक्ता। न हि कारणत्वं विषयत्वम् । अतीतत्वादेरपि तत्त्वात् । किन्तु स्वकारणाधीनः स्वभावविशेषः । स चासत्यपि विरुध्यत इत्यत आह-इह विभ्रम इति। भ्रमत्वञ्च नासद्विषयत्वं किन्तु सद्विषयत्वेऽपि । विशेष्यात्तिप्रकारकत्वात् । किञ्चासदिति। नाभावः तत्मतियोगिवा प्रमासाधारणत्वात् । नाप्यत्यन्तासदखण्डम्।तगाने कारणाभावात् । इन्द्रियाणांसन्निकृष्टार्थबोधकत्वात् । तदभावे व्यायाधग्रहेऽनुमानाद्यपत्तेः । ननु सविषयकोऽयं भ्रमः ज्ञानान्यविषयको
Page #22
--------------------------------------------------------------------------
________________
१३८ : गुणनिरूपणम् न वोति विप्रतिपद्य भ्रमो ज्ञानान्याविषयको भ्रमान्यज्ञानान्यत्वात व्योमवत् । न चाप्रयोजकत्वम् । तथाहि । यद्यपि रजतादेर्शानाकारत्वं नानुभवाव्यवस्थाप्यम् । स हीदमनहङ्कारास्पदं रजतमादर्शयति न त्वई रजतमिति । तथापि नेदं रजतमिति बाधकप्रत्ययायनीते वाह्यस्य रजतत्वे ज्ञानस्यैवाकार इति निश्चीयते पारिशेष्यात् । आकारश्चाकारिणोऽभिन्नः भिन्नस्य विषयत्वेऽतिप्रसङ्गात् इत्यत आह-एव ज्ञानाकारेति । न च परिशेषः । नेदं रजतं न वा ज्ञानं रजतमिति वाधकस्याविशेषात् । यथा च ज्ञानभिन्नस्य विषयत्वं तथा च समानतन्त्र व्यवस्थापितम् । ननु विवादाध्यासितानि भ्रमविषयविषयकवाक्यानि वचनदषणाक्रान्तानि न वेति विप्रतिपद्य तानि तथा तद्विषयकवाक्यत्वाव संप्रतिपन्नवदित्यनिर्वचनीयख्यातिरेवास्त्वित्यत आइ विचारसहति । सद्विषयकत्वे बाधकादसद्विषयत्वे चामत्तेः सत्त्वासत्त्वाभ्यामनिर्वाच्यतैव विचारासहत्वम् । तथेति । इहापि प्रवृत्त्यनुपपत्ति षिकेत्यर्थः । अनिर्वचनीयत्वञ्च न तावनिरुक्ति विरहः । इदं रजतं नेदं रजतमित्यादिनिरुक्तेरनुभूयमानत्वात् । नापि सम्यनिरुक्तिविरहः । एतन्निरुक्तरेव सम्यक्त्तासम्यक्त्वयोर्विरोधादिति भावः ।
अस्तु तख्यिातिः । तथाहि । ज्ञानत्वं व्यधिकरणकागवच्छिन्नत्ति न वा, तत्मसिद्धिश्च भेदाग्रहप्रसज्जितायां रजतत्वप्रकारकशक्तीच्छायामिति विप्रतिपद्य ज्ञानत्वं न विशेष्यात्तिप्रकारकत्ति ज्ञानमात्रवृत्तित्वात प्रमात्ववत । न चेदमप्रयोजकम् । अन्यथाख्यातौ बाधकात् साधकाभावाच्च । तथाहि । प्रत्यक्षणेद
Page #23
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः मिति शुक्तियाते, दोपालस्य शक्ति न गाने । दोषान तदगनविशेषाग्रहान । नन्मात्रभ गृहीतं साश्यग्रहात पकारोबोधादमनस्मृनि जनयनि । मा च दोपयशान. दुष्टननांशा नन एव ज्ञानदयामती रजनार्थी प्रवर्तन इत्यवमुपपत्ता विशिष्टज्ञानोपनी मानाभावान । न चेयं शुक्तिस्तद्रजनर्णिन भेदाग्रह प्रवृत्तिः । स्वरूपतो विषयतश्च नयाभदाग्रहस्यापि प्रशन्नान । लायवाचयाप्पागेपनियमार्थ नस्यांग्यतयावश्यकत्वाच । न च रजते प्रति पनि विशिष्टतानस्य हेतुत्यादि शापि नसिद्धिः । प्रवृत्तिमात्रे भेदाग्रहे सतीष्टपुगवर्णिज्ञानस्य देतृत्वात् नायबान विशिष्टज्ञानस्य सतोऽपि गौरयेणायवर्तकत्यादित्यत आह-अन्यज्ञानादिति । अयमभिसन्धिः । रजनज्ञानस्य शक्तिविषयनां पिना न नदिपयकत्तिजनकत्वं मरवायत्ती लायवादुपस्थिनत्याच्च ज्ञानं स्वविपये प्रवर्गकमित्यनन्यथासिद्ध कारणताग्राहकमानेनावधृतत्मात् । सर्वेरेव प्रथमं गृहीतत्वेन तस्य बलवत्त्वादिनि । अतिमसङ्गं नियामकं शङ्कतेप्रवर्तकज्ञानति । अतिप्रसनस्थले भेदग्रहान्न प्रत्तिरित्यर्थः । ___ तर्हि निवर्नकस्याभेदाग्रहस्य सत्यान्नित्तिरपि स्यादिति युगपत प्रवृत्तिनित्ती स्यातामिति परिहरति-निवर्तकेति । अभेदग्रहो न प्रवर्तको येन तदभावान्नित्तिः स्यात् । किन्विष्टभेदाग्रहः सत्यरजतेऽपि प्रवर्तकः । इयांस्तु विशेषः । क्वचिदसत्वादेवेष्टमेदस्याग्रहः क्वचित् सतोऽपि भेदम्याग्रह इनि नानियतहेतुकत्वम् । न चेष्टस्थले इष्टभेदामसिद्धेन तदभावः। पुरोवर्तिनीष्टभिन्नत्वप्रकारकज्ञानविपयत्वाभावस्य प्रवनकवादित्याह-न क्य
Page #24
--------------------------------------------------------------------------
________________
१४०,
गुणनिरूपणम् ‘मिति। प्रवृत्तिस्थले प्रवर्तकेष्टभेदाग्रहवन्निवर्तकानिष्टभेदाग्रहस्य, सत्वानिवृत्तिरपि स्यादित्याह-अस्मन्नयः इति । यदि चानिष्टाभेदग्रहस्तदानिष्टः एवानिष्टभेदग्रहादन्यथाख्यातिः: स्यादित्याहअन्यथेति । अथानिष्टाभेदग्रहो निवर्तकः इति प्रवृत्तिस्थले तदभावान, निवृत्तिः तदा इष्टाभेदग्रहस्य प्रवर्तकस्याभावान प्रवतापीति शङ्कोत्तराभ्यामाह-तथापीति । न च स्वातन्त्र्योपस्थितानिष्टभेदाग्रहो निवर्तको न चानिष्टस्याभावविशेषणत्वोपस्थितेन तदभेदाग्रहो निवर्तक इति वाच्यम् । अभावविशेषणत्वेनोपस्थितेः प्राक् तत्रापि स्वातन्त्र्येणानिष्टोपस्थितः । यदि च भेदाग्रहात प्रवृत्तिस्तदा क्वचि. दपि विशिष्टज्ञानं न सिध्येत्तत एव सर्वव्यवहारसिद्धरित्याह-न च सर्वत्रेति।अधिकस्तु पल्लवोऽन्वीक्षातत्त्वबोधे तात्पर्यपरिशुद्धिप्रकाशे चास्माभिः कृत इति नेह प्रतायते ।।
विशेष इति । उपलब्धे धम्मिणि विशेषतोऽनुपलब्धकोटिकमित्यन्वयः। यद्यपि घटोऽयमिति निश्चयोऽप्युपलव्धे धम्मिणि . घटे भवति, विशेषतश्च नीलः पीत इत्यनुपलब्धकोटिकः। तथा'प्यनध्यवसायस्य सामान्यतो विरोध्युभयकोटिकत्वम् । घटोऽयमित्यत्र न तथा । अत एवायमिति । विरुद्ध नानाप्रकारकमेकधम्मिकं ज्ञानं संशयः । अनुल्लिखितनानाप्रकारकमेकधर्मिकं ज्ञानमध्यवसाय:।
यद्वा । सामान्यतो विरोधिनानाकोटिकं. ज्ञानमनध्यवसायः । ननु पनसः स्विदयमिति ज्ञानं न संशयः। विशेषतो विरोधिकोट्यनुल्लखात । नानध्यवसायः । अनुल्लिखितनानाप्रकारकावि
Page #25
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः
१४१
रोध्युल्लेखे हि सः । अत्र च पनसस्य तदन्यस्य च किञ्चित्वेन कोटयुल्लेखात् । ___ अत्राहुः । विशेषनोऽनुल्लिखितनानाकोटिकं ज्ञानमनध्यवसायः। अत्रापि विशेषतः कोटयुल्लेखो नास्ति । किञ्चित्वस्य सामान्यरूपत्वात । किंस्विदित्यत्रापि तथा, विशिष्टस्योभयत्रापि सत्त्वात् । तत्र निश्चयसंशयभिन्ने तादृशज्ञाने किं मानम् । उच्यते । न तावन्जिज्ञासा निर्णयजन्या । अनुच्छेद्यापत्तेः । नापि संशयजन्या । विशिष्टकोटिद्वयानुल्लेखे तदभावात् । ततः संशयभिन्नजिज्ञासाजनकं ज्ञानमपितव्यं तदेवानध्यवसायः।
व्यासङ्गशब्देनेति। कारणवाचकशब्दस्य तत्कार्ये लाक्षणिकस्वादित्यर्थः। तस्य प्रयोजनत्वमाह-घटेति।नन्वतद्विशेपनिश्चये सत्यपि भवतीत्यत आह-विशेषनिश्चयाभाव इति। मात्रशब्देनेति । मात्रशब्दस्य सामान्यवाचित्वादित्यर्थः । ननु सामान्येन रूपेण विशेषोऽपि निश्चीयत एवेत्यत आह-विनिश्चय इति। तर्हि निश्चयाभावो ज्ञानसामान्याभावेऽप्यस्तीत्यत आह-निश्चयनिषेधेनेति। एतदेव विशदयति-सामान्येन हीति । तनिध्यवसायः कुत्रत्यंत
आह-का पुनरिति । यद्यपीदं ज्ञानं न भ्रमस्तथाप्यनिश्चयमात्रेणाविद्यात्वम्-अनुमानविषयेऽपीतीति । ननु पनसवत् सास्नापि प्रत्यक्षैव प्राणिविशेषसम्बन्धित्वं पनसवंतू पदवाच्यत्वं चोभयत्राप्यप्रत्यक्षमेव । न । चेष्टमानावयवस्य यत्रांप्रत्यक्षत्वं तस्य विवक्षितत्वाद।
उपरतशब्दस्य विनष्टमर्थ निवारयति-स्वकार्यादिति । तंत्र हेतुमाह-प्रलीनेति । मनसः प्रलयाभावादाह-निरिन्द्रियेति ।
Page #26
--------------------------------------------------------------------------
________________
१४२
गुणनिरूपणम् इन्द्रियद्वारेणैवेति। यथेन्द्रियव्यापारजे ज्ञाने चक्षुरादिना जानामीति तथेन्द्रियव्यापाराभावेऽपि चक्षुषा पश्यामीति ज्ञानमित्यर्थः । इवशब्दार्थ सादृश्यमाह-पूर्वज्ञानेति । क्वचिदिन्द्रियद्वारेणैवेति पाठः । तत्र ह्यपरतेन्द्रियवर्गस्य स्वप्नः कथमिन्द्रियद्वारेणैवेत्यत आहपूर्वज्ञानेति । पूर्वज्ञानप्रत्यवेक्षकत्वमिन्द्रियद्वारकतानुव्यवसायः । तेनेन्द्रियद्वारेण यदनुभवनमित्यस्य व्याख्येयग्रन्थस्यायमर्थः। इन्द्रियद्वारेणैव योऽनुभवोऽनुव्यवसीयत इत्यध्याहारात । एतदेव स्पष्टयति-यत्रासत्यपीति।संविष्टः सप्तः-तथापीन्द्रियद्वारकतेति। यद्यप्येतावता स्वप्नानुव्यवसायस्यायथार्थत्वसिद्धौ शय्यायां संविष्टस्तिष्ठामीत्यनुव्यवसायात्मकस्वप्नस्य नायथार्थत्वं सिध्यति । तथापि स्वप्नत्वेन तत्रापि बाधितविषयत्वमनुमेयम् बुद्धिर्न साक्षात् प्रयत्नजननीत्यत आह-इच्छेति।वातादिजन्यशरीरस्पन्दव्यावर्तनार्थमाह-चेष्टेति । हृदयान्तर्मनःमाप्तिं विना मनो न हृदयान्तर्निश्चलं तिष्ठति प्राप्तिपूर्वकत्वादवस्थानस्येत्यर्थः । पूरयति-अन्तर्हृदयं प्राप्येति । ननु निश्चलत्वं स्पन्दशून्यत्वं तिष्ठत्यर्थोऽपि सएवेति पौनरुक्तयमित्यत आह-सहसैवेति। पूर्वग्रन्थेन सम्बद्धीकर्तुमुक्तंपुनः सहसैव न चलति । तदेतीति । अत्राप्यदृष्टकारितेति ।
ननु शरीरतदवयवक्रियैव प्रयत्नवदात्मसंयोगासमवायिकारणिका प्राणक्रिया तत्प्राणवहनाडयभिघातादेव । तत्र हि प्रयत्नवदात्मसंयोगासमवायिकारणत्वेऽपि प्राणत्रहनाडीक्रियायाः प्रयत्नचदात्मसंयोगोऽसमवायिकारणं वाच्यः तस्याश्चेष्टात्वात् । तथा च
Page #27
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः
१४३ तदभिघातादेव प्राणक्रियोपपत्ती तत्र प्रयत्नवदात्मसंयोगस्थाममवायिकारणत्वे प्रमाणाभावः ।
अत्राहः । प्राणक्रियायां प्रयत्नवदात्मसंयोगस्य नासमवायि. कारणत्वं किन्तु कारणत्वमात्रं तच्च परम्परया कारणत्वेऽप्युपपद्यते । एवञ्चात्मप्राणसंयोग इति व्याख्येयग्रन्थस्यायमर्थः । प्राणवहनाड्या सममात्मसंयोगः प्राणक्रियायां परम्पराकारणं नाडीमाणसंयोगोऽ. भिघाताख्यः प्राणक्रियायामसमवायिकारणमिति ।
एतेनेति। शयनं ज्ञानविशेषः । तत्पदार्थः निरिन्द्रयप्रदेशावस्थितमनःसंयोगासमवायिकारणकं ज्ञानमित्यर्थः ।
यद्वा । स्वप्नवहनाडीविशेपसंयुक्तमनोजन्यं ज्ञानमित्यर्थः । यानान्हिकानिति । आह्निकत्वेन दिनभवत्वेन यानर्थान् पश्यतीत्यर्थः । न च ते तथेति । न ते आह्निका इत्यर्थः ।
वाराणस्यामिति । वाराणस्यधिकरणकः पुरुषः पाटलिपुत्रे पश्यति, पाटलिपुत्राधिकरणोऽहम, एते च पाटलिपुत्रीयाः पदार्थाः वाराणसेया इति पश्यतीत्यर्थः । तेनातनग्रन्थसामञ्जस्यं भवति । अयमेवमाहेति । यद्यपि लिङ्गोदाहरणप्रस्तावे शब्दोदाहरणं न युक्तं तथापि वैशेषिकाणां शब्दस्यानुमानान्तर्भावात् तथोक्तम् । यद्यपि सर्वति।
धातुदोषस्य सकलस्वमकारणत्वं वैद्यकादवगन्तव्यम् । ननु स्वयमनुभूनेषु प्रसिद्धेष्वित्यत्र पौनरुक्त्यम् अनुभवपसिद्धिशब्दयोरेकार्थत्वादित्यत आह-स्वयमनुभूतेषु प्राप्तेष्विति । सम्बदेष्वित्यर्थः।
Page #28
--------------------------------------------------------------------------
________________
१४४
गुणनिरूपणम् भू प्राप्ताबित्यस्यानित्यण्यन्तत्वेन रूपम् । ननु संस्कारधआभ्यामित्ययुक्तम् एतज्जन्माननुभूतविषयत्वेन एतज्जन्मसंस्का. राभावात् । जन्मान्तरीयसंस्कारस्य च नियतविषये वालस्तनपानादावेव ज्ञानजनकत्वादन्यथातिप्रसङ्गादित्यत आह-यदि पूर्वेति । एवञ्च एतज्जन्मन्यननुभूतस्येत्यस्य एतज्जन्मन्यसाक्षात्कृतस्येत्यर्थः सम्पद्यते । एवमग्रेऽपि व्याख्येयम् । अत्यन्तार्थ व्या. चष्टे-आरोपतोऽपीति। ननु स्वप्नमात्रे संस्कारस्य कारणवादत्यन्ताप्रसिद्ध कथं स्वप्न इत्यत आह-संसर्गविषयश्चेति । संसृज्यमानस्य प्रत्येकमनुभवोऽस्त्येवेत्यर्थः ।
अत एवेति । संसर्गस्याननुभूतत्वेन स्मृतेरसम्भवात् । पटीयसी बहुतरविशेषावगाहिनीत्यर्थः । स्वप्नस्य प्रत्यक्षयाम्यनुभवामीत्यायनुभवादबाधकामावाच्चानुभवत्वमेवेति भावः।
सामान्यज्ञानं विना न विभागावतार इति सामान्यलक्षणं स्मारयति--यथार्थेति । चतुर्विधेत्यनेनैव विभागस्य दर्शितत्वात प्रत्यक्षेत्यादि पुनरुक्तमित्यत आह-किनामधेया इति । प्रत्यक्षादिविद्याया नेतरव्यावर्तकत्वमिति व्याचष्टे-लक्ष्यत इति । अक्षाणामप्रतीतानामेव प्रत्यायकत्वाद्वयाचष्टे-प्रतीत्य प्राप्येति । अर्थेन सहेन्द्रियमाप्त्या यज्ज्ञानं जायत इत्यर्थः ।।
नन्वेवमव्ययीभावसमासे नपुंसकलिङ्गत्वात प्रत्यक्षशब्दस्याभिधेयलिङ्गता न स्यादित्यत आह-तदेतदर्थकथनमिति । कथं तर्हि समास इत्यत आह-प्रतिगतमिति । तेन प्रादिसमासे प्राप्लापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधादभिधेयलिङ्गता सि.
Page #29
--------------------------------------------------------------------------
________________
१४५
किरणावली प्रकाशः ध्यतीत्यर्थः। अन्ये तु । अक्षं प्रतीति विग्रहे समाससूत्राभाव इत्यत आह-तदेतदिति । अक्षपदवत् प्रत्यक्षपदे बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्पजिति पच्प्रत्ययान्तस्याक्षिशब्दस्य प्रयोगस्तथा च वासनादिप्रत्यक्षाव्याप्तिरिति शङ्का निराकर्तुमाह-अक्षशब्दस्येति। . पडित्यस्य तात्पर्यमाह-न त्विति । सांख्यानां कर्मेन्द्रियैः पञ्चभिः सममेकादशेन्द्रियाणि बौद्धानां मनोऽनङ्गीकाराव पञ्चैव तानि, तन्निरासायं षटकीर्तनमित्यर्थः । तत्रेन्द्रियलक्षणं सांख्यानां दुपयतिउत्कटोति । यत्तु लक्षणमिन्द्रियाणां तन्न पारबादावित्यत आहशरीरसंयुक्तमिति । एतच्च यद्यपि घटादौ शरीरे चातिव्याप्त, शरीरसंयुक्तत्वस्य शरीरत्तिसंयोगाश्रयत्वस्य शरीरे सत्त्वात् । तथापि शब्दव्यतिरिक्तोदभूतविशेषगुणशून्याकाशसंयुक्तमिन्द्रियलक्षणम् । तदेतदिति । प्रतिगतमक्षमित्यादि । स्मृतीति। स्मृतिरपिमनोलक्षणमिन्द्रियं प्रतिगता,संशयोऽपि चक्षुरादिकं प्रतिगतस्तज्जन्यत्वात् । आदिशब्देनात्मानुमित्यात्मस्मृतीनामप्यात्ममनोलक्षणेन्द्रियार्थसंनिकर्षजत्वात्मत्यक्षत्वप्रसङ्ग इत्यर्थः । ईश्वरप्रत्यक्षाव्याप्तिश्चेत्यपि द्रष्टव्यम् ।
न च साक्षात्कारित्वे जातो मानाभावः । चाक्षुषादिबुद्धौ साक्षात्करोमीत्यनुगतप्रत्ययात् । नापि व्यञ्जकाभावः । गोलकजस्वादेरेव तत्त्वात् । योगीश्वरबुद्धौ च धर्मिग्राहकं मानमेव तद्वयअकम् । गोत्वादाविव व्याकेऽननुगमस्यादोषत्वात् । प्रत्युत व्याकस्यानुगमे तत एवानुगतबुद्धथुपपत्तौ जातौ मानाभावः । यत्त्वग्रे एतदस्मदादीनां संयोगिनां त्वित्यादि वक्ष्यति तज्ज
Page #30
--------------------------------------------------------------------------
________________
१४६
. गुणनिरूपणम् न्यमस्मदादीनां योगिनां प्रत्यक्षमभिप्रेत्य। .
ननु प्रतिगतमक्षमिति केन सम्बन्धेन साक्षात्त्वस्य लक्षणत्वमित्यनुपपत्तावेकप्रकरणाम्नातत्वमेव सम्बन्धोऽस्तीत्याह-तत्र बु
यधिकारेणेति । महतीत्यत्र महत्त्वं नोपलक्षणं किन्तु विशेषणमित्यभिप्रेत्याह-तेनेति । ननु बहिरिन्द्रियजद्रव्यप्रत्यक्षं प्रति महवोदभूतरूपवत्तयोः स्वरूपयोग्यतावच्छेदकत्वात् दण्डत्ववन्न सहकारित्वमित्यत आह-अकारणत्व इति । वस्तुतस्तादृशयोरपि विषयतया सहकारित्वादननुगतत्वेनावच्छेदकत्वादुभयरूपत्वेऽपि न विरोध इति भावः । तथापि यत्र तदुत्कर्षानुविधानं तत्र कारणत्वेऽपि बहिरिन्द्रियजद्रव्यसाक्षात्कारमात्रे तस्य कारणत्वे किं मानम् । ____ अत्राहुः । यद्विशेषो यद्विशेषप्रयोजकस्तत्सामान्यमसति बाधके तत्सामान्ये प्रयोजकमिति व्याप्तेः अनेकद्रव्यवत्त्वस्य तत्त्वे मानमाह-न च परिमाणेति । तथा च परस्पराविनाभूतयोः द्वयोरप्यन्वयव्यतिरेकाभ्यां तुल्यत्वादुभयमपि कारणमित्यर्थः ।
वस्तुतो महत्त्वमेव कारणं लाघवात् । अनेकद्रव्यवत्त्वात् कार्य विनापि तूलकादौ प्रचयस्योत्कृष्टमहत्त्वात प्रत्यक्षोत्कर्षदर्शनाच । दूरस्थकेशादौ राशीभूते द्रव्यान्तरानुत्पादेन महत्त्वाभावेऽप्येककेशस्य सजातीयसंयोगेनानेकद्रव्यवत्वं तद्धेतुरिति चेत् । न । समवायेन तस्य प्रयोजकतया संयोगेनातत्त्वात् । दूरस्थग्रहे तस्य सजातीयसंयोगः सहकारीति चेत् । न । महत्त्व एव तथास्तु क्लुप्त‘त्वाद्विपयस्थं च रूपमुद्भूतं सहकारीत्याह-रूपं चोद्भुतस्वभाव मिति । उदभूनत्वं च रूपवृत्तिर्जातिविशेषः ।
Page #31
--------------------------------------------------------------------------
________________
. किरणावली प्रकाशः १४७ न च तत्र मानाभावः । इन्द्रियालोकादिप्रत्यासन्नस्यावयविनो वायूपनीतस्य सुरभिद्रव्यस्याप्रत्यक्षत्वेन तिमिरस्थघटवत् साक्षात्कारकारणकिञ्चित्समवधानशून्यत्वानुमानात् । तच्च लाघवाव सामान्यरूपं न द्रव्यत्ति । ऊष्मप्रभयोः स्पर्शरूपग्रहे रूपस्पर्शग्रहापत्ते तदेकार्थसमवायाविशेषात् । रूपस्पर्शयोश्च तद्भेदः । एकस्य ग्रहेsप्यन्यस्याग्रहात् । ___ न च रूपत्वादिना जातिसंकरः । तारत्वादिवन्नानात्वात् । रूपादिप्रत्यक्षतायामेकैकोद्भवत्वस्यैव तन्त्रत्वात् । आलोक इति । . एतच्चाक्षुषप्रत्यक्षमाने द्रष्टव्यम् । अन्धकारेऽपि त्वचा द्रव्यग्रहात् । सारूप्यज्ञानं भ्रमोऽपीति व्याचष्टे-अविपरीतस्येति । अनारोपितस्येत्यर्थः । निर्विकल्पकं प्रत्यक्षमिति । ननु तत्र प्रत्यक्ष न मानमसिद्धरनभ्युपगमाच्च न व्यवहारः । तस्य सविकल्पकजन्यत्वात् । अथ गौरिति प्रत्यक्ष विशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वादनुमितिवत् । न च परोक्षत्वमुपाधिः । प्रत्यभिज्ञाने साध्याव्यापकत्वात् । नापि विशिष्टविशेषणकत्वम् । पक्षेतरत्वात् । न च प्रतिबन्धासिद्धिः । साध्यादीनां विशेषणतया विशिष्टधीमात्रे विशेषणज्ञानमात्रस्य हेतुत्वात् । न । स्मृतिवत् प्रागनुभवस्य संस्कारद्वारा जनकत्वात् । न चाव्यवहितविशेषणधीजन्यत्वं साध्यम् । प्रत्यभिज्ञाने व्यभिचारात् ।
अथ जागराधविशिष्टज्ञाने संस्कारोबोधकमन्यत्र दृष्ट ज्ञानमेव कल्प्यते । न च तद्विशिष्टज्ञानमेव । तत्रापि विशेषणज्ञानापेक्षायामनवस्थानात् । न संस्कारोबोधत्वेन नियतो हेतुरिति ।
Page #32
--------------------------------------------------------------------------
________________
१४८ . गुणनिरूपणम् . . 'जागराहेतोरेव तथात्वकल्पनात् ।
मैवम्। प्राथमिकगौरितिप्रत्यक्षस्य जन्यविशिष्टज्ञानत्वात् विशेषणज्ञानजन्यत्वानुमानात् । तज्जन्मनि गोत्वाननुभवेन संस्काराभावात् प्राम्भवीयसंस्कारोद्धोधको गोत्वेन्द्रियसंनिकर्षः कल्प्यते । आधप्रवृत्तिवत् सबलादिवदिति चेत् । तर्हि ततो गोत्वानुभव एव स्यात् । अन्यत्र तस्य हेतुत्वकल्पनात् । पूर्वं च विशेषणज्ञानाभावादात्तन्निविकल्पकम् । तत्रापि ज्ञानत्वात्तद्विशिष्टज्ञानत्वानुमितिः स्यादिति चेत् । न । कारणबाधेन बाधादनवस्थानाच्च । विशिष्टज्ञानत्वादित्यत्र व्यावर्त्यस्याविशिष्टज्ञानस्याप्रसिद्धिः। ज्ञानत्वं च स्वतोऽसिद्धव्याप्तिकामति चेत् । न । येन विशेषणेन विना व्याप्तिर्ग्रहीतुं न शक्यते तद्विशिष्ट एव व्याप्तेः । व्यभिचारवारकावशेषणस्यापि -सार्थकत्वे तस्यैव तन्त्रत्वात् । अत्रापि विशेषणं विनाऽनवस्थानावाप्तेरग्रहात् । . विशेष्यज्ञानमिति । विशिष्टज्ञानमित्यर्थः । सहकारिविशेषमिति विशेषणज्ञानं विशिष्टज्ञाने इन्द्रियार्थयोः सहकारीत्यर्थः । तुच्छत्वादिति । व्यावृत्तिमनोऽन्याया इत्यर्थः । अत एवेति । वस्तुविषयत्वादेवं न निर्विकल्पकोपाधिकं साक्षात्वमित्यर्थः । देशकालेति । आकारः स्वरूपम् । तेनाग्रे स्वरूपविपर्यासनिपेधः संगच्छते । कुञ्चिका कपाटोद्घाटको लोहविकारविशेषः । तस्य विवरं तस्य कपाटमध्यमुषिरमित्यर्थः। . अस्थिरस्य. स्थिरत्वेनेत्यादौ यथासंख्यं क्षणभङ्गस्य भङ्गादित्यादि योजनीयम् । विभ्रमादन्यत्रेति । इन्द्रियाणां
Page #33
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः
१:४९
विषयप्रतिनियमो हि प्रमामात्रे व्यवस्थितिः । अत एव मनसो वहिःस्त्रमजनकत्वं स्मृतिजनकत्वं चेत्यर्थः । कर्मत्वमैन्द्रियकटत्ति न वेति विप्रतिपत्तावाह - कर्म प्रत्यक्षमिति । यदि कर्म न प्रत्यक्षं तदा कथं तत् प्रत्येतव्यमित्यत्राह-संयोगविभागपरम्परैवेति । तथा च तत्रैवेन्द्रियव्यापार उपक्षीण इत्यर्थः । युक्तं चैतत् । न हि संयोगविभागावजानन् कर्म प्रत्येति । रथस्य देशान्तरप्राप्तिं प्रतिसंदधानस्य रथिनो रथो मे गच्छतीति प्रतीतेः । सारथेस्तु देशान्तरमाध्यमत्याकलने स्थिरत्वेनैव प्रतीतेः । न च चलतीति प्रत्यक्षात् कर्मविषयेत्याह । यः पुनरिति । न च तस्यानुमितित्वमसिद्धम् । कर्मप्रत्यक्षत्वेऽपि पूर्वदेशविभागोत्तरदेश संयोगाभ्यां तद्र्यञ्जनीयम् । अत एव संयोगविभागौ न प्रत्यक्षी । तत्र कर्मापि न प्रत्यक्ष भूकम्पादौ । तथा चोत्तरदेश संयोगे सति कर्म नष्टमेव प्रत्यक्षं च वर्तमानविषयम् । किञ्च संयोगोऽपि ज्ञातो व्यञ्जकः, संयोगे चोत्पन्ने तत्साक्षात्कारः, तदनन्तरं च कर्मसाक्षात्कारदशायामव्यवहितमाक्कालीनमपि कर्म नास्ति | संयोगसाक्षात्कारकाल एव कर्मणो नष्टत्वात् कर्म कथं प्रत्यक्षमिति भावः ।
1
O
व्यभिचारादिति । सुखादिनेत्यर्थः । समनन्तरसंयोगव्यवहितत्वादिति । उत्तरदेश संयोगनिवर्तनीयत्वादित्यर्थः । व्यभिचारादिति । विभागेत्यनुषज्ञ्जनीयम् । उत्तरदेश संयोगव्यड्यं न कर्म किन्तु पूर्वदेशविभागव्यङ्ग्यमिति नोक्तदूषणावकाशः । विभाग साक्षात्कारस्तदुत्पत्त्यव्यवहितोत्तरक्षणे ः तत्काले च कर्मणः सत्वादिति भावः । परमाणुमात्रविवरवृत्तित्वादिति को-
:
Page #34
--------------------------------------------------------------------------
________________
१५०
___ . गुणनिरूपणम् ऽर्थः । किं परमाणुमात्रमेव विवरमवकाशो येषां जलस्यन्दानुमितसूक्ष्मावकाशानाम् अथवा परमाण्वाश्रयाणामित्यर्थः । आये तत एव विभागेन व्यभिचारादेव । द्वितीयेऽसिद्धेश्चेति । संयोगविभागयोरपीति । एकस्यामपि कर्मव्यक्तौ संयोगविभागयोरुत्पन्नयोः संयोगविभागप्रत्ययः कुतो न भवतीति तुल्यमित्यर्थः। .
आश्रयामहत्त्वमेवेति । ननु कालादिगुणेषु साध्याव्यापकमेतत् । न च कार्यमहत्त्वानधिकरणत्वं तदर्थः । गुरुत्वादौ साध्याच्यापकत्वात् । न च वाधोनीतस्य पक्षेतरत्वस्य विवक्षितत्वात् गतिरनुमीयत इत्यस्यानन्तरम् अनुमाय चलतीति शेषः । एवं तर्हि यथादित्यस्य देशान्तरप्राप्यनुमानेऽपि न चलनीति धीस्तथा चैत्रेऽपि न स्यादित्यत आह-आदित्यादाविवति । न तीति । तत्रापि देशान्तरस्थाकाशादेरतीन्द्रियतया तत्माप्तेरज्ञाने तया गत्यननुमानात खद्योतश्चलतीति धीन स्यादित्यर्थः। तस्य भागैरिति। खद्योतालोकभागैरित्यर्थः । एवं तर्हि सूर्यालोकसंयोगविभागाभ्यां गतिमनुमायादित्यश्चलतीत्यपि धीः स्यादित्याह-. गभस्तिमालिन इति । अव्यापकेनापीति । खद्योततदालोकयोर्युगपत्सञ्चारितया नुद्यनोदकयोरिवाव्यापकेनापि खद्योतालोकेनापि खद्योतसंयोगविभागौन प्रतीयेते इति । तत्रापि चलतीति प्रतीतिर्न स्यादित्यर्थः । किञ्च खद्योतवत् खद्योतालोकोऽपि गच्छतीति प्रतीतिरस्ति। न च खद्योतालोकस्य स्वावयवेन संयोगविभागौ स्त इत्याहअवयवावयक्तियति। अपि च कर्मानुमितौन संयोगमात्रं विभागमात्रं वा लिङ्गम् । तस्य श्येनवत स्थाणावपि सत्वात् ! नापि
Page #35
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः १५१ मिलितादुत्प्रेक्ष्य निपतिते श्येने स्थाणौ चलतीति प्रतीत्यापत्तेः । तवापि संयोगविभागयोगत्यनुमानलिङ्गयोः स्थाणौ. दर्शनाद्गत्यनुमानं स्यादिति चेत् । न । मम योग्यस्य कर्मणोऽनुपलम्भेनाभावनिश्चयेन बाधितविषयत्वात् । न तर्हि सूर्ये ताभ्यां गत्यनुमानम् स्थाणुनानैकान्तिकमिति चेत् । न । यो विभक्तः संयोगव्यभिचारी -स कर्मवानिति व्याप्तिः। स्थाणुस्तु नैवम् । किञ्च । कर्मातीन्द्रियत्वेन कर्महेतोरेव संयोगविभागौ कृतं कर्मणा । चलतीति धीरपि तत एव भविष्यतीति भावः आत्मसमवेतानामिति । परबुद्धेः परं प्रत्ययोग्यत्वादित्यर्थः।
माभाकरः स्वप्रकाशपक्षसाधकमाह-बुद्धिः स्वव्यवहार इति । तत्र वर्तमानज्ञानव्यवहारो व्यवहर्तव्यभिन्नज्ञानसाध्यो न वा, उभयसिद्धप्रत्यक्षविषयो ज्ञानं मानसप्रत्यक्षविषयो न वेति संशयः ।
__ अत्र सपक्षाभावानासाधारण्यम् । युक्तं चैतत् । वर्तमानज्ञानं स्वयमेव व्यवहारं करोति । स्वस्मिन सत्येव स्वव्यवहारात । न ज्ञानान्तरमपेक्षते । तदन्वयव्यतिरेकानुविधानाभावात् । ज्ञानान्तराभावदशायां स्वविरहादेव स्वव्यवहारविरहात् । स्वत एव व्यवहारोपपत्तौ ज्ञानान्तराकल्पनाच । इच्छादिकं तुनतथा। व्यवहारस्य ज्ञानजन्यत्वनियमेन इच्छादिव्यवहारे ज्ञानापेक्षणात् । अथ ज्ञानमात्रं न व्यवहारहेतुरतिप्रसङ्गाव, किन्तु व्यवहर्तव्यविषयपिति ज्ञानव्यवहारोऽपि तद्विषयकज्ञानाभवेदिति चेत् । न । स्वस्यैव स्वविषयवाद । यध्यवहारानुकूलशक्तियोगि यज्ज्ञातं तस्य तद्विषयत्वात । न च व्यवहारस्य स्वाभिन्नज्ञानसाध्यत्वम् । गौरवादिति भावः ।
Page #36
--------------------------------------------------------------------------
________________
१५२
गुणनिरूपणम् . परेणेति । परवेदनेत्युपलक्षणम् । स्वीयमप्यतीतमनागतं च स्वव्यवहार ज्ञानान्तरमपेक्षते । व्यवहारकाले तेषामभावात् । ज्ञानान्तरान्वयव्यतिरेकानुभवाच्च । अथ स्वकीयं वेदनं वर्तमानं पक्षोऽतो न वाधक इत्यत आह-तत्परिहरिणति । विपक्षगामितयेति। स्वकीयातीतानागतज्ञानपरकीयज्ञानागतत्वावेंदनत्वस्येत्यर्थः ।
एतेनेति । बाधेन विरुद्धत्वेन वेत्यर्थः । ज्ञानं च न स्वविषयं स्वजनकेन्द्रियप्रत्यासत्त्यनाश्रयत्वात् । विषयत्वनियामकेन्द्रियसन्निकर्षाभावे तु विषयत्वानुपपत्तेः । मनःसंनिकर्षाश्रयत्वे च मानसत्त्वं युक्तम् । विवादपदम् इन्द्रियजन्यं ज्ञानं नैतज्ज्ञानविषयः एतज्जनकेन्द्रियपूत्यासत्यनाश्रयत्वात् असंनिकृष्टत्ववतः। चाक्षुषं ज्ञानं न चक्षुर्जन्यज्ञानविषयः चक्षुरसंनिकृष्टत्वात् व्यवहितघटवत । ननु परपूकाशकज्ञानमेव न सिध्येत् इन्द्रियसंनिकर्षादेः सर्वदा सत्त्वेन ज्ञानधारायामनवस्थानात विषयान्तरसञ्चारश्च न स्यादित्यत आहअनवस्थाप्रसङ्गस्त्विति। ननु संयुक्तसमवायेन मनोवेधत्वादपेक्षणीयान्तराभावाच्च कुतो वित्तिनावश्यवेद्या। मुखादितज्ज्ञानादिसामग्रीप्रतिबन्धात् । विषयान्तरसंचारदर्शनेन तस्या वलवत्त्वात् । अनुभवात् किञ्चिज्ज्ञानमयोग्यमित्यन्ये । अथ : यथा तद्गुणसंविज्ञानसिद्धं कूटादिपदमशक्यमपि कूटं गुणमादायैव पूधानमन्यपदार्थ बोधयति तथा ज्ञानमविषयमात्मानमादाय स्वविषयव्यवहारं करोति संस्कारं च । स्वजन्यव्यवहारविषये ज्ञानस्य संस्कारजनकत्वात् स्वजन्यव्यवहारविषयश्चात्माविषयश्चेति । न । अन्यत्र लाघवेन ज्ञानस्य स्वविषयव्यवहारसंस्काराजनकत्वात् व्यवहारसंस्कारयोः
Page #37
--------------------------------------------------------------------------
________________
किरणावली प्रकाश
१५३
स्वविषयज्ञानसाध्यत्वेन स्वविषयकज्ञानासाध्यत्वात् । सजातीयत्वानपेक्षत्वे साध्ये यदि प्रकाशकत्वं ज्ञानत्वमेव हेतुस्तीसाधारण्यम् । अथालोकज्ञानसाधारणत्वं प्रकाशत्वं तहसिद्धिरित्याह:-प्रकाशकत्वादिति । बुद्धेः प्राकट्यानुमेयत्वं दूषयति--कार्यालङ्गेति । नन्वपेक्षावुद्धिभिन्ना घटबुद्धिर्घनिष्ठधर्मचरमकारणं घटवुद्धित्वात अपेक्षाबुद्धिवत् । न च भट्टरपेक्षावुद्धद्वित्वाभिव्यञ्जकत्वाङ्गीकाराद्दृष्टान्तासिद्धिः । अस्माभिरपेक्षाबुद्धेदित्वादिजनकत्वेन तैश्च प्राकट्यजनकत्वेन व्यायगीकारात । एवं च घटविषयकबुद्धेः प्राकट्यजनकत्वे सिद्धे तदृष्टान्तेनापेक्षाबुद्धरात्मविषयकबुद्धेश्च प्राकटयजनकत्वमनुमेयम् । न । आद्यानुमानेऽपेक्षाबुद्धित्वस्योपाधित्वात् । ननु ज्ञातो घट इति विशिष्टमतीतेतिताख्यः संबन्धः सिध्येत् वर्तमानविषये वाधकाभावात् । न । अतीतानागतादेस्तदभावे ज्ञातव्यवहारानापत्तेः । तस्य ज्ञातताजन्यत्वात् । न च ज्ञानविषयावेव तद्धीविषयौ । वर्तमानेऽपि तथापत्तेः । प्रतीत्योविषयवैलक्षण्याननुभवात् ।
वस्तुतोजानामीति ।मानसानुव्यवसायगम्यं ज्ञानं प्रत्यक्षम् अन्यथा मुखादिप्रत्यक्षत्वे का समाश्वासः। क्षणिकात्मविशेषगुणत्वाच्च मुखवन्मानसप्रत्यक्षत्वमनुमेयम् । अन्यथा परमाण्वादिष्विति। ननु परमाणुवृत्तिः सत्तादिर्घादौ प्रतीयत एव परमाणुत्तितया च तद्ग्रहः परमाणोरतीन्द्रियत्वेन तदप्रतीत्येव न स्यात् । नः । परमाण्वघटितसंनिकर्षेण स्वयोग्यतामात्रात सत्तादिः, प्रतीयेते-.. त्यर्थाद ।
Page #38
--------------------------------------------------------------------------
________________
१५४ . गुणनिरूपणम् . अन्ये तु । आश्रयाग्रहणेन सत्ता गृह्यतेत्यर्थः । परमाणुष्वपी. ति तु सत्ताया इन्द्रियसंनिकर्षनिर्वाहार्थमित्याहुः। रूपत्वादाविति। रूपत्वादिसिद्धिश्चान्वीक्षातत्त्वबोधे न्यायनिबन्धकाशे चानिपुणतरमुपपादिता । शब्दत्वादीत्यादिशब्दात कत्वादिपरिग्रहः ।...
ननु संयुक्तंसमवायो न प्रत्यासात्तिः, आश्रयसंयोगादेव रूपादिग्रहोपपत्तेः, तथाश्रयाश्रयसंयोगाद्रूपत्वादिग्रहसंभवात् संयुक्तसमवेतसमवायोऽपि न प्रत्यासत्तिरित्याह-किमनेनेति । वयं हीति । यद्यपि शब्द इन्द्रियसमवेत एव गृह्यते न विन्द्रियसंवद्धसमवेतस्तथापि प्रायिकत्वेनाभिधानम् । वस्तुतो रूपसमवायिसंयोगे रूपसमवायस्य विशेषणत्वे हेतुत्वादुपलक्षणत्वे च संयुक्तद्रव्यमात्रस्योपलक्ष्यत्वे घटसंयोगात पटरूपग्रहापरिति भावः । ननूक्तरूपा पञ्चैव चेत्मत्यासत्तिम्त भावः कथं प्रत्यक्ष इत्यत आहअभावस्य त्विति । विशेषणता च द्विविधा । इन्द्रियविशेषणता इन्द्रियसंबद्धविशेषणता च । तत्राद्या शब्दाभावग्रहे अन्त्याऽभावग्रहे हेतुः। सा चेन्द्रियसंयुक्तविशेषणत्वादिभेदात् पञ्चविधा । ज्ञानसामान्यलक्षणे अपि प्रत्यासत्तीतत्रैवान्तर्भूते। योगजधर्मः प्रत्यासत्त्यन्तरम् । पोढा परिगणनं तु तदनन्यजन्यप्रत्यक्षाभिप्रायेण । तदव्युत्पादनं चास्माभिस्तत्रैव निपुणतरं कृतमिति नेह प्रतायते । अस्मदादीत्यत्रादिशब्दस्य प्रकारवाचित्वादेकं प्रकारमाह- अयोगिनामिति।न प्रत्यक्षकहेतुतेति । न प्रमारूपप्रत्यक्षकहेतुत्वेनेत्यर्थः। तस्य प्रमाणगृहीतार्थविषयत्वात् । तेषामिति । यथा कर्मणामांशुविनाशित्वाद कालान्तरीयफलानुकूलो धर्मः कल्प्यते । तथा योगानुष्ठानस्यापी
Page #39
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः १९५ त्ययः । स्वस्यात्मनि ततोऽन्यस्मिन्निति। नन्वात्मनि श्रवणमननश्रवणाचिन्तासन्ततेश्च. साक्षात्कारजननस्य. दृष्टत्वादात्मनि साक्षात्कारसंभवेऽप्याकाशगोचरश्चिन्तासन्तानेन साक्षात्कारो जन्यत इत्यत्र मानाभावः । तत्र श्रवणमनननिदिध्यासनाश्रवणात् ।। अथात्मसाक्षात्कारणात्मन्यनात्मभ्रमे निवृत्तेऽप्यनात्मन्यात्मभ्रमस्तावन्न निवर्तते, यावत्तत्र साक्षात्कारो न जायत इति चेत् । न । आत्मनि विशेषदर्शनेन यथात्मनि नानात्मारोपस्तथानात्मन्यात्मारोपो न संभवति । विशेषदर्शनाविशेषात् । अथात्मा चिन्त्यमान इतरभिन्नत्वेन चिन्तनीय इतीतरेष्वपि साक्षात्कारो जायते । न-। श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति सामानाधिकरण्यात् । यथा श्रवणं तथा मननं तथात्मा चिन्तनीयः । श्रवणादि चेतरभिन्नत्वेनेत्यत्र न मानम् । ____ अत्राहुः। श्रोतव्यः श्रुतिवाक्येभ्य इत्यसङ्कुचितस्वरसाद्यावदात्मगोचरश्रुतिवाक्येभ्य आत्मश्रवणे श्रुतौ चेतरभिन्नत्वेनात्मप्रत्यायनात्तथैव श्रवणमननादिकमपि तथोपस्थितामति । तथैव निदिध्यासनसाक्षात्कारोऽपीतरेष्वा ( का ? ) शादिषु वाच्यः। • यद्यपीति।तथा चास्मदादिप्रत्यक्षप्रस्तावे विषयतयात्मा किमिति नोक्त इत्यर्थः।चतुष्टयसंनिकर्षादित्यनेनेति । यदि चतुष्टयसंनिकर्षोऽत्र विवक्षितः स्यात्तदेन्द्रियसंनिकर्षाभावे. योगिनामात्मसाक्षाकारोन स्यादित्यर्थः । कस्य चिदिति योग्यानुपलम्भनिराकरणार्थम् । योगजस्यापि धर्मस्यति । ननु योगविषयकत्वेन योगजो धर्म आत्मसाक्षात्कारहेतुरस्तु परमाण्वादिसाक्षात्कारे कथं हेतुः ।
Page #40
--------------------------------------------------------------------------
________________
१५६ :. गुणनिरूपणम् . ___ अत्राहुः । शब्दानेव शृणोति योजनशतादिति योगजधर्म विशेषफलादन्यत्रापि.योगजधर्मस्य साक्षात्कारजनकत्वम् ।
स्वर्गादीनामिति। यद्यपि स्वर्गिणां स्वर्गः प्रत्यक्ष एव तथापि मर्त्यलोकस्थातीन्द्रियत्वमभिप्रेत्योक्तम् । जन्यसविकल्पकाजन्यजन्यसाक्षात्कारविषयत्वमत्र साध्यमतो नोपनीतसाक्षात्कारेण सिद्धसाधनम्। यद्यप्यनेन विमुक्तमात्रस्य सिद्धिर्न मुक्तस्य, मुक्तसाक्षात्कारस्य जन्यसविकल्पकजन्यत्वात् । तथाप्यागमात्तस्यापि सिद्धिः। . धर्मिग्राहकमानबाधमङ्गीकृत्याह-मीमांसका गुरव इति । उत्तरप्रबन्धोपयोगार्थमाह-नान्विति।स्वरूपालोचनमात्रमिति। मात्रपदाद्विशिष्टविषयकत्वव्यवच्छेदः । यदि प्रत्यक्षं फलमात्रं विवक्ष्येत तदा तस्य पूर्वमुक्तत्वाद पौनरुक्त्यं स्यादिति विशिनष्टिप्रत्यक्षं प्रमाणामिति । सामान्यविशेषज्ञानमपीति । निर्विकल्पकमपीत्यर्थः। . दूषणं निरस्यति-आलोक्यतेऽनेनेति । तत्र मात्रपदव्यवच्छेद्यं नास्तीत्यन्यथा व्याचष्टे-स एवेति । संनिकर्पोऽपि योगजः फलं भवत्येवेत्यत आह-प्रमारूपमिति। . ननु कार्यस्य कारणसाध्यत्वे कारणस्यापि कार्यतया कार• णान्तरसाध्यत्वेऽनवस्था स्यादित्यत आह-न चैवमनवस्थेति । संशयविपर्ययरहितमिति। यद्यपि संशयविपर्ययात्यन्ताभाववाद्विशिष्टज्ञानमपि भवति तथापि संशयविपर्ययभिन्नमित्यर्थः । तथापि सत्यं विशिष्टज्ञानमपि तथा भवत्येवेत्यत आह-अव्यपदेश्यमिति। तस्य विवरणं शब्दाजन्यमिति । ननु व्यपदिश्यतेऽनेनेति
Page #41
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः १५७ व्यपदेशो नाम जात्यादि तत्कर्म व्यपदेश्यं तद्वन्न भवति तदव्यपदेश्यं वैशिष्टयानवगाहीत्यर्थः प्रतीयते । तथा च सविकल्पकं व्यवच्छिद्यतेत्यत आह-शव्दाजन्यमिति चेति । तद्व्यवच्छेदार्थमिति।
ननु व्युत्पन्नस्य शब्दश्रवणानन्तरं यद्गौरिति ज्ञानं तद्यदि शान्दं तदा नेन्द्रियार्थसंनिकर्पनम् । अथ तजन्यं तदा न शाब्दम् । उभयजन्यत्वे जातिसंकरापत्तिः । अत्राहुः । प्रत्यक्षोपस्थिते धर्मिणि यंत्र शब्दादितरधर्मवैशिष्टयं प्रतीयते तत्र परम्परेन्द्रियसनिकर्षस्य प्रयोजकत्वेन प्रत्यक्षत्वं मा भूदित्येवपरमर्थव्यपदेश्यमित्युक्तम् । यद्यपि तदिति तद्गुणदोषमाध्यस्थ्य, तस्य चेति तज्जातीयलिङ्गदर्शनस्य, तदिति प्रत्यक्षफलत्वामिति । - यद्यपीति । ननु बुद्धरत्र विभागः सा च फलमेव न तु करणं तत्कथं करणव्युत्पादनमत्र प्रसक्तम् । उच्यते । करणस्यापि बुद्धिरूपत्वसंभवात करणव्युत्पत्त्याऽनेन च बुद्धेर्युत्पादनमेवात्र । शब्दादीनामप्यनुमानेऽन्तर्भाव एतत्सुनिश्चितार्थमनुमानमित्यादि भाप्यदर्शनाद्भावव्युत्पत्तिमुपजीव्य करणव्युत्पत्तावपि तात्पर्य वा । लिङ्गजन्यं तत्प्रत्यक्षमपि संभवत्यत उक्तम्-अनुमितिरूपमिति। ननु लिङ्गदर्शनात्संजायमानमिति लक्षणं संस्कारेऽतिव्यापकमित्यत आह—बुद्धयधिकारादिति। संशयविपर्ययेति । ननु लिङ्गदर्शनस्य परामर्शस्यानुमितिचरमकारणत्वान्न ततः संशयः । न च सत्प्रतिपक्षस्थलेऽनुमित्यनुत्पादनात . ततः संशयः । तंत्रापि संशयस्य साधारणधर्मदर्शनजतया लिङ्गदर्शनादनुत्पत्तेः ।
Page #42
--------------------------------------------------------------------------
________________
१५०
गुणनिरूपणम् . मैवम् । लिङ्गदर्शनविषयस्य साक्षात्कारिणः संशयस्य लिङ्गदर्शन: जतया तस्य व्यवच्छेद्यत्वाव। . . ..ननु स्मृतियथार्था नासम्यगर्थेत्यत आह—स्मृतिरपीति । रज्जु सर्पतयानुभूय पलायितस्य तथैव स्मृतेरित्यर्थः। अत्र व्याप्तस्य. पक्षधर्मतावैशिष्टयं लिङ्गत्वं, तद्विषयं ज्ञानं तृतीयलिङ्गपरामर्शः, तज्जन्योऽसाक्षात्कार्यनुभवोऽनुमितिः । अनुमिनोमीत्यनुगतानुव्यवसायाद्वानुमितित्वं जातिः । .. ननु संजायमानमिति वर्तमानतानिर्देशाद्वर्तमानज्ञानस्यानुमानता नत्वतीतस्यानागतस्य वेत्यत आह-वर्तमानापदेशस्येति। निरुपाधीति । अत्र पक्षधर्मत्वे सतीति द्रष्टव्यम् । इतिकर्तव्य तेति । इतिकर्तव्यता व्यापारः तद्वत एव करणत्वात् । .... ..एतेनेति । प्रमाणं त्वत्र धूमवानयमग्निमानित्यनुमिति: ज्ञायमानविशेषणजन्या विशेषणसमानकालाशाब्दविशिष्टज्ञानत्वात दण्डी पुरुष इति प्रत्यक्षवत् । युक्तं चैतत् । लिङ्गज्ञानस्य प्रमात्वं विद्यमानलिङ्गविषयकत्वमतः परामृश्यमानस्यैव लिङ्गत्वम् । यत्र चातीतानागतयोलिङ्गत्वं तत्र यद्यपि कारणविशेषो लिङ्गं न सम्भवति । तथापि धूमप्रागभावध्वंसावेव तत्र लिने तयोरपि धूमवद्वह्निव्याप्यखाद। यच्छब्दसापेक्षत्वादिति। यच्छन्दस्योद्देश्याभिधायित्वात् तच्छब्दस्य विषयाभिधायित्वादुद्देश्यविधेययोश्च मिथः साकाङ्क्षवादित्यर्थः । ननूद्देश्यविधेययोस्तथात्वेऽपि तद्वाचकपदयोः कथमाकाङ्क्षा, आकाङ्क्षायामपि तद्वाचकपदार्थमात्राकाङ्क्षास्तु, नियमेन तत्पदाकाङ्क्षा कथम् । उच्यते । तयोरेकस्मिन शब्दादु:
Page #43
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः
१५९ पस्थितेऽपरस्यापि पदादेवोपस्थितिरन्वयवोधाङ्गमित्यन्यत्र व्यव स्थापितमिति पदजन्य पदार्थोपस्थितयोरुद्देश्य विधेययोः साकाङ्क्ष -: त्वमिति तदुपस्थापकयोरपि साकाङ्क्षत्वम् । तत्रापि व्युत्पत्ति - " सिद्धोऽयमर्थो यद्यत्पदार्थोपस्थितमेवोद्देश्यमादाय तत्पदार्थस्य विधेयस्यान्वयः । एवं यत्पदार्थस्यापि तत्पदोपस्थापितमादायेति । पक्षधर्मतेति । सिषाधयिपाविरह सहकृत साध कममाणाभाववान् धर्मी पक्षः । व्यापकतावच्छेदकप्रकारानुमितिप्रतियोगिकविषयताश्रयः पक्ष इत्यन्ये । एवं च सतीति । यद्यपि पक्षैकदेशवृत्तिरपि पक्षवृत्तिर्भवत्येवेति न ततो भागासिद्धिनिरासस्तथापि बद्धमित्यनेन सम्बन्धमात्रलाभे संशब्देन सम्यक्त्वं पक्षव्यापकत्वं लभ्यते । ननु सिद्धमित्यत एव सपक्षवृत्तित्वे प्रशब्दात् प्रकर्षवाचिनः सपक्षव्याप -- कतारूपः प्रकर्षोऽत्रगम्यते, तथा च पक्षैकदेशदृत्तिर्हेतुर्न स्यादित्यत आह-चशब्द इति ।
सपक्षेति । निश्चितसाध्यवान् सपक्ष इत्यर्थः । तच्छब्देनानुमेयधर्मपरामर्शेऽनन्वयादाह - तच्छब्देनेति । ननु विशेषसंज्ञायाः किं फलमित्यत आह-- एतेनेति । उक्तलक्षणहीनत्वं वाधितसत्म-' तिपक्षित योरप्यस्तीति तयोरपि लिङ्गत्वं स्यादिति विशिनष्टि-कालात्ययेति ।
ननु यत्र द्वितयत्रितयलिङ्गलक्षणव्यतिरेकस्तत्राप्येकल - क्षणव्यतिरेक आवश्यक इति तावन्मात्रमेव लिङ्गाभासलक्षणमस्तु कृतं द्वितीयादिव्यतिरेकोद्भावनेनेत्यत आह— एतेनैतदुक्तमिति । सिद्धे हेतुस्वरूप इति । ननु सिद्धत्वं व्याप्तस्य पक्षधर्मत्वं तद्वय -"
Page #44
--------------------------------------------------------------------------
________________
. गुणनिरूपणम् । तिरेकश्चासिद्धत्वं तथा सिद्धे हेतुस्वरूपे विरुद्धादिदोषाणामवकाश इति व्याहतम् , न हि. व्याप्तस्य पक्षधर्मत्वे विरुद्धादिसंभवः । मैवम् । असिद्धिरनुमितिकारणाभावरूपतया साक्षाषणं विरुद्धादयस्त्वसिद्ध्युपजीवकत्वेन । परम्परादृषणानामुपजीव्यत्वात समानतन्त्रे प्रथममसिद्धिद्भावितेत्याशयः । स्फुटप्रतिभास मिति । उभयवादिसंप्रतिपन्नमित्यर्थः ।
बलवदिति । उपजीव्यमित्यर्थः । ननु संदिग्ध इत्यत्र संदिग्धपदं नानैकान्तिकवाचकमित्यपदार्थव्याख्यानामत्यत आह । संदिग्ध इति । यद्वस्तु यत्काले यत्कोटिकत्वेन संदिग्धं भवति न तत्काले तद्वस्तु तत्कोटावनैकान्तिकत्वेन निश्चिनोतीति संदिग्धपदं लक्षणयानैकान्तिकं ब्रूत इत्यर्थः । लक्षणमुदाहरणेन स्फुटयितुमाह-स हि धर्मद्रयेत्यादिनापि विपक्षाव्यावृत्तिरित्यन्तेन । नन्वनैकान्तिकं द्वाभ्यामपि लिङ्गलक्षणाभ्यां हीनं भवति तत्किं नोदाहृतं यथा जलहृदो धूमवान् वह्निमत्त्वादित्यादि । इदं हि पक्षावृत्ति सपक्षविपक्षत्ति चेति । न । स्वरूपासिद्धयसंकीर्णानकान्तिकस्योदाहियमाणत्वात् । विरुद्धस्त्विति । यद्यपि विरुद्धस्त्रिभिरपि धमविपरीतो भवति, यथाऽनित्यः शब्दोऽकृतकत्वादिति । अयं हि पक्षसपक्षावृत्तिर्विपक्षवृत्तिश्चेति । तथाप्यसिद्धासंकीर्णो विरुद्धोत्रोदाहियत इति नोक्तः। .. द्वाभ्यां चेति । ननु चाप्रमेयस्याप्रसिद्धया कुत्रासिद्धिनिरूप्या । अत्राहुः । अप्रमेयत्वादित्यनेनात्तिराकाशादिहेतुत्वेन विवक्षितः। . . . . . .
Page #45
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः १६१ यद्यपि चेति । नन्वनुमेयः पक्षः कचिद्देशे काले च भवतीति देशकालनैयत्यमेवानुमाने. । अत्राहुः । सर्वत्रानुमाने तयोः स्वरूपसतोरेव प्रयोजकत्वं ज्ञायमानयोः क्वचित्तत्वमित्यभिप्रेत्योक्तम्तथापि क्वचिदिति । यत्र देशविशेषकालविशेषविशिष्ट एव पक्ष इत्यर्थः । एतचेति । क्वचिद्देशकालप्रयोजकत्वम् । भूयो भूय इति । ननु भूयोदर्शनगम्या व्याप्तिर्न तु व्याप्ते योदर्शनमनुमानोपयोगि । मैवम् । संवादेन यत्र व्याप्तिग्रहस्य प्रामाण्यं गृह्यते तदभिप्रायेणोक्तत्वात् । व्यातिरकदृष्टान्तस्यापीति । एतच्चानाप्रमाणत इत्यनुषङ्गालभ्यते। अन्यथेति। हेत्वाभासस्यापि काल्पनिकव्यतिरेकदृष्टान्तसंभवादित्यर्थः । इति व्युत्पत्त्यति सपक्षेऽप्रसिद्धोऽगृहीतव्याप्तिक इति व्युत्पत्त्येति योजनीयम् । किन्तु पक्षेऽसन्निति । न चैवं स्वरूपासिद्धस्यैव संग्रहे व्याप्यत्नासिद्धस्यासंग्रहः । तस्य पूर्वोक्तव्युत्पत्त्यैव लब्धत्वात । चकारादिति । न च चकारादेवान्यहेत्वाभाससंग्रहाव कृतमनपदेशपदात्त्यति वाच्यम् । आवृत्तेनानपदेशपदेन लक्ष्याभिधानाचकारेण च कालात्ययापदिष्टः प्रकरणसमयोर्लक्षणाभिधानात् । अप्रसिद्धपदेनेति । चकारेणेत्यथः। नन्वेवं हेत्वाभासलक्षणे तयोरुपग्रहेऽपि हेतुलक्षणपरसंग्रहश्लोके कथं तयोनिराकरणमित्यत आह-प्रसिद्ध चेति । तयोः कालात्ययापदिष्टपकरणसमयोरित्यर्थः। आपातत इति वाधसत्प्रतिपक्षानुपजीवने । व्याख्यान इति वाधसत्पतिपक्षोपजीवने ।
ननु सत्प्रतिपक्षे व्याप्यत्वासिद्धिरपक्षधर्मता च नावश्यकी, सदनुमानस्यापि कदाचित्सत्प्रतिपक्षत्वात् । .
Page #46
--------------------------------------------------------------------------
________________
१६२ गुणनिरूपणम् ....
. अत्राहुः । प्रसिद्धं च तदन्वित इत्यत्र प्रकर्षण सिद्धं प्रसिद्धमित्युच्यते । प्रकर्षश्चायमैव यदसत्सतिपक्षितत्वमवाधितत्वं च । सर्वमसिद्ध एवेति । सर्वत्र हेत्वाभासे. व्याप्तिपक्षधर्मताममित्यभावादित्यर्थः। " . . . . . . . . . . . ... : : अधिकस्यति । अबाधितस्य चासत्मतिपक्षितस्य चेत्यर्थः । न वाच्येति । नौदाहर्तव्येत्यर्थः । निराश्रयस्य हेतोरिति । ... . ननु वन्ही धूमो गमको न, गमकं च भमेयत्वमिति निराश्रयोऽपि हेतुरूपन्यस्यते . विधीयते प्रतिषिध्यते च । अथ पक्षता विना न हेतोर्गमकत्वं तर्हि . बाधकत्वादिज्ञानव्यतिरेकेणापि न हेतोर्गमकत्वमिति तुल्यम् । . . .
प्रबाहुः । बाधसत्प्रतिपक्षत्वज्ञानाभावमात्रमनुमितिहेतुर्न वाधितत्वादिज्ञानमपि । पर्वधर्मताज्ञानं च सर्वत्रानुमितौ हेतुरिति विमावयितुं पक्षधर्मतोदाहृतेति.। . . ... . .... - तत्रानुमेयेनेति । यद्यप्येतदन्वयव्यतिकिण्यतिव्यापकम् । तथाप्यनेनोपाधिनाऽन्वयव्यतिरेक्यप्यन्वय्येव । लक्षणं तु अत्यन्ताभावाप्रतियोग्यत्यन्ताभावाप्रतियोगित्वम् । एतावन्मात्रमनैकान्तिकेऽप्यस्तीति हेतुत्वेन विशेष्यम् । पदमेव चेति-अनुमेयेन सम्बदमित्येतावन्मात्रमेव चेत्यर्थः । एतदसाधारणानैकान्तिकेंऽप्यस्तीति हेतुत्वेन विशेष्यम् । लक्षणन्तु पक्षत्तित्वे विपक्षव्यात्तत्वे च सति असत्प्रतिपक्षत्वमेव । समस्तन्विति । प्रसिद्धं च तदन्विते तदभावे च नास्त्येवेति द्वयविशिष्टमित्यर्थः । यद्वा । उभयव्याप्तिरनेन साध्यसाधकत्वं तल्लक्षणम् । अवाधितसत्मतिपक्षितत्वश्व
Page #47
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः समानम्। अन्वयव्यतिरेकाविति! सहचारदर्शनं व्यभिचारादनिश्चेत्यर्थः। यद्यप्येतत् केवलव्यतिरेकिणि केवलान्यायिनि च न सम्भवति । तथाप्यन्वयव्यतिरेकिणि तत्सम्भव इति तदभिमायेणेतस्याभिधानम् । ननु न भूयोदर्शनगम्या व्याप्तिः। तथाहि न भूयामि दर्शनानि व्याप्तिग्राहकाणि । एकत्रैव धारावाहिकेन तद्ग्रहापनेः । नापि भूयःसु स्थानेषु दर्शनम् । एकाश्रयाधिनरूपरसयोस्तदभावात् । नापि भूयसां दर्शनं गोवद्रव्यत्वयोस्तदभावात । भूयो दर्शनेऽपि पार्थिवत्वलोहलेख्यत्वयोर्व्यभिचारे व्याप्त्यग्रहात । अनः पारिशेष्यात सकृद्दर्शनगम्यैव व्याप्तिः । उपाध्यभावस्य व्याप्तिस्वात् । तस्य च केवलाधिकरणरूपतया चक्षुरादिना प्रथमदर्शनगम्यत्वादित्यत आह-अन्ययव्यतिरेकाभ्यामिति । व्यापकान्वयव्यतिरेकप्रयुक्तव्याप्यान्वयव्यतिरेकाभ्यामित्यर्थः । नन्वेवं प्रथमदर्शन एव व्यासेनिश्चयादग्रे संशयानुपपत्तिरित्यत आहशङ्कामात्रन्त्विति । व्याप्तिज्ञानेऽपिकि सन्नप्युपाधिर्मयोपाधित्वेन न ज्ञातः किं वोपाधिरेवात्र नास्तीति संशयात्तदुपपत्तेः । न हाग्रिमसंशयानुरोधात् पूर्व व्याप्तिनिश्चयसामग्र्यामपि न तनिश्चय इति युज्यते । घटसामग्र्यामपि तथा कल्पनापत्तेः । न चैवं प्रथमदर्शनानन्तरमेवानुमितिः । उपाधिस्मरणसहकृतस्य योग्योपाध्यनुपलम्भस्यानुमितावुपाध्यभावव्यवहारे च कर्तव्ये व्याप्तिज्ञानसहकारित्लादिति भावः । नन्वेतावतापि सकदर्शनगम्यत्वं न च्यार्निरालागित्यत आइ-इदमत्रेति । यथा वह्निरिति । आन्धनमखगुपाधिमादाय वहिवूमेन संह.. व्याप्त इति तदभावेऽयं धूगनान घनिगरमा
Page #48
--------------------------------------------------------------------------
________________
१६४ . गुणनिरूपणम् दित्यत्र वहिर्न धूमस्य गमक इत्यर्थः । यथाहारेति। मनुष्यश्यामत्वे शाकपाकजत्वस्यैव गमकत्वं न तु तद्विशिष्टस्य मैत्रतनयत्वस्य व्यर्थविशेष्यत्वादित्यर्थः। .. . .. - ननु भूयांसि दर्शनानि. प्रत्येकं न गमयन्ति । सकृद्दर्शनगम्यत्वापत्तेः । नापि मिलितानि । आशुविनाशिनां क्रमभाविनां मेलकासंभवादित्यत आह-भूयोदर्शनं हीति । यथा प्रत्यभिज्ञायां संस्कारसहितमिन्द्रियं हेतुस्तथा तावद्दर्शनजन्यसंस्कारसहितमत्रापि तथेत्यर्थः। - तथाहीति । विशेषैरवान्तरजात्यादिभिर्मणिः पद्मरागादिव्यवहारविषयो धारकस्य शुभाशुभजनकश्चानुमीयत इत्यर्थः । अनौपाधिकत्वज्ञानस्य व्याप्तिज्ञानहेतुतया साध्यसहचरितानामनुपाधित्वनिश्चयस्य साध्याव्यापकत्वसाधनव्यापकत्वनिश्चयसाध्यत्वात्तस्य च भूयोदर्शनसांध्यत्वादित्याह-ततश्चेति । ननु भूयो दर्शनं त्रिचतुरादिरूपतयाऽननुगतं न हेतुरित्यत आह-न चात्रेति। __इदमत्राभिसंहितम् । उपाध्यभावो नानौपाधिकः । यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मशून्यत्वस्य धूमेऽप्यसत्वात् । व्यभिचारिण्यपि गतत्वाच्च । प्रकृतसाध्यव्यापकसाधनाव्यापधर्मशून्यत्वस्य च सिद्धयसिद्धिभ्यां व्याहतत्वात् । किन्तु यावत्स्वव्यभिचारिव्यभिचारिसामानाधिकरण्यम् । तच्च न सकृद्दर्शनगम्यम् । किन्तु वस्तुगत्या या व्याप्तिस्तज्ज्ञानं नानुमितिहेतुरतिप्रसङ्गात् । किन्तु व्याप्तित्वेन । तच्चोपाधेरेव ज्ञाने तथात्वेन ज्ञानं संभवति ।
Page #49
--------------------------------------------------------------------------
________________
किरणावली प्रकाशः विशेषणज्ञानं विना विशिष्टज्ञानानुत्पत्तेरिति । ननु तथाप्यनोपाधि-- कत्वं भूयोभिरपि दर्शनैतुिमशक्यम् । योग्यानामुपाधीनां योग्यानुपलब्ध्याऽभावनिश्चयेऽप्ययोग्यानामुपाधीनाममावस्य ग्रहीतुमशक्यत्वात् । अनुमानात्तद्ग्रहे तत्राप्यनौपाधिकत्वग्रहायानुमानान्तरापेक्षायामनवस्थानात् । तथा च भूयोदर्शनस्यापि संशायकत्वात्ततोऽपि न व्याप्तिग्रहः । इह समव्याप्तस्यैवोपाधित्वपक्षमाश्रित्य समाधिराचार्येणैव रक्ष्यते । विषमव्याप्तस्याप्युपाधित्वपक्षे व्यभिचाराभावज्ञानसहकृतं सहचारज्ञानं व्यासिग्राहकम् । न च सर्वेषां व्यभिचाराभावज्ञानं ज्ञातुमशक्यं स्वीयतया ज्ञानाभावज्ञानं च व्यभिचारिसाधारणमिति वाच्यम्। न हि व्यभिचारज्ञानाभावो ज्ञात उपयुज्यते । किन्तु स्वरूपसन्नेवेन्द्रियसहकारी । व्यभिचारज्ञानं च तनिश्चयस्तच्छङ्काशङ्का च क्वचिदुपाधिसंदेहात क्वचिद्विशेषादर्शनसहकृतसाधारणधर्मदर्शनात । तद्विरहश्च क्वचिद्विपक्षबाधकतर्काव क्वचित स्वतः सिद्ध एव । न च तर्कव्याप्तिमूलत्वेऽनवस्था । यावदाशङ्ख तर्कानुसरणात् । यत्र व्याघातेन शळेव नावतरति तत्र तकै विनैव व्याप्तिग्रहः । तथाहि । धूमो यदि वन्ह्यसमवहितसामग्र्यजन्यत्वे सति वन्हिसमवहिततदजन्यः स्यान्नोत्पन्नः स्यादित्यत्र किं धूमो वन्हेरेव भविष्यति, क्वचिद्वन्हि विनापि स्यादकारणक एवोत्पन्नः स्यादेवाशङ्का स्यात् । सर्वतस्तु क्रियाव्याघातः । यदि गृहीतान्वयव्यतिरेकं हेतुं विना कार्योत्पत्तिं शङ्केत कथं नियमेन धूमार्थं वन्हिमुपाददीत । न हि यद्व्यतिरेके यस्योत्पत्तिराशक्यते तदर्थ नियमतस्तदुपादीयत इति संभवति । न च केवलान्यायिनि व्यभिचारशङ्काया असम्भवः ।
Page #50
--------------------------------------------------------------------------
________________
१६६ गुणनिरूपणम् ..... अत्रापि साधनसमानाधिकरणात्यन्ताभावप्रतियोगि साध्यं न बेति तस्याः सम्भवात् । व्यापकतागोचरत्वेऽपि तस्याः समानसंवित्सचेद्यतया व्याप्यतागोचरत्वात् । . . . : . अन्ये तु । काश्चिव्याप्तयः सर्वपाणिसाधारणा अनादिसिद्धा एव । यथा कार्यकारणभावविरोधादिः । कथमन्यथा जातमात्रस्य स्तनपानादौ प्रवृत्तिः अहिते निवृत्तिश्चेत्याहुः । . . " तथाविधामिति । यद्पावच्छिन्ने व्याप्यत्वं तद्रूपोपस्थितादनुमितिः । तथा च धूमपदेन तादृग्धूमाभिधानं लक्षणया स्यात् । न च वादिवाक्ये लक्षणायां प्रमाणमस्ति । न हि तेनं समीचीनमेव वक्तव्यम् । अज्ञानस्यापि संभवात् । अन्यथा हेत्वाभासेऽप्युक्त सद्धेतुलक्षणया वादिभङ्गो न स्यादित्यर्थः ।। ... प्रथमत एकमिति । व्याप्तिग्रहणरूपमित्यर्थः। दूरादिति।
यत्र धूमविषयक एव दूराद्वस्तुत्वेन परामर्शः, दैवाच्च धूमो वन्हिव्याप्य इति स्मृतेस्तत्र वस्तुगत्या. यल्लिङ्गं तस्य ज्ञान च्याप्तिस्मृतिश्चेत्येतावतोऽनुमितिहेतोः सत्त्वेनानुमित्यापत्तरित्यर्थः । . द्वितीयस्त्विति । तस्य पक्षधर्मताविषयत्वेऽपि व्याप्तिवैशिष्टयविषयत्वादित्यर्थः। ... लिङ्गत्वोल्लेखीति । व्याप्तिविशिष्टपक्षधर्मस्य लिङ्गपरामर्शस्तृतीय इत्यर्थः । तथा च व्याप्तिस्मृतिः करणं तृतीयलिङ्गपरामर्शों न्यापार इत्युक्तम् । : अन्ये तु । क्रियया अयोगव्यवच्छेदेन संबन्धित्वस्य करणत्वाव्यापाराभावेऽपि तृतीयलिङ्गपरामर्शः करणमित्याहुः ।
Page #51
--------------------------------------------------------------------------
________________
. किरणावली प्रकाशः १६५ ननु व्याप्तिस्मृतिः व्याप्यतावच्छेदकरूपेण, पक्षधर्मताज्ञानेमित्येवानुमितिहेतुर्लाघवादतृतीयलिङगपरामर्शहेतुत्वेनावश्यकत्वाच्च। तथा च धूमो वन्हिव्याप्यो धूमवांश्चायामति ज्ञानद्वयादेवानुमितिरंस्तु । न चैवं गोत्वादेरनुमितिर्न स्यात् । तत्रापि तदितरावृत्तित्वे सति तद्वृत्तित्वस्य धर्मान्तरस्य व्याप्यतावच्छेदकत्वात् पर्वतीयधूमे धूपत्वेन ज्ञाते वन्दिव्याप्योऽयं न वति संशये तद्विपर्यये वानुमितिः स्यादिति चेत् । न । धूमो चन्हिव्याप्य इति स्मरतो धूमज्ञानस्य विशेषदर्शनत्वेन तयोरसिद्धः । अन्यथा परामर्शस्याप्यापत्तेः । अथ सामग्र्येव तत्र मानम् इन्द्रियसंनिकृष्टे धूमे व्याप्तिस्मृतिसत्त्वादिति चेत् । न । तत्र व्याप्याभेदप्रत्यक्षसामग्रीतोऽनुमितिसामंध्या बलवत्त्वेनानुमितेरेवोत्पत्तेः। अन्यथा तवापि परामर्शान्तरापत्तेः । इन्द्रियसनिकृष्टेऽतीन्द्रिये च. लिङ्ग तत्सामग्र्यभावाद्वयभिचारः । न चानुमानात्तत्र लिङ्गपरामर्शः । तत्रापि तदपेक्षायामनवस्थापत्तेः । उच्यते । पक्षधर्मस्य व्याप्यत्वज्ञानमनुमितिहेतुः लाघवादुपजीव्यत्वाच्च । न तु तस्य व्याप्यतावच्छेदकपकारकज्ञानम् । गौरवात् । न च तस्यानुमितिः पूर्वमसिद्धौ युगपदुपस्थित्यभावान्न लाघचावतारः । यत्र व्याप्तिधूमत्वयोवैशिष्टयं प्रथममेव प्रत्यक्षण युगपत् पक्षधर्मे भासते शब्दाद्वा तत्र उभयोर्युगपदुपस्थितेः । न चैवमतिरिक्तविशिष्टधीकल्पनायां गौरवम् । सिद्धयसिद्धयोर्ध्याघातेन फलमुखगौरवस्यादोषत्वात् । किश्च वन्हिव्याप्यवानिति शाब्दमाने व्याप्यतावच्छेदकधूमत्वाद्यज्ञानाद्वयाप्यत्वज्ञानसत्त्वात्तदेवानुमितिकारणम् । न च वन्हिव्याप्यमपि.. व्याप्यतावच्छेदक
Page #52
--------------------------------------------------------------------------
________________
१६८ . गुणनिरूपणम् . वन्हिनिरूपितधूमाकैकवृत्तिव्याप्तेः सकलधूमादिव्याप्यतावच्छेदकत्वादाश्रयभेदेन व्याप्तिभेदादिति वाच्यम् । सकलधूमादिवृत्तिव्याप्ती मानाभावात् । यत्र वन्हिव्याप्यस्तत्र वन्हिरिति व्याप्तिबुद्धा
कैकत्तिव्याप्त्याश्रयस्यैव विषयत्वात् । अतीन्द्रियेऽसनिकृष्टे लिने व्याप्तिस्मरणधूमत्वज्ञानसहितेन मनसा तदुत्पादनमिति । । : ननु व्याख्येयग्रन्थेऽग्न्यध्यवसायो भवतीत्यभिधानात्तद्विरोध इत्यत आह-अग्निरध्यवसीयत इति ।: , . भावव्युत्पत्तिपरित्यागे हेतुमाह-तत्परमिति । अग्निज्ञान परम् । तद्भवति परामर्शज्ञानं भवतीत्यर्थः । ननु तत्परत्वमेवास्य कथमित्यत आह-प्रमाणमिति। ननु द्वितीयलिङ्गदर्शनस्यानुमित्यव्यवहितमाकालतयानुमितिजनकत्वे को दोष इत्यत आह-यद्यपीति।जिज्ञासावशादिति । ननु धूमनिहत्तौ परामर्शो न प्रत्यक्षे.. णेन्द्रियासन्निकर्षात् । नाप्यनुमानेन । तस्य परामर्शजन्यत्वेन सोऽपि परामर्शो धूमविषयक एव केन जननीयः । नानुमानेनैव । अनवस्थानात् । न च व्याप्तिपक्षधर्मताबुद्धिभ्यामेव तज्जननम् । प्रमाणान्तरत्वापत्तेः । नापि तत्सहकृतेन मनसैव । तस्य बहिरस्वातन्त्र्यात् । __अत्राहुः । प्रमेयत्वादावतीन्द्रिये ज्ञानोपनीतत्वेन व्याप्तिग्रहः तत्रापि लिङ्गपरामर्शः । तेन वाक्यस्यति । तस्य परामर्शोत्थापकत्वादित्यर्थः । हेतुवाक्यस्य पक्षधर्मतारहितलिङ्गमात्रोपस्थाकत्वाद्वादिवाक्यस्य सिद्धलेनोपपत्त्यनाक्षेपकत्वात ! परार्थानुमाने उपनयस्य पक्षधर्मताप्रतिपादनमेव व्यापारः । स्वार्थानुमाने तु द्वितीयलिङ्गदर्शनादेव तल्लाभान्न परामर्शोपयोग इत्याइ-पक्षधर्मतेति ।
Page #53
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः १६९ न च तदनुमानेति । यो धूपवान सोऽग्निमानिति केवलव्याप्तिज्ञानादनुमित्यनुत्पत्तेरित्यर्थः। . ... उपनयार्थ इति।व्याप्तिविशिष्टस्य पक्षधर्मत्वमित्यर्थः । अनौपाधिकः सम्बन्ध इति । यद्यप्यनौपाधिकत्वस्य साध्यव्यापकमाघनाव्यापकधर्मशून्यत्वज्ञाने व्यापकज्ञानस्य व्याप्यज्ञानसापेक्षतया न परम्पराश्रयः । तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वस्य व्यापकत्वात् । नापि प्रतियोगित्वस्य विरोधित्वात्तस्य च सहानवस्थाननियमरूपत्वादात्माश्रयः । न हि प्रतियोगित्वं विरोधित्तम् । गोत्वाश्वत्वयोर्विरोधेऽपि प्रतियोगित्वाभावात् । किन्तु भावविरहात्मकत्वम् । तथापि यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मशून्यत्वं व्यभिचारिण्यपि । नापि प्रकृतसाध्यव्यापकसाधनाव्यापकधर्मशून्यत्वं तव । तादृशधर्मज्ञानं विना तदभावानिरूपणे सिध्यसिद्धिव्याघातात् । यावद्वान्हमत्वव्यापके धूमवत्त्वाव्यापकत्वं यावद्भूमंवत्त्वाव्यापके वाहिमत्त्वव्यापकत्वमिष्यत इति चेत् । न । तादृशधर्मनिपेधस्य व्यधिकरणतया धूमत्वेऽनुपयोगात् । साध्यव्यापकव्याप्यत्वे चात्माश्रयात् । साध्यं यावदव्यभिचारि तदव्यभिचारित्वं तदिति चेत् । न । साध्याव्यभिचारित्वस्यैव प्रयोजकत्वे, शेषवैय
र्थ्यात् । न चेष्टापत्तिः । साध्यवद्भिन्नसाध्यात्यन्ताभाववदत्तित्वस्य केवलान्वयिन्यसंभवाव । नापि स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसामानाधिकरण्यं व्याप्तिः । यत्किञ्चिद्वन्ह्यत्यन्ताभाववति धूमस्य वृत्ते, संयोगादेरव्याप्यवृत्तेव्यत्वाचव्याप्यतापत्तेः । न च संयोगित्वं द्रव्यव्याप्यम् । संयोगस्येव तत्सम्बन्धस्याव्याप्य
Page #54
--------------------------------------------------------------------------
________________
१७०
. गुणनिरूपणम् वृत्तित्वात् । नापि साधनवनिष्ठान्योन्याभावाप्रतियोगिसाध्यवकत्वम्। सांधनवनिष्ठान्योन्याभावाप्रतियोगिसाध्यवत्त्वस्येति षष्ठ्यर्थोन व्याप्यव्यापकभावः । व्याप्यत्वस्याव्याप्यनिरुक्तेः । नापि नाप्यज्ञापकभावस्तदर्थः । व्यभिचारिसाधारण्यात् । ... .
अथ संबन्धमात्रं व्याप्तिः । व्यभिचारिसंबन्धस्यापि केनचिद् व्याप्तित्वात् । धूमादिव्याप्तिस्तु विशिष्यैव निर्वक्तव्येति चेत् ।
इदं व्याप्तिस्वरूपं निरुच्यते व्याप्तिपदप्रतिनिमित्तं वा ?
नायः। तृतीयलिङ्गपरामर्शविषयव्याप्तिस्वरूपनिरूपणप्रस्तावेऽस्यार्थान्तरत्वात् । सम्बन्धमात्रज्ञानादनुमित्यनुत्पत्तेः । नापरः । संबन्धज्ञानेऽपि व्याप्तिपदापयोगात । नाप्यविनाभावः । केवलान्वयिन्यभावाद । नापि कायंसंबन्धः । न हि कृत्स्नस्य साधनस्य साध्येन संबन्धः। कस्या अप्यग्निव्यक्तः सकलधूमसंवन्धाभावात् । नापि कृत्स्नस्य साध्यस्य साधनेन संबन्ध: + कस्यापि धूमस्य कृत्स्नवह्निसंबन्धाभावात् । उच्यते । यावत्स्वव्यभिचारिव्यभिचारिसामानाधिकरण्यमनौपाधिकत्वम् । . . . .
वस्तुतो यत्संबन्धितावच्छेदकरूपतत्त्वं यस्य तस्य सा व्याप्तिः । धूमस्य वन्हिसंवन्धित्वे धूमत्वमेवावच्छेदकम् । धूपमात्रस्य वन्हिसंबन्धात् । वन्हेस्तु धूमसंवन्धित्वे न वन्हित्वमवच्छेदकम् धूमासंवन्धिनि गतत्वात् । किन्वाट्टैन्धनप्रभववन्हित्वम् । तादृशं व्याप्यमेव । अधिकस्तु पल्लवोऽन्वीक्षातत्त्वबोधे न्यायनिवन्धमकाशे चास्माभिः प्रदर्शित. इति तत एवाधिगन्तव्यः ।
अयमपीति। अनौपाधिकः संवन्ध इत्यर्थः। तन्निदानीभू
Page #55
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः १७१ तेति । अव्यभिचारज्ञाननिदानीभूनेत्यर्थः । नन्वनौपाधिकत्वमुपा· ध्यभाव इति कथं तेनैव तन्निश्चयः । मैंवम् । अनौपाधिकत्वविशिष्टः संवन्धो व्याप्तिरिति विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वात् । .. आकस्मिकत्वेति । यदीदं कार्यमकारणकं स्यात् कादाचित्कं नस्यादित्यर्थः। निःस्वभावत्वेति। एतद्वयतिरिक्तवृत्तिधर्मशून्योऽयं यद्येतद्वयभिचारी स्यात् एतद्धर्मवान् न स्यादित्यर्थः । ताभ्यामिति। येनोपायेन तादात्म्यतदुत्पत्ती गृह्यने तेनैव प्रतिबन्धोऽपि · गृह्यत इत्यर्थः । तयोरेवति । तादात्म्यतदुत्पत्तिव्याप्यत्वं प्रतिवन्धस्येत्यर्थः।ते एवेति। तादात्म्यतदुत्पत्ती एवेत्यर्थः । तयोर्व्याप्यव्यापकाभिमतयोरित्यर्थः । उपाधिदर्शनादेति । यथोपाधिनिश्चयेऽपि व्यभिचारसंशयस्तथा वक्ष्यामः । भूयो भूयः सहचरितयोः पार्थिवत्वलोहलेख्यत्वयोरित्यर्थः। . चतुर्थविकल्पस्यायं विकल्पं दूपयति-तत्रेति । व्यभिचारशङ्काप्युपाधिदर्शनादिति दूषयति-व्याभिचारशङ्कापीति। तच्छकया वेति पक्षं दूषयति-अतीन्द्रियाणामिति।प्रमाणपथेति । — तादृशशङ्कया तदुत्पत्तेरप्यनिश्चयान ततः प्रतिबन्धनिश्चय इत्यर्थः । - भूयो भूयः इति चरमं पक्षं दूपयति-सहचरितयोरिति । · सिद्धौ, सिद्धयर्थमित्यर्थः । तादात्म्यतदुत्पत्ती एव प्रतिबन्ध इति ‘दूषयति-विशेषस्त्विति। अवश्यं हि प्रथमपक्षनिराकरणपरत्वमस्य . वाच्यम् । अन्यथा प्रतिबन्धग्राहकतादात्म्यादेरननुगमस्य तद्गाहक
चक्षुर्लिङ्गादिवददोषत्वात् । तादात्म्यस्य : गमकत्वं. दूषयति- तादात्म्यं चेति। नियामकमाशय दूषयति-संयोगित्वेति ।
Page #56
--------------------------------------------------------------------------
________________
:१७२ . गुणनिरूपणम् . . द्वितीयं पक्षं निराकर्तुमाइन चं समानेति । प्रतिबन्धानिश्चयोऽपीति । प्रतिबन्धकतादात्म्यतदुत्पत्तीनामेकोंपायनिश्चयस्वेन प्रतिवन्धनिश्चये तदुत्पत्त्याद्यनिश्चयों न स्यात् । तनिश्चये च प्रतिबन्धानिश्चयो न-स्यान्न चैवमित्यर्थः । यद्नतीतमिति । वर्तमानसाध्यावभासितानुमितेः । अन्यथा : तदुर्थिनः प्रवृत्तिन स्यादिति भावः : "
. . . . : तृतीयं पक्षं दूषयति-न च तयोरेवेति । न च भेदे सतीति तादात्म्यव्यावर्तनायोक्तम् । तथा च रसाद्रूपानुमानेऽपि तदुत्पत्तिरस्त्येव । तल्लक्षणसत्त्वादिति भावः। . ... ....... ___ स चेदिति । स कार्यकारणभावस्तद्रूपो व्याप्यव्यापकभावरूप इत्यर्थः। अन्यथाभ्युपायमाहेति। यादृशेन पूर्वरूपेण निती रसस्तादृशमेव पूर्वरूपमनुमापयति । स च रसः। समानकालीनं यद्रूपं तज्जनकेन जनिते तादृशे कारणे रूपेऽनुमीयमाने विशेपणतया रससमानकालं रूप सिध्यति । प्रयोगस्तु । रसो रससमानकाल: रूपजनकरूपजन्यो रसत्वादित्यर्थः। .. . ; . यद्यप्यायः पक्षः पूर्वमेव निराकृतस्तथापि दुषणान्तरमाह
न च ते एवेति।अभिन्नाध्यवसेयेति । अध्यवसेयशिंशपाक्षरू‘पमेकं स्वलक्षणमित्यर्थः । स यदीति । स्वलक्षणभेदे तद्वत्तिव्याकृत्योरभेदेशतप्रसङ्गादित्यर्थः । ननु यदा स्वाभाविकत्वावधारण
मनौपाधिकत्वेन तदा तद्व्यतिरेकोऽप्युपाध्युद्भावननियतः स्यान्न __ चैत्रमित्यत आह-यद्यपि चेति । : ... ... ..:.: ननु सौपायांववश्यं व्यभिचार इति नास्ति । साधनाव्याप
Page #57
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः १७३ कसाध्यव्यापकोपाधौ पक्षधर्मतामात्रव्यातिरेकात् । यथा तौंतातित (क!) दिशा नित्यः अद्रव्यद्रव्यत्वादित्यत्र बहिरिन्द्रियाग्राह्यत्वमुपाधिः । मैवम् ।: साध्यव्यापकसाधनाव्यापकोपाधिमादाय विचारात.। व्यभिचारे चावश्यामिति । ननु व्यभिचारादेवागमकत्वे व्यभिचारादुपाध्यनुपानं व्यर्थम् । अत्र व्यभिचारिण्येकत्र साधने साध्यतदभावसंवन्धोऽवच्छेदभेदं विना नेति साध्यसंवन्धितावच्छेदकमेकमवश्यामिति तदेवोपाधिरित्यस्मत्पितृचरणाः । - तथापीति । यद्यपि यद्यव्यभिचरितः सवन्धो व्याप्तिः स्यात् तदा व्यभिचारस्थैव व्याप्त्यभावने तन्निश्चयार्थमुपाध्युद्भावनमनुपयुक्तं स्यात् । न चैवम् । किन्तु निरुपाधिः संवन्धो व्याप्तिरित्युक्तम् । तथापि निश्चितेऽपि व्यभिचारे व्याप्तिभङ्गायोपाधिरवश्यमनुमतव्यः । तथा च व्यभिचारेऽवश्यमुपाधिसत्त्वाद्वयतिरेकानिश्चयेन सामान्यत उपाधी निश्चिते विशिष्य तदनुसरणं व्यर्थम् । तस्य व्यभिचारस्य तदर्थत्वादुपाधिनिश्चयादित्यर्थः । वस्तुतस्त्वव्यभिचरितः संवन्धो व्याप्तिलाघवात् । अनौपाधिकत्वं तु तल्लक्षणमिति. . व्यभिचारस्य साक्षानिश्चये - उपाध्यनुसरणं व्यर्थमित्येवंपरो ग्रन्थः । न चैवमव्यभिचारस्य व्याप्सित्वे व्यभिचारस्तदभावत्वेनासिद्धः स्यान्नं त्वधिक इति वाच्यम् । साध्याभावंवद्गामित्वं हि व्यभिचारस्तदभावश्च नाव्यभिचारः। केवलान्वयिन्यभावाद । किन्तु स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् । न चानयों परस्पराभावरूपत्वम् । : नन्वेवमुपाधिरसिद्धयुपजीव्यत्वेनः सव्यभिचारवरेत्वाभा
Page #58
--------------------------------------------------------------------------
________________
१७४. गुणनिरूपणम् .... सान्तरं स्यात् । न तु व्याप्त्यभावत्वेनासिद्धि। .. . . .
मैवम् । उपजीव्यत्वेऽपि स्वतो दूषकत्वाभावात् । न ह्यन्यस्य साध्यव्यापकसाधनाव्यापक़ताज्ञानमन्यस्य साध्यव्याप्यत्वज्ञाने स्वतःप्रतिवन्धकम् । व्यभिचाराज्ञानस्य तद्धतुतया तज्ज्ञानस्य तथात्वात् । तथा च व्यभिचारज्ञानजनकतया स दृषक इति दृषकतायां परमुखनिरीक्षणत्वादसियुपजीव्योऽप्युपाधिः सिद्धसाधनवन्न पृथक् हेत्वाभासः। . अस्फुटश्चेति । यथोपाधेय॑भिचारोन्नायकत्वेन दुषकत्वं न तु स्वव्यतिरेकेण सत्प्रतिपक्षोत्थापकतया तथा वक्ष्यामः । ननु. तदभाव एवति । योग्यानामुपाधीनां योग्यानुपलब्ध्याऽभावनिश्चयेऽप्ययोग्यानां तेषां कथमभावः प्रत्येतव्यः। अनुमानान्तरण तदवगमेऽनवस्थानादित्यर्थः। . . : .
प्रमाणपदवीमिति । यद्यप्युपाध्यभावः कथं निश्चय इति प्रश्ने नैतदुत्तरं प्रमाणपथावतीर्णस्योपाधेः शङ्कनीयत्वेऽप्युपाध्यभावानिश्चयस्य तादवस्थ्यात् । तथाप्युपाध्यभावनिश्चयाभावः किमुपाधिशङ्काया दुष्परिहरत्वेन तद्गाहकमानाभावेन वा । द्वितीयमग्रे दुषणीयम् । ... __आद्यं दृषयति-प्रमाणपदवीमिति । ननु प्रमाणपथावतीर्ण एवोपाधिः शङ्कयतां तथाप्यवान्तरविशेषो नास्ति व्यभिचारशङ्कायाम, तथा च कथं व्यभिचारशङ्कयानुमानमित्यत आह-तदयमिति । व्यभिचार एवेति । व्यभिचारे साध्याभाववत्तित्व इत्य; यः न खनकान्तिके। तेन बाधविरुद्धयोरपि व्याप्त्यभावः सिद्धयति ।
Page #59
--------------------------------------------------------------------------
________________
'किरणावलीप्रकाशः १७५ यद्वा-उपाध्यभावो व्याप्नेर्लक्षणमित्युक्तं , व्याप्तिस्त्वव्यभिचरितः संबन्धः । तथा च व्यभिचार इति प्रथमान्तमेव । साधने सोपा. धिरिति । ननु साध्ये सोपाधिरप्युपाधिर्भवत्येव यथा पर्यवसितसाध्यव्यापकः, तत्र यद्यपि पर्यवसितं साध्यमप्रसिद्ध तथापि साध्ये यत्पर्वतीयत्वादिकं पर्यवस्यति तद्व्यापकः स्यात् तद्व्यतिरेकाच्च पर्वतीयत्वव्यतिरेक उन्नेतुं शक्यते । . . .. ..
मैवम् । व्यभिचारोनायकस्योपाधेरत्र लक्षणीयत्वात । व्यापकानामाकाशादीनामुपाधित्वे समव्याप्तिकोपाधिपक्षमाश्रित्य दुषणमाह-चन्हे सार्वत्रिकत्वेति। एवमग्रेऽपि । विषमव्याप्तिकोपाधिपक्षे साधनव्यापकत्वं तेषामिति भावः। नित्यानामिति। परपाण्यादीनामित्यर्थः । अत्रापि विषमोपाधिपक्षे साधनव्यापकत्वमेव दोषोऽभिमेतः । उभयेति। साधनं साध्यं चेत्युभयम् । उभयव्यासा इत्यर्थः । यधप्युभयाव्यभिचार्यनित्यः प्रमाणपरिदृष्टो नैयायिकानामप्रसिद्धः महानसादीनामुभयव्यभिचारित्वात वह्निमत्त्वस्य चोपार्नित्यत्वात् । तथापि वह्निरेव वहिव्यापकस्तथाभूतः प्रसिद्धः । अभेदेऽपि व्याप्यव्यापकभावादिति भावः । - तत्रेति । प्रथमे साधनव्यापकत्वात् । द्वितीये साध्याव्यापकत्वादित्यर्थः । धूममात्रोति । मात्रशब्दोऽत्र सामान्यार्थों 'न तु व्यवच्छेदार्थः । वह्निधूपयोाप्त्यभागापत्तेः । पूर्व इतिः। साधनव्यापकत्वादित्यर्थः । व्याप्यमात्रेति । मात्रपदेन वहिव्यापकत्वनिषेधः । तथा च साध्याव्यापकत्वमित्याह-पूर्व इति । उभयरूपा इति । साध्यव्याप्यत्वे सति साध्यव्यापक इत्यर्थः। सा चेति ।
Page #60
--------------------------------------------------------------------------
________________
१७६ : गुणनिरूपणम् . यद्यपि .स. श्यामो मैत्रतनयत्वादित्यत्र शाकपाकजत्वं सामग्येवो. पाधिः । तथापि यत्र साध्यसामग्र्या सह 'साधनव्याप्तिस्तत्र साधनव्यापकत्वात सामग्री नोपाधिः। यत्र. तु तन्नास्ति. तत्र सामग्र्युपाधिरेव । न च तेनैव हेतुना शाकपाकनत्वमपि साध्यम् । तत्र श्यामत्वस्योपायित्वात् । उभयस्यापि साधने चार्थान्तरत्वम् । श्यामत्वमात्र एवं विप्रतिपत्तावुभयत्राप्यविप्रतिपत्तेः । ग्रन्थस्तु सामग्री कचिन्नोपाधियंत्र साधनव्यापिकाऽन्यत्र तूपाधिरेवेति योजनीयः।
धूमस्येति । धूपान्ह्यनुमाने न वह्निसामग्र्युपाधिः । वाहनेव तत्सामग्र्यापि सह धूमस्यानोपाधिकत्वनिश्चयेन साधनव्यापकत्वनिश्चयाव | मैत्रतनयत्वं व्याप्य स्थातव्यं श्यामसामग्र्येत्यत्र च कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावादित्यर्थः। : ...
वह्रिजननेतिः। तथा च वह्निसामन्या उपाधित्वे वह्निरेवीपाविरुक्तः स्यात् । सामग्र्यास्तावकारणात्मकत्वात । वढेरपि च कारणत्वादित्यर्थः । यद्यपि वहिव्यणुकं न वह्निजन्यं वह्नित्वस्य परमाणाववृत्त्यावयविमात्रवृत्तित्वात् । तथापि यदा प्रत्यक्षवह्निसामग्र्युपाधिरुच्यते तदा वह्निरेवोपाधिः स्यात् । साध्यं च नोपाधिः। व्यभिचारिसाधने साध्यावैशिष्टयप्रसङ्गादनुमानमात्रोच्छेदप्रसङ्गाचेति भावः । ननु वह्निरनुष्णः कृतकत्वादित्यत्र बाधोनीतपक्षेतरत्ववत : पर्वतेतरत्वमुपाधिः स्यादित्यत आह-न चेति । तत्र : वहावुजीव्यप्रत्यक्षेण साध्याभावप्रमया साधनस्य साध्यव्यभिचारनिश्चयायभिचारे : चावश्यमुपाधिसद्भावादन्यस्य
Page #61
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशा चोपाधेरभावात् पक्षतरत्वमुपाधिः। प्रकृने च. न तथा । अनुमान• मात्रोंच्छेदादित्यर्थः । यद्यपि सर्वत्र बांधे नोपाधिः, धूमेन . जलहदेऽग्निसाधने तदभावात् । तथापि साधनवति पक्षाभिमते. बाधे सत्युपाधिरस्त्येव । . .... . .
। अत एवेति । यद्यपि बाधितत्वज्ञानाभावस्यानुमितिप्रयोजकतया विरोधिप्रमाणाभावनिश्चयोऽभयोजकस्तथापि · विरोधिप्रमाणसंशयस्यानुमितिप्रतिवन्धकतया तदभावनिश्चयोऽपेक्षणीय इति भावः। .नन्वतावता प्रत्यक्षोपाध्यभावनिश्चयेऽप्यतीन्द्रियतदभावः कथं निश्चयः, कथं वा साध्यव्यापकोऽयं साधनव्यापको न वेति संशयस्य देशान्तरकालान्तरयोर्व्यभिचार संशयस्य च : निवृत्तिरित्यत आह-तर्कश्चेति । यथा च तर्कस्य शङ्कानिवारकत्वं तथोक्तमधस्तात् । : . . . . . : १: साधनाव्यापकत्व इति । नन्वेतत् साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्योरव्यापकम् । न च तयोरनुपाधित्वंम् । दपकताबीजसाम्यात् । बाधानुनीतपक्षेतरत्वेऽतिव्यासेश्च । न च यत्र पक्षे साध्यं नास्ति तत्र बाधोनीतः पक्षेतरखमुपाधिरिष्यत एव । यत्र च पक्षे तदस्ति तत्र साध्याव्यापकृत्वान्न तस्योपाधित्वमिति युक्तम् । पक्षातिरिक्तसाध्यव्यापकस्वनिश्चयेनैवोपाधित्वात् तस्य च तत्र सत्त्वात् । अन्यथोपाधिमात्रोच्छेदापत्तेः।
अथोषाधेः स्वच्यतिरेकेण सत्प्रतिपक्षीभूय. दृषकत्वात् पक्षे
Page #62
--------------------------------------------------------------------------
________________
१७८ ...गुणनिरूपणम्.. तरत्वव्यतिरेकस्य चातन्त्रत्वात् । केवलान्वयिनि साध्यात्यन्ताभावाप्रसिद्धः केवलव्यतिरेकिणि विरुद्धत्वातः । अन्वयव्यतिरेकिणि चासाधारणत्वात् । ___मैवम् । तथा सात सत्मतिपक्षे तदनुद्भावनापत्तेः । एकेनैव
भूयसामपि प्रतिवन्यात् । संदिग्धोपाधेरदूषकतापत्तेश्च । पक्ष तदभावस्य संदिग्धत्वात् । बाधोनीतस्यापि तस्यानुपाधितापत्वेश्च । अथोपाधिलक्षणे विपक्षाव्यावर्तकविशेषणशून्यत्वं विशेषणं पक्षेतरे च विशेषणस्य पक्षमात्रे व्यावर्तकतया विपक्षाव्यावर्तकत्वात् आर्टेन्धनवत्त्वादेश्च विशेषणस्य विपक्षतप्तायःपिण्डादिव्यावर्तकत्वात् । एतच्च विशिष्टव्यतिरेकेऽप्यस्ति । वाधोनीते च नाव्याप्तिः । तस्य पक्षाभिमनस्यापि विपक्षत्वादित्युच्यते । तत्कि व्यभिचारावारकविशेपणवत्तया दृषकत्वमेवास्य नास्ति । ओमिति चेत् ।.न. साध्य: व्यापकसाधनाव्यापकत्वमात्रस्यैव तद्वीजत्वात् । न च व्यभिचाराचारकविशेषणशून्य एव व्याप्तिग्रहः । न हि वस्तु व्यभिचारावारकविशेषणशून्यं भवति । प्रमेयत्वादेः सर्वत्र सत्त्वात | नापि तत्रोपात्तविशेषणशून्यत्वं विवक्षितम् । न हि तत्रोपात्तं तेन शून्यं चति संभवति । तस्मात्साध्यव्यापकत्वं साधनाव्यापकत्वं पक्षेतग्त्वेऽप्यस्तीति तदभावाद साध्याभावः स्यादेवेति हेतोयभिचार एव । व्यभिचारे चावश्यमुपाधिरिति पक्षतरत्वमेवापोधिः स्यात् । अत - एवासाघकमिदं सोपाधित्वादित्यत्रापि पक्षेतरत्वोपाधेः संभवादन
मानमात्रोच्छेदकतया न तदुपाधिरित्यपास्तम् । साध्यव्यापकतया तयतिरेकस्य दृषणसंबन्धत्वेन जातित्वामावाद । नापि पक्षधर्मा
Page #63
--------------------------------------------------------------------------
________________
.
किरणावलीप्रकाशः १७९ वच्छिन्नसाध्यव्यापकत्वे साधनाव्यापक उपाधिराटेंन्धनप्रभववह्निमत्त्वादेः केवलसाध्यव्यापकस्योपाधेरसंग्रहात् । को हि पक्षवृत्तिधर्मस्तदवच्छेदकः । शब्दोऽभिधेयः प्रमेयत्वादित्यत्राश्रावणत्वस्योपधित्वप्रसङ्गाच्च । भवति हि शब्दत्वादिजातौ साध्याव्यापकमपि शब्दवृत्तिगुणत्वावच्छिन्नाभिधेयत्वस्याश्रावणत्वं व्यापकम् । एतेन साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमित्यपास्तम् । आर्दैन्धनप्रभवत्वादेरुपाधेरव्यापनात् । जलं प्रमेयं रसवत्त्वादित्यत्र रसवत्त्वावच्छिन्नपमेयत्वव्यापकस्य पृथिवीत्वस्योपाधित्वापाताच । नापि पक्षात्तित्वे सति साध्यव्यापकत्वम् । अन्धकारो द्रव्यं स्वातन्त्र्येण प्रतीयमानत्वादित्यत्राश्रावणत्वस्यानुपाधित्वापत्तेः । पक्षत्तित्वात् । नापि साध्यसाधनसंवन्धव्यापकस्वे सति साधनाव्यापकत्वमुपाधित्वम् । उपाधिना साध्यव्यभिचारानुमाने साध्यव्यापकव्यभिचारित्वस्यैव गमकल्वे व्यर्थविशेषणत्वात् । नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपाधित्वम् । विषमव्याप्तस्यानुपाधितापत्तेः। व्यभिचारोनायकत्वस्य दृषकताबीजस्य तत्रापि सत्त्वाद । इदं साधनमेतत्साध्यात्यन्ताभाव वद्वृत्ति एतत्साध्यव्यापकाव्याप्यत्वादिति प्रयोक्तुं शक्यत्वादिति ।
उच्यते । पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकस्वमुपाधित्वम् । यद्धविच्छेदन साध्यं प्रसिद्धं तदवच्छिन्नं पर्यवसितं सांध्यम् । तत्रादॆन्धनवयाग्रुपाधौ महानसत्वाधेव तादृशो धर्मः । तदवच्छेदेन साध्यस्य धूमस्य प्रसिद्धः । पक्षधर्मापच्छिन्नसांध्यव्यापकोपाधी द्रव्यत्वं, साधनावच्छिन्नसाध्यव्यापकोपाधी
.
.
.
Page #64
--------------------------------------------------------------------------
________________
गुणनिरूपणम् साधनमेव तथा । तथा च तदवच्छिन्नसाध्यव्यापकोपाधिव्यभिचारेण साधनस्य साध्यव्यभिचारः स्यादेव । व्यापकव्यभिचारिणस्तव्याप्यव्यभिचारित्वनियमात् । न च पक्षधर्मावच्छिन्नसाधनावच्छिन्नोपाधिव्यभिचारेण साधनस्य साध्यव्यभिचारोन्नयनेऽर्थान्तरम् । विशेषणाव्यभिचारित्वेन निश्चिते साधने. विशिष्टव्यभिचारस्य सिध्यतो विशेष्यसाध्यव्यभिचारमादाय सिद्धेः । पक्षधर्मताबलात् । अन्यथा प्रतीतेरपर्यवसानात् । न च पक्षधर्मताबललभ्यसाध्यसिद्धावन्तरत्वम् । अतिप्रसङ्गात् । नापि स्वव्याघातकत्वेनानुपाधौ पक्षेतरत्वेऽतिव्याप्तिः । अनुकूलतर्काभावेन तस्य साध्यव्यापकत्वानिश्चयात् । वाघोन्नीते च पक्षेतरत्वे साध्यव्यापकताग्राहकस्यांनुकूलतकस्य सत्त्वात् । उपाधिश्च न स्वव्यतिरेकद्वारा सत्प्रतिपक्षतया दृषकः । संदिग्धोपाधेरदूषकतापत्तेः । नापि साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया । साध्यव्याप्यसाधनाभिमताव्यापकत्वेनोपाधेरेव साध्यव्यापकत्वसाधनातू । । नापि व्यभिचारोन्नायकत्वेन. । साध्यव्याप्यव्यभिचारित्वेनोपाधेरेव.. साध्यव्यभिचारानुमानात :1. तस्माद्विपक्षबाधकेन यावन्नोपाधे साध्यव्यापकत्वं निश्चीयते . तावदुपाधित्वाभावेन दूषणतैवास्य नास्तीति न दूषकतावीजचिन्ता- 1 तन्निश्चये च साधनाभिमतस्य साध्यव्यापकत्वानिश्चयान्न तद्वयभिचारित्वेन. त: दव्यापकत्वेनोपाधेः साध्यव्यभिचारित्वं . साध्याव्यापकत्वं वानुमीयत इति संक्षेपः।. .. : ::
दर्शनादर्शनेति । बाह्यस्य व्याप्तिरूपस्य ग्रहणे सहकारि
Page #65
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः१८१ बाह्यसहकारि दर्शनादर्शनरूपं बाह्यसहकारिरूपं यस्य मनसस्तत्त. थोक्तम् ) दर्शनादर्शनयोरसाधारणतया मनःसहकारित्वं साधा
रणतयां वा १. आये। असाधारणनिमित्तेति । द्वितीये । किश्चेति । तस्मादितिः। ननु यत्र बहिरिन्द्रियोपरमे भूयोदर्शनजसंस्कारात कारणान्तरेण व्याप्तिग्रहः तत्र बहिरिन्द्रियजन्यः सः। तस्मान्मनःसहकारी संस्कारः । न चैवं शब्दादेरिव संस्कारस्य मानान्तरत्वापत्तिः । तर्कावतारे तस्य प्रयो-जकत्वात्तस्य . चाममात्वादतो निद्रादिवदप्रमाजनकत्वान्न मानान्तरत्वम).. .. . . . . .
. . .:. ननु .सर्वेषामेव सेविकल्पकानां संज्ञास्मरणान्तरकालीनत्वनियमः । तटस्थस्यैव वाचकस्य वाच्यत्वोपलक्षकत्वात् । तच शब्दस्मरणों निर्विकल्पकेन कर्तव्यमिति व्याप्तावपि निर्विकल्पकापत्तिरित्यत आह-संज्ञास्मरणस्येति । कचिदिति । यथा यत्र : सादृश्येन रूपेण सादृश्यं न ज्ञायते तत्र सादृश्ये निर्विकल्पकमेवं . यत्र व्याप्सित्वेन रूपेण व्याप्तिज्ञानं तत्र व्याप्ती न निर्विकल्पकम् । यत्र तु व्याप्तित्वेन 'ज्ञानं तत्र सविकल्पकवेद्यत्वमेव । व्याप्तित्वस्य केवलसविकल्पकवेद्यत्वात् । ..: विस्फूर्जन्तमिति । यद्यपि हि विस्फुरणं नकुलकार्य
मिति न विरोध्युदाहरणम् । तथाप्यहिनकुलयोर्विरोधेन तथात्वंम् । " पञ्चम्या हेतुत्वपस्तानिसकरणाय व्याचष्टे-कथमेतदिति ।
न चैवं सतीति। एतेन संबन्धिनामतिप्रसक्ति निवारयति न तु : संबंन्धानामित्यर्थः । तस्यैवेति। संबन्धामात्रस्येत्यर्थः। एतस्येति।
Page #66
--------------------------------------------------------------------------
________________
१८२ ..... गुणनिरूपणम् कार्यास्वाभिधानस्येत्यर्थः । ननु कथमों श्रावयन्नध्वर्युहोंतुर्लिङ्गम् । होतारं · विनाप्यध्वयोंरोंशब्दकर्तृकत्वादित्यत आह-होतुरित्यनेनेति । तेन होतृमन्निहितायां यागभूमावों श्रावयन्नध्वर्युहोतृलिङ्गमिति वाक्यार्थ इत्यर्थः । ननु लिङ्गाविशेषणत्वेन होतुः मागेव ज्ञानात् किमनुमेयमित्यत आह । प्रयोगस्त्विति । तेनाध्वयोंझेतृसवन्धे साध्ये न सिद्धसाधनम् । होतुः सन्निहितयागभूमावित्यन्वयः।
. तदनन्तरभावित्वेति।अभ्युपगमवादोऽयम् । वस्तुनश्चन्द्रोदयसमुद्रदृद्ध्योः समयभावित्वमेव । पूर्वरूपनिवृत्ताविति। यद्यपि - जलपरमाणौ रूपं नित्यमेव जलावयविनि कारणगुणमक्रमेणैवोत्पद्यते । तथापि पूर्वरूपनिवृत्ताविति पूर्वरूपवतः पार्थिवस्य निवृत्ती रूपादीत्यतद्गुणसंविज्ञानवहुव्रीहिणा स्वच्छतां लक्षयति । सा चौपाधिकसंसर्गाभाव एव ।
सर्वमेवानुमानमिति । अनुमानमत्र लिङ्ग न तु फलम् । तस्य सर्वत्रादृष्टत्वात् । सर्वमेवेति । सामान्येन रूपेण व्याप्सिग्रहविषयतया सर्वमेवानुमानं सामान्यतो दृष्टं भवतीत्यर्थः ।
समानतन्त्रेति । तत्रोक्तस्य पारिभाषिकरूपान्तरस्यानभिधानादित्यर्थः । नाति । तत्र सामान्यतो दृष्टपदस्य नवर्यान्तभर्भावेन व्याख्यातत्वादित्यर्थः । एकस्य हीति । एकस्य पक्षस्य ! व्याप्त्या व्याप्तिज्ञानेनं । सामान्यलक्षणप्रत्यासत्त्या सामान्येन - पक्षविषयकमपि साध्यज्ञानं वृत्तमित्यर्थः । यथा गव्येवेति । आधदर्शनादौ गोत्वमनुपलभ्यापि सानोपळव्या । भूयोदर्षनादौ
Page #67
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः
१८३ तु गोत्वसास्नात्वयोर्याप्तिमुपलभ्य पूर्वदृष्टे गवि गोत्वानुमितिर्भवतीत्यर्थः । पक्षसपक्षयोर्जात्यभेदमभिधाय पक्षसपक्षवृत्तिसाध्ययोस्तदाह-अथवेति । यनैव साध्येन सह व्याप्तिह्यते तस्यैव .यदनुमानं तदृदृष्टम् । यच्च सामान्यतो गृहीतव्याप्त्या तज्जातीयधर्मान्तरसाधकं तत सामान्यतो दृष्टमिति संक्षेपः। :
पूर्व हीति । गोव्यक्तौ गोत्वजातिवैशिष्टयमनुमितामिति पक्षसपक्षात्मकजातीयौ । संप्रत्यपीति । ( सास्नादिमत्त्वे ? ) गोव्यक्तिसंबन्धस्य साध्यत्वे भवति । साध्यस्यैकजात्यमित्यर्थः । पूर्ववदिति। प्रसिद्धं यत्पूर्व लिङ्गेन सह दृष्टं साध्यं फलवत्त्वरूपं यच्च संपति फलानुमानं तयोरत्यन्तं जातिभेद इत्यर्थः । न तु पक्षसपक्षयोरत्यन्तं जातिभेदः । प्रयत्नत्वेनैकजात्यात् । फले च स्वर्गापवर्गादावैकजात्यभाव एव । अत एवाग्रे साध्यमात्रसाजात्यं वक्ष्यति। . अत्र सस्यादिकमित्यादि । ननु हेयत्वोपादेयत्वमन्तरेण ज्ञानत्वमेव न संभवतीत्याह-उपेक्षेति । ननु स्वनिश्चितमात्मनि निश्चितं घटादिकं. तदर्थ नानुमानं तस्य ज्ञानार्थत्वादित्यत आहभावे क्त इति ।
नन्वनुमाने प्रमाणे शब्दान्त वस्तदा संभाव्येत यदि शब्दः प्रमाणं स्यान्न तु तत्सिद्धमिति कुतस्तस्यानुमानान्तर्भावचिन्तेत्यत "भाइ-इह खल्विति । न च शब्दः प्रमाणं न वेति न वा कोटेरसिद्धिःपरामृष्यमाणलिङ्गकरणतावादिमते चरमध्वंसे प्रमा“करणत्वाभावप्रसिद्धीभेदत इति। शब्दोऽनुमानभिन्नोन वेत्यर्थः।
Page #68
--------------------------------------------------------------------------
________________
१८४ . गुणनिरूपणम्.. लक्षणत इति । शब्दः प्रत्यक्षानुमानवृत्तिधर्मवान्न वेत्यर्थः । . . - तत्प्रामाण्यामिति । वादिना शब्दापामाण्यसाधनार्य यत्ममाणशब्देनोपस्थाप्यं कुतस्ततः शब्दाप्रामाण्यं सिध्येदित्यर्थः । ननु शब्दाप्रामाण्येऽपि शब्दोपस्थापितैरगृहीतैः शब्दापामाण्यवोधकमनुमानमुपस्थाप्यते न तु शब्देन · तत् साध्यते । वादिनोऽनासत्वात् । : ... .. . ....
अत्राहुः । वादिवाक्यं स्वसमानविषयकप्रमाणोत्थापनद्वारा शब्दापामाण्य बोधयति नं वा ? न चेदतिप्रसङ्गः । आये। शब्दापामाण्य प्रमाणान्तरस्यापि न तत्समानविषयकत्वेन प्रामाण्यसिद्धिरिति कुतस्तदिष्टसिद्धिारति भावः । ननु पुज्जात्पुज्जोत्पत्तिरिति न्यायेन चक्षुरपि रूपकार्य, तथा च तदुत्पत्तिलक्षणतत्रास्तीत्यत आह-न च चक्षुरपीति । ननु चक्षुः कथं रसादिकार्यमित्यत आह-रूपरसादीति । तव दर्शने तेनैव न्यायेन रूपरसादिपुञ्जजन्यत्वं चक्षुष इति रसादिजन्यताप्यस्तीति रसादीनपि गमयेदित्यर्थः । यदि चाविनाभावाच्चक्षू रूपं गमयति तदा यत्रा‘विनाभावस्य प्रयोजकत्वं तत्र ज्ञायमानस्यैवेति न चक्षुरज्ञाने तदविनाभावज्ञानमिति कथमज्ञायमानाच्चक्षुषों रूपज्ञानमित्याह-अविनेति । ज्ञानसमसमय इति।ज्ञानोत्पत्तिकालोत्पत्तिक इत्यर्थः । .अनन्तरेति । अव्यवहितमाक्कालीनो वेत्यर्थः । प्रत्यक्षज्ञानस्य संबद्धवर्तमानमात्रविषयकत्वनियमात् क्षणभङ्गनयेन च पूर्वोत्तरक्षणोत्पत्तिकयोरभावनियमादतितुच्छत्वेनायं पक्षः पृथङ् न पितः। ... आद्य इति । तुल्यकालोत्पत्तिकयोः कार्यकारणभावादि
Page #69
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः
१८५
त्यर्थः । संबन्धमात्राभावादिति पक्षमुपसंहरन्नैव निराकरोति
तस्मादिति । :
ननु वैशेषिकाणामविनाभाववलेन शब्दोऽये वोधयतीति चक्षुरादिवद स्वभावसंवन्धेन शब्दस्यार्थप्रतिपादकत्वस्वीकारे सिद्धान्तः स्यात् ।..
अत्राहुः । नायं शब्दार्थयोरविनाभावनिराकरणपरी ग्रन्थः । किन्तु ये शब्दस्यार्थप्रतिपादकत्वान्यथानुपपत्त्या विनामात्रमा हस्त न्मतमनेन निराक्रियते 1.
·
Page #70
--------------------------------------------------------------------------
________________
गुणनिरूपणम् साध्यं प्रागुक्तमनुवर्तते । विशेषासिद्धिः संसृज्यमानः प्रत्येकपदार्थ इत्यस्य विशेषस्यासिद्धिरित्यर्थः। संसर्गस्येति । पदार्थविशिष्टस्यैव संसर्गस्य ज्ञानविषयत्वादित्यर्थः । ननु मिथः संसर्गसिद्धावप्येकज्ञानविषयत्वादिरेव संसर्गोऽस्तु । यद्वा । गवा दण्डमभ्याजेत्येवावयोऽस्तु । न । वक्तृतात्पर्यविषयत्वेन संसर्गस्य विशेषणात । योग्यतया लिङ्गविशेषणान्नानापुंवक्तृकपदस्मारित व्यभिचार इति भावः ।
यद्वैतानीति । ज्ञानविशेषणत्वेनात्रापि पदार्थसंसर्गसिद्धिः । भ्रान्तप्रतारकवाक्येन न व्यभिचारः। तस्याप्याहार्यसंसर्गज्ञानोपगमात् । तथापि शुकोदीरिते संवादिवाक्ये व्यभिचारः । तत्रापीश्वरस्यैव वेद इव संसर्गज्ञानात् । न चैवं भ्रान्तभ्रान्तिज्ञसंकरापाचः। भ्रान्तिज्ञज्ञानस्य भ्रान्तिविषयविषयकत्वेन व्यधिकरणप्रकारकत्वाभावात् । व्यधिकरणप्रकारकत्वस्य भ्रमज्ञानस्य भ्रमे सत्त्वात् । . संसृष्टा एवेति । यद्यपि संसृष्टा इति साध्यं न तु नियमोऽपि । तथापि संभावनासाध्यत्वव्यवच्छेदपरमेतत् । तदु. क्तरपीति । विप्रलम्भकेन भ्रान्तेन यदुक्तं पदजातं तदर्थानां संसर्गाभावादित्यर्थः । प्रागेवेति । योग्यतयैव हेतुविशेषणे
नेत्यर्थः । न तावदिति । विशेषणविशेष्यभावस्य संसर्गरूप• तया प्रागसिद्धरित्यर्थः । नापि यद्योग्यतेति । योग्यतयैव गतार्थत्वादित्यर्थः । नाप्यविनति । नीलं घटमानयेत्यादौ तदभावादित्यर्थः । नापि विशेषेति । नीलेन विशेषेण व्याप्येन सामान्यगुणमात्रं व्यापकमाक्षिप्त तथा सरोजेन तथैव द्रव्यमानं तदनयोरविनाभावोऽस्त्येवेत्यर्थः । एतच्च न । घटो भवतीत्यत्र
Page #71
--------------------------------------------------------------------------
________________
किरणावलीप्रकाश घटेन गुणिसामान्यस्याक्षिप्तस्याविनाभावेन साकाङ्क्षतया पर्यवसानप्रसङ्गात् । नापि प्रतिपत्तुरिति । घटो भवतीत्यत्र प्रतिपत्तुर्गुणादिजिज्ञासायां पर्यवसानप्रसङ्गादित्यर्थः । किं तीति । घटो भवतीत्यत्र तु गुणादिजिज्ञासा न पदस्मारितविशिष्टविषयेति न साकाङ्क्षत्वमित्यर्थः । सत्तामात्रेणेति । तथा चाकाङ्क्षायां सत्यामेव शब्दस्य ज्ञानजनने संभृतसामग्रीकत्वाद्वेत्तुरेव विलम्बित इति भावः । तर्हि माभूदाकाङ्क्षा लिङ्गविशेषणमित्यत आहआसत्तियोग्यतेति । व्यभिचारादिति । राजपदार्थपुरुषपदार्थयोः परस्परमन्वये वक्तृज्ञानाभावादित्यर्थः । न त्वेतदस्तीति । यद्यपि प्रतिपदार्थमुत्थिताकाङ्क्षा तत एव विनष्टा कथं कालान्तरे स्वरूपसती वाक्यार्थप्रत्ययजननी । तज्ज्ञानकारणत्वे तु ज्ञानस्यापि पूर्व नाशे संस्कारादुपयोगस्तस्याः संभवति । तथापि समूहविषयकव जिज्ञासा स्वरूपसती वाक्यार्थबुद्धौ हेतुः संभवति । भवतु वाकाङ्क्षा ज्ञातैव कारणम् । तथापि तद्विशिष्टो हेतुरनैकान्तिक इत्याह-न वाकाङ्क्षायामिति । सा च स्मारितेति। कचिद्वह्निरस्तु इत्यादौ शब्दस्मारितयोरेवाविनाभावः । कचित्तदाक्षिप्तयोनीलं सरोजमित्यादौ । एतावतैव कृते अहो विमलं जलं नद्यास्तीरे महिषश्चरतीत्यादावाका- .
झासत्वादेवं वाक्यता स्यादित्यत आह-श्रोतरि तदुत्पाद्यति। तेन वानुत्पादितः स्मारितः इत्यादि तु प्रायिकत्वादुक्तम् । श्रोतनिष्ठवक्तृविवक्षितसंसर्गावगमप्रागभाव इत्यर्थः । प्रतियोगीति । अयं भागभावो यदि ज्ञात उपयुज्यते तदा प्रतियोगिन्यवग़मे ज्ञाते
Page #72
--------------------------------------------------------------------------
________________
१८८ . गुणनिरूपणम् .. ज्ञातव्यः। स च स्वविषयसंसर्गे ज्ञाते निरूप्य.. इति संसर्गस्य पूर्वमेव ज्ञानाद्वाक्यमनुवादकं स्यादित्यर्थः । नियम एवेति । यद्यपि नियमस्य न साध्यता । न हि वाक्यान्नियमः प्रतीयते । तथापि संभावनासाध्यतानिराकरणपरमिदम् ।. .. ... .
__ शब्दमात्रादिति । आप्तोक्तानातोक्तसांधारणादित्यर्थः : । विवक्षितार्थेति । वक्तृतात्पर्यविषयवाक्यार्थप्रतीतिरित्यर्थः । ननु तत्रापीति । योग्यतादिज्ञानमात्रस्य प्रमाऽप्रमासाधारणस्य शान्द: ज्ञानमात्रकारणत्वादित्यर्थः । प्रवृत्तिसंकल्प इति । प्रवृत्तिजनक संकल्प इच्छा । तदानीमिति । आप्तोक्तत्वानिश्चयदशायामित्यर्थः। न हीति । व्याप्तत्वेनापतिसंहृतमित्यर्थः । अवांधितविषयत्वति । यद्यपि बाधाभावः स्वरूपसन्नेव प्रयोजको न तु ज्ञातस्तथापि वाधस्य हेत्वाभासतया ज्ञातस्यानुमितिप्रतिबन्धकत्वान्न ह्यज्ञाने यन्न भवति तत्तदभावज्ञानसाध्यं यथोपाध्यभावज्ञानाधीनानुमितिरिति । व्याप्तेरिति । वाधाभावज्ञानमनुमितिहेतुः। प्रामाप्रयेति । विशेषदर्शने सति शङ्काया अनुदयादित्यर्थः । शब्दमात्रमिति । संकेतज्ञानानपेक्षमित्यर्थः । शब्दापशब्देति । अर्थप्रतिपादकत्वस्यार्थस्मारकत्वस्यापशब्देऽपभ्रंशेऽपि सत्त्यादि: त्यर्थः। किन्तु यः शब्द इति।
. 1. नन्वेतावता पदार्थमात्रे आप्तत्वमायाति न तु वाक्यार्थे । पदार्थमात्रे चासत्वमनाप्तवाक्येऽप्यस्ति । अत्राहुः । तत्रापि मुग्रहमेवासत्वम् । तथा हि । वेदै तावदीश्वरस्य धर्मिग्राहकमानेनैव दोपाभावः मुग्रहः । लोकेऽपि भ्रमाभावोऽत्यन्ताभ्यस्तकाननानां काननविभाग
Page #73
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः
सायचाग्रहः । विमलिराघमायोऽपि प्रकरणादिना ज्ञायते । अन्ययाप्तत्वज्ञानं विना लक्षणा न स्यात् । अत्रमागत्वेनाप्युपपत्तेः । अब शायनीती बघामा जाने प्रयोजनं स्यात्तदा तेन लिङ्गं विशेप्येत । न वेवम । आमन्यानामन्ययावेऽपि वाक्यार्थज्ञानदनात । अन्यथा वेदादागवाभिमानिनां वाक्यार्थप्रत्ययो न स्यादिनि । न । अनाप्तानामनिधन वाश्यार्थप्रनीत्यनुदयात् । बयानरकनिश्चयधवादमानविय काम्ननिश्चयः शब्दज्ञानजनमः । यश योन्यनादी ! नया नामांना यमानमवश्यं शाब्दज्ञानप्रयोजकम । न न दृष्टान्नामिद्धिः । नाच्दामासोच्छेदापत्तेः। .
अन्यथा विनिमयानमारयनिश्चयमेवेत्यर्थः । दु. परिहरमिनि । आमनियनिय वारयामत्ययः वाक्यार्थप्रत्यये व सत्राप्त नियमित्यर्थः । स्वशिरसीति । अन्योन्याश्रयस्य दुप्परिटरतादिन्यः । इभवानिनि । शब्दस्यानुमानान्तर्भावाननगांववादिनीतियर्थः । कनिदिनि । योग्यतादिशून्य इत्यर्थः । मचायमानि । नाराया तिर्न विशेषणीय इति शेषः । नया नतानि । ननु वातादिपादनाने भवत्येव सर्वत्र आशामाययः । न । वकालमा स्वरूपसती वाक्यार्थज्ञाने सन्दाकालभाम्रमादनाकाइोऽन्धोधो न स्यात् । किञ्चाअनामयविपर्यय योग्य धामावातन्निश्चयस्तद्धेतुः ! नवामासमागममागभावः प्रतियोगिताननिरूप्या ज्ञानं च संसर्ग
न मानाया आकाक्षायाः प्रयोजकत्वे प्रागेव संसर्ग१ शादियन आर-मारितति । तेन स्मारितसंसर्गा
Page #74
--------------------------------------------------------------------------
________________
१९० गुणनिरूपणम् . वगमप्रागभावस्तदाक्षिप्तसंसर्गावगमप्रागभावो वाकाङ्क्षा. इति ‘सामान्येनैव रूपेण तन्निरूपणमिति न प्रागेव संसर्गविशेषसिद्धिदोष इत्यर्थः । आकाङ्क्षायोग्यतासत्तीनां च निर्वचनमन्वीक्षातत्त्ववोधे तात्पर्यपरिशुद्धिप्रकाशे च सभ्यनिरूपितमिति विस्तरभयानेह प्रतायते ॥
संदिग्धेति । वक्तुः संदेहादयमाप्तोक्तत्वसंदेहो द्रष्टव्यो न तु वक्तुरातत्वसंदेहः । धर्मिग्राहकमानेनैव तनिश्चयात् । आप्तोक्ता वेदा इति । आमोक्तत्वं च वेदसमानविषयानित्यज्ञानातिरिक्तकारणीभूतयथार्थज्ञानसमानविषयत्वम् । ननु महाजनपरिगृहीतत्वादिति हेतुः साध्यसाधनयोरगृहीतव्याप्तिकतया नान्वयी न वा व्यतिरेकी प्रामाण्ये साध्येऽसाधारणः। मैवम् । अन्वयेन दृष्टान्तस्यायुर्वेदस्य सत्त्वात । व्यतिरेकिण्यपि महाजनपरिगृहीतान्यलौकिकार्थानि वाक्यानि स्वार्थे प्रमाणानि एतादृग्वाक्यत्वादित्यत्रासाधारण्याभावात् । न चापयोजकत्वम् । महाजनपरिगृहीतत्वस्यैव विपक्षवाधकत्वात् ।
स्वतन्त्रेति । आनुपूर्वीज्ञानजन्यानुपूर्वीज्ञानविषयत्वमेव स्वतन्त्रपुरुषप्रणीतत्वम् । सर्वदर्शनेति । अत्रान्वये व्याकरणवैद्यकादिदृष्टान्तः । ननु वैद्यके कर्मण्यनुष्ठीयमानेऽपि फलाभावादमामाण्यमापि स्यादित्यत आह-सिद्धे चेति । ननु नास्माकं महाजनपरिग्रहाव प्रामाण्यं, किन्तु नित्यत्वेनापौरुषेयत्वादित्यत आह-तदेवमिति । अन्यथापीति । नित्यत्वग्राहकं प्रत्यमिज्ञानं तज्जातीयत्वविषयत्वे. नाप्युपपद्यत इत्यर्थः । ननु चास्मर्यमाणकर्तृकत्वाद्वेदानामपौरुषेयत्वं
Page #75
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः १९१ साध्यमित्यत आह-अस्मर्यमाणेति । न हि वयमस्यति । ननु मौनिश्लोकवत् कण्ठाद्यभिघाताभावेऽपि वेदकर्तृत्वं भविष्यति । ____ अत्राहुः। तथापि मौनी यथा लिप्यादिना परं श्लोकं बोधयति तथेश्वरोऽपि परं बोधयिष्यतीत्यायातमीश्वरस्य शरीरम् । न च मन्वादिभिः सर्गाद्यकालीनैरतीन्द्रियदर्शित्वेन स्वयमेव तज्ज्ञानम् । तेषामतीन्द्रियार्थदर्शित्वे मानाभावात् । __यद्वा । शब्दकर्तावश्यं शरीरीति नियमः । आयतनतयेति । तेन भोक्तु गायतनं शरीरमिति लक्षणं शरीरविशेषस्यति द्रष्टव्यम् । __ददातिशब्दो हीति । ननु संप्रदानमनभिधायापि रजकस्य वस्त्रं ददातीत्यादौ ददातिशब्दप्रयोगादिदमयुक्तम् । ददातिकर्मणा चाभिप्रेतो न वक्ता । ददातिशब्दाप्रयोगे संपदानाभावापत्तेः । नापि कर्ता । वक्तरि तदापत्तेः । ___ मैवम् । वेदे ब्राह्मणाय गां दद्यादित्यादौ संप्रदानसमभिव्याहृतो ददातिशब्दः संप्रदानबुद्धिं विना न भवतीत्येवंपरत्वात् ।
तथा हीति । ननु प्रमेयाज्ञानत्वेन तद्धत्वतिरिक्तहेतुजन्यतया साध्यबाधः, ज्ञानाजनकजन्यत्वे विरोधः, अप्रमायां तदसिद्धिश्च । किं च । यत्किञ्चिज्ज्ञानहेत्वपेक्षया सर्वतद्धत्वपेक्षया वातिरिक्तत्वे इन्द्रियादिभिः सिद्धसाधनम् । न च ज्ञानत्वावच्छिन्नकार्यत्वान्यकार्यत्वप्रतियोगिककारणजन्यति साध्यम् । ज्ञानत्वस्य नित्यत्तितया कार्यतानवच्छेदकत्वात् । अनित्यज्ञानत्वेतिकरणे इन्द्रियादिमियथायथं सिद्धसाधनम् । तेषां प्रत्यकं ज्ञानमात्राइतत्वात् ।
Page #76
--------------------------------------------------------------------------
________________
गुणनिरूपणम् 1 एतेन अमात्वं ज्ञानत्वावच्छिन्नकार्यत्वनिरूपितकारणाभिन्नकारणताप्रतियोगिककार्यतावच्छेदकं ज्ञानत्वं साक्षाद्वयाप्यर्धमत्वादप्रमात्ववदिति निरस्तम । प्रेमात्वस्य नित्यत्तित्वात् । आनित्यप्रमात्वं तथा कार्यात्रवृत्तित्वादित्यपि नीलघटत्वादिना व्यभिचारि । अनित्यममा प्रमाऽप्रमोभयहेतुभिन्नहतुजन्या जन्यत्वादप्रमावदिति चेत् । न । दोषस्य पित्तादेः स्वविषयप्रमाहेतुत्वेनाप्रमायां तदसिद्धेः ।।:: : - . . . . . . .
उच्यते । यत्कार्यं यत्कार्यविजातीयं तत् तत्कारणविजातीयकारणजन्यं यथा घटविजातीयः पटः । अन्यथा कार्यवैचित्र्यस्याः कस्मिकतापत्तेः । घटज्ञानजातीयमपि.कार्य तद्विजातीयकार्यकारणविजातीयघटेन्द्रियसनिकर्षादिजन्यमिति । एवञ्च प्रमाऽप्रमाकारणविजातीयकारणजन्या अप्रमाविजातीयकार्यत्वात् घटवत् । किञ्चानित्यप्रमात्वं कार्यतावच्छेदकं, वाधकं विना कार्यमाऋत्तिधर्मत्वाद. प्रमात्ववत् । नीलघटत्वं तु विशिष्टं न कार्यतावच्छेदकम् । प्रत्येकमनुगतद्वयादेव विशिष्टबुद्धेरार्थः समाज इति भावः। . . · · यदि विति । यावती प्रमासामग्री तावन्मात्रप्रयोज्या यद्यप्रमा स्थान प्रमा स्यादित्यर्थः । असिद्धमात्रापादकमप्रमायाः प्रमि|ज़नकदोषजन्यत्वोदित्याह-ज्ञानत्वेऽपीति । एवं तहीति। तथाच ज्ञानसामग्रीमात्रजन्यत्वरूप प्रामाण्यस्य न स्वतस्त्वमित्यर्थः । न चास्तुं प्रमायां दोषाभावो हेतुः । तथाचागन्तुकभावानपेक्षज्ञानसामग्रीजन्यत्वमेव : स्वतस्त्वं दोपाभावस्य तदनुविधानादित्याहअस्तु दोषाभाव इति । विशेषादर्शनादेव भावस्यापि दोपत्रे
Page #77
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः १९३ तदभावे विशेषदर्शनं भावस्तद्धतुः स्यादिति नोक्तरूपं स्वतस्त्वमित्याह-भवेदप्येवमिति । किञ्च । दोपाभावस्येव भूयोऽवयवेन्द्रियसंनिकर्षविशेपदर्शनादिसमवधाने प्रमा, तंदभावे त्वप्रमति गुणस्याप्यन्वयव्यतिरेकयोः सत्त्वादगुणोऽपि तद्धेतुरित्याह-प्रामाण्यं प्रतीति । अन्वयव्यतिरेकतुल्यत्वेन . प्रमायां गुणोऽप्रमायों तदभावो हेतुरिति वैपरीत्यमेव किं न स्यादिति भावः । प्रमामात्रे च नानुगतो गुणः, किन्तु तत्तत्प्रमायां भूयोऽवयवेन्द्रियसंनिकर्षयथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां प्रत्येकमेव गुणत्वमन्वयव्यतिरेकात् । प्रत्यक्षविशेषदर्शनमपि गुणस्तदनुविधानात् । यद्यपि स्थाणुत्वव्याप्यवक्रकोटराधारोपविशेषगुणदर्शनेऽपि स्थाणुत्वभ्रमो भवत्येव । तथापि विशेषदर्शनं प्रमारूपं गुणो विवक्षितः । · एवं प्रामाण्यमिति । प्रामाण्यस्य स्वतो ग्रहेऽनभ्यासदशोंत्पन्नज्ञाने तत्संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यनिश्चयात् । अनिश्चये वा न स्वतः प्रामाण्यग्रहः । ज्ञानाग्रहे चं धर्मिज्ञानाभावान्न संशय इत्यर्थः। ननु स्वग्राह्यत्वेऽपि परग्राह्यत्वात स्वस्याप्यन्यापेक्षया परत्वात्, भट्टमते परग्राह्यत्वाच सिद्धसाधनम् । न च ग्राह्यप्रामाण्यापेक्षया परत्वं ग्राहकस्यापि । ग्राह्यप्रामाण्यत्वेन तदपेक्षया परत्वाभावात् । अग्राह्यप्रामाण्यापेक्षयाऽप्रमाणत्वप्रसङ्गात् । अर्थेऽनैकान्तिकञ्च 1 उच्यते । अनभ्यासदशोत्पन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह स्वाश्रयातिरिक्तग्राह्यं वा । आश्रये सत्यपि तदुत्तरन्नीयमणवर्नि संशयविपयत्वात् । अप्रामाण्यसंशयाजन्यसंशयविषयवान ! मा:माण्यवत् । अर्थे निश्चितेऽपि न निश्चयानन्दादी
Page #78
--------------------------------------------------------------------------
________________
गुणानरूपणम् संशयो न वाऽभामाण्यसंशयं विनति नार्थेन व्यभिचारः ।
ज्ञानत्वसंशयवदिति । यथा ज्ञानत्वे निश्चिते तत्र संशयो न भवति तथा प्रामाण्येऽपि निश्चित इत्यर्थः ।
अथ प्रामाण्यवदिति । प्रामाण्यज्ञानमात्रं न संशयविरोधकं किन्तु प्रामाण्यमेवेति साधारणं ज्ञानमिति शङ्कितुरभिप्रायः । तत्किमिति । प्रामाण्यस्य ज्ञान प्रामाण्याश्रयो ज्ञानमित्यर्थः । प्रमाणज्ञानमिति पाठे प्रमाणरूपं ज्ञानमित्यर्थः । निश्चयमात्रमेव संशयप्रतिबन्धकं न तु तद्विशेष इत्याशयेन परिहारः । तदप्रतीतेरिति । प्रामाण्याप्रतीतेरित्यर्थः ।
झटितीति । लिङ्गज्ञानापेक्षायां विलम्बः स्यादित्यर्थः। प्रवृत्ती न प्रामाण्यग्रहस्य सर्वत्रोपयोगः । तथात्वेऽपि झटित्यभ्यासापन्नलिङ्गानुसंधानादप्युपपत्तिरित्याह-अन्यथैवेति । ननु पक्षलिङ्गव्यापारज्ञानानां प्रामाण्यानवधारणे स्वाश्रयायसिद्धिरवधारणे चानवस्था । न च लिङ्गादिज्ञानं स्वविषयनिश्चये कर्तव्ये स्वप्रामाण्यज्ञानं नापेक्षते, प्रामाण्यसंशये लिङ्गस्य संदिग्धत्वादित्यत आह-न चानवस्थेति । चरमप्रामाण्यज्ञानस्य ज्ञानाभावेन कोटिस्मरणमावेन विषयान्तरसंचारेण वा मामाण्यसंशयानवश्यम्भावादित्यर्थः । अन्यथा भट्टपक्षेऽपि मामाण्यस्य ज्ञानानुमितिग्राह्यत्वेऽनवस्था स्यादित्याह-तथात्वे वेति । प्रामाकरेऽपि मते प्रामाण्यस्य स्वग्राह्यत्वं न स्वग्राह्यम् । स्वरूपप्रामाण्यवहिर्भूतत्वातः । किन्तु परग्राह्यत्वेऽनवस्थानात् परिशेषानुमानेन मानान्तरेण वा ग्राह्यम् । तथाच तत्मामाण्यस्यापि स्वग्राह्यत्वमन्येनैवेत्यनवस्येति भावः । प्रामाण्यानुमान च
Page #79
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः
१९५
प्रथमं व्यतिरेकिणा । अयं पृथिवीत्वेनानुभवो न पृथिवीत्वाभाववति पृथिवीत्वमकारकः गन्धवद्विशेष्यकपृथिवीत्वप्रकारकनिश्चयत्वात् यनैवं तत्रैवं यथा पृथिवीभ्रमः । तथाच पृथिवीभ्रमे पृथिवीत्वाभाववति पृथिवीत्वमकारकत्व गन्धवद्विशेष्यकपृथिवीत्वप्रकारकत्वाभावयोर्व्याप्तिग्रहादप्रामाण्यव्यापकत्व भावा भावरूपाद्धेतोरप्रामाण्याभावाभावरूपं प्रामाण्यं सिध्यति । यद्व्यापकतया हेत्वभावो गृहीतस्तदभावस्यैव हेतुना साध्यमानत्वाव । व्यतिरेक्यनन्तरं तज्जातीयत्वेनान्वयिना प्रामाण्यानुमानम् । यथेदं पृथिवीज्ञानं प्रमा गन्धवद्विशेष्यकपृथिवीज्ञानत्वात् । तत्त्वेन मतवत् । अधिकस्तु पल्लवोऽन्वीक्षातत्त्ववोध प्रदर्शित इति नेह प्रतायते ॥
समयबलेति । अर्थविशेषे चेष्टाविशेषस्य संकेते गृह्यमाण एव ततोऽर्थप्रतीतिः । सङ्केतज्ञानपुरस्सरं प्रवृत्तप्रमाणस्यैव च शब्दत्वाचेष्टाया अपि तथात्वात्तत्रान्तर्भावश्चेष्टाया इत्यर्थः । एवं सति चेष्टायां शब्दव्यवहारमुपपादयति - शब्द एव त्विति । न ह्यत्रेति । पुमभिप्रायस्यानियतत्वादित्यर्थः । नापीति । ऐश्वरस्याधुनिकस्य वा नियतस्य संकेतस्याभावादित्यर्थः । अतः ल्कृप्तप्रमाण वैधर्म्या चेष्टा मानान्तरमेवेति भावः । द्विविधेति । यद्यपि सर्वा चेष्टा कृतसमयैत्र । इयांस्तु विशेषः । स्वनियतोऽपि कचिद्देवदत्तादिपदवदाधुनिको यथा हट्टादौ तर्जनीस्पर्शे । क्वचिद्धटादिपदवदैश्वरः । पटादिपदवच्चेष्टाविशेपस्याप्यनादित्वाविशेषात् । यथाङ्गुलीपञ्चकबुद्धिभावे पञ्चेति । तथाप्याधुनिकसंकेतमाश्रित्य कृतसमयत्वाकृतसमयत्वव्यवहारः ।
तत्र कृतसमयेति । नन्वभिप्रायस्थः शब्दो न तावव सम
Page #80
--------------------------------------------------------------------------
________________
१९६
: गुणनिरूपणम्..... यग्राहकादन्यो वाच्यः, तस्य नियमेनोपस्थितौ मानाभावात् । नापि समयग्राहक एवं शब्दः । स हि तदा स्याद्यदि चेष्टायां शब्दादेव परं. समयग्रहः स्यात् । न चैवं चेष्टान्तरेणैव व्यवहारश्चेष्टायामपिं समयग्रहात् ।
.: मैवम् । यत्र शब्देनार्थविशेषे चेष्टाविशेषस्य : संकेतग्रहस्तदभिप्रेत्योक्तम् ।
तत्रेति । तत्र चेष्टातः शब्दः एव स्पर्यते । स एव स्मृतः संसर्गवोधको न चेष्टेत्यर्थः । लिपिवदिति । यद्यपि लिपेः शब्दसङ्केतो नार्थेऽर्थविशेषमजानतोऽपि लेखकादेः शब्दस्वरूपज्ञानादिति वैषम्यम् । तथापि यथा वाक्यार्थसङ्केतितानां पदानां वाक्यार्थस्मारकत्वं तथा यत्र विशिष्टेऽर्थे चेष्टायाः सङ्केतो . गृहीतस्तत्र त्रिशिष्टार्थस्य ततः स्मृतिरेव नानुभव इर्ति कुतः स्मृतिमात्रोपयोगिन्याश्चेष्टायाः प्रमाणत्वमित्यभिप्रेत्योक्तम्- न चेति । स्मृति नं प्रमेति भावः ।
: यदि हीति । यं जनयित्वैव यं प्रति यस्य नियतपूर्वभाव: स्तस्यैव तद्व्यापारत्वादिति भावः । न चैवमिति । चेष्टां विनाप्याकाङ्क्षादिमतः शब्दाद्वयुत्पन्नस्यार्थप्रत्ययाद्वयभिचार इत्यर्थः । नन्वेवमिति । तथाच व्यभिचारान्न सर्वत्र चेष्टायाः शब्दो - पंजीवनमिति भावः । अंत एवेति । शब्दव्युत्पत्त्यभावादित्यर्थः । तथाच त्वदीयं लक्षणं चेष्टासाधारणं न तंत्रास्तीति चेष्टापि तत्र प्रमाणं न स्यात् । मानान्तरं च तत्र संकेतग्राहकं नास्त्येवेति भावः । व्यवहारश्चेति । न च शब्देऽप्येवमभिप्रायानुमानांदेव
.
A
•
..
Page #81
--------------------------------------------------------------------------
________________
किरणावलीप्रकाश प्रवृत्तिस्त्विति वाच्यम् । . शब्दादिदं निश्चिनोमीत्यनुव्यवसा: यात्तस्यानुभवजनकत्वे स्थिते तदनुकूलकल्पनादिति भावः ।. . - अकृतति । यंत्र हट्टादावाधुनिक एव. संकेतः क्रियत इत्यर्थः । अविनाभावेति । व्याप्ति विना. चान्येनान्यस्य स्मरणेऽतिप्रसङ्ग इत्यर्थः । तस्मात् कचिच्छन्दस्मृत्या कचिदभिप्रायानुमानेनान्यथासिद्धा न पदार्थस्मारिकेति न चेष्टा विशिष्टानुभवे प्रमाणमिति भावः । ननु यथा घटादिपदानां. शक्तिग्रहे. प्रयोजकवाक्योचारणानन्तरं प्रयोज्यस्य प्रवृत्तिदर्शनाद्वाक्यार्थज्ञाने वाक्यस्य कारणतां गृहीत्वा पश्चादावापोद्वापाभ्यां तत्तत्पदानां तत्तदर्थज्ञाने शक्तिर्गृह्यते तथा चेष्टासमूहस्य विशिष्टार्थज्ञाने हेतुत्वं ग्रहीप्यत इति चेष्टा प्रमाणं स्यादित्यत आह-स्मारयतु वेति । प्रकारभेदमाह-कृत्यन्वयिनीति । यस्यां सङ्केतयितुः कृतावभिप्रायः सा कृत्यन्वयिनी । यथा शङ्खध्वनौ यास्यसीति.। यस्यों ज्ञाने तस्याभिप्रायः सा ज्ञप्त्यन्वयिनी । यथो तर्जनीकरणे दश संख्या ज्ञास्यसीति । कारकेष्विति । प्रातिपदिकार्थमात्रं स्मयते ने स्वन्वयप्रकारः कर्मत्वाद्यपीत्यर्थः। वर्तमानति । क्रियास्वरूपप्रधानेत्यर्थः । ननु चेष्टाया अभिप्रायमात्रद्योतनेऽन्वयप्रकारेषु कर्मत्वादिपु सुकरः सङ्केतः । न च पूर्वैरन्वयप्रकारेपुः काचिच्चेष्टा सङ्केतितेति वाच्यम् । इदानीमपि तत्करणसंभवात् । कथं वाऽपभ्रंशे. .ऽन्वयप्रकारोपस्थापकविभक्तयभावेऽन्वयबोध। मैवम् । गामानयेत्यत्रेव गौ कर्मानयनमित्यत्र वाक्यार्थप्रेत्ययाभीवादन्वयव्यतिरेक्रोभ्यां विभक्त्युपस्थापितकर्मत्वादेरेवान्वयबोधकत्वात् । अपभ्रंशे
Page #82
--------------------------------------------------------------------------
________________
११८
गुणनिरूपणम् तु विभक्तिसंकेवारोपादेव संसर्गबोध इति स्वतन्त्रपदार्योपस्थिती गौरश्च इनि बन्नान्वयवोषः स्यादिति भावः।
प्रकरणादयस्त्विति । नानार्यादौ सामान्यशब्दस्य विशेष परत्वमात्रं प्रकरणादिवः स्यान्न तु कारकविशेषान्वयप्रकारोपस्थितिरपि । त्यावे वा स्वतन्त्रपदार्थोपस्यितावपि प्रकरणादिनान्वयप्रकारोपस्यापकविमक्तयुन्नयनादन्वयबोधः स्यादेत्ययः । कथं तहीति । व्यवहारस्य संसर्गज्ञानसाध्यवादित्ययः । स्वरूपत इति । असाधारणप्रमाकरणत्वेनेत्यर्थः । ननु सादृश्यमेवोपमानस्य विषयत्वेन परिच्छेद्यं भविष्यतीत्यत आह-तथाहीति । सामान्यं च यथायथं प्रत्यक्षादिपरिच्छेद्यमेवेति न तद्ग्रडे मानान्तरापेक्षेत्यर्थः। । यद्यपि सादृश्यं समतियोगि न तु निष्पतियोगि सामान्य
मेकं तथापि तद्भिन्नत्वे सति तद्गतभूयःसामान्यवत्वं सादृश्यम् । तत्र च भेदः सप्रतियोगिक इति तयाटितस्य सादृश्यस्यापि समतियोगिकत्वम्।
यद्यपि चैकमेव सामान्यं न सादृश्यं मूयःसामान्यात्मकतयाङ्गीकारे च सादृश्यमनकं स्यात् । तथापि तावत्स भूयःसामान्येप्वेकत्वमौपाधिकम् । ननु गोसदृशो गवय इति प्रत्यक्षानन्तरमेतत्सदृशो गौरिति ज्ञानमुपमानफलं स्यात, तस्येन्द्रियासनिकृष्टविषयत्वेनाप्रत्यक्षवादेतत्सदृशत्वेन पूर्वमननुमूनविषयत्वेनास्मृतित्वादित्याह-न चैतदिति । एवं च सति तद्रियर्मेयं व्यक्तिरित्यवगते एतद्विधर्मा सा व्यक्तिरित्यपि ज्ञानमुपमानफलं स्यादुक्तयुक्तरित्याह-तथा सतीति।
Page #83
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः अथैतदिति । ननु नैयायिकानामापत्तिरनुमानम् । न चात्र तत्सम्भवति । सा व्यक्तिरेतत्सदृशी एतनिष्ठसादृश्यप्रतियोगित्वादित्यस्यागमकत्वात् । तत्पतियोगिकैतन्निष्ठसादृश्यग्रहे तद्विशेष्यकस्य तृतीयलिङ्गपरामर्शस्याभावात् । विशेष्यस्येन्द्रियासनिकर्षात् । न च तत्मतियोगिकसादृश्ये गृहीते तस्यैव तत्पतियोगित्वे संशयाभावात समानसंविसंवेद्यत्वेनैतत्सादृश्यमतियोगित्वमपि भातमेवेति वाच्यम् । इन्द्रियसंनिकर्षाभावेन समानसंविसंवेद्यत्वाभावात् ।
अत्राहुः । प्रत्यक्षज्ञानस्येन्द्रियार्थसंनिकर्षजवे नियमो न तु यावन्तोऽर्थास्तद्विषयास्तावन्तः सर्वेन्द्रियसंनिकृष्टाः । अयं स इति विपरीतप्रत्यभिज्ञायां व्यभिचारात । न च विशेष्ये तथा नियम एवेति वाच्यम् । तथापि मनसैव परामर्शजननात् ।
___ अथ गवयशब्दः कस्यचिद्वाचकः शिष्टैः प्रयुज्यमानत्वादिति नागरकेण निश्चिते विशेष जिज्ञासमानेन कीदृग्गवय इत्यारण्यके पृष्टे तेन च गोसदृशो गवय इत्युक्ते यदा नागरको वनं गतः पिण्डं तादृशमनुभवन् वाक्यार्थस्मरणसहकृताव सादृश्यज्ञानादयं गवयशब्दवाच्य इति प्रमिणाति तदा संज्ञासंज्ञिसंबन्धपरिच्छेद उपमानफलमित्याह-संज्ञासंज्ञिसंबन्धेति। नैवं वाक्यादेव नागरकेण यो गोसदृशः स गवय इति प्रतीतेन तदुपमानफलमित्याहवाक्यादेवेति । केवलमिति । य एवाप्तवाक्यागोसदृशो धर्मी गवयपदवाच्यतयावधृतस्तमिदानीं पश्यामीति प्रत्यभिज्ञानमात्रं दृष्टे गवये भवतीत्यर्थः । गवयपदे गवयत्वं प्रवृत्तिनिमित्तं तन्न पूर्व प्रमितम् । प्रमितं च गोसादृश्यं तन्न प्रवृत्तिनिमित्तमतः प्रवृत्ति
Page #84
--------------------------------------------------------------------------
________________
२००
गुणनिरूपणम् ...
.
निमित्ताज्ञानान्न शब्दात्तत्फलमित्याह - भवेदेवमिति । तदुपपादयति - तथासतीति । गोरज्ञाने तन्निरूपितसादृश्याज्ञानादित्यर्थः । वस्तुतो गोसादृश्यापेक्षया गवयत्वस्य लघुत्वादिति भावः । स्वयं प्रतीतेति । यस्मिन् प्रवृत्तिनिमित्ते स्वयं व्युत्पन्नस्तव परस्य बोध - नीयम् आवश्यकश्च गवयत्व एव गवयपदप्रवृत्तिनिमित्ततया व्युत्पनस्ततस्तदेव तत्पदमवृत्तिनिमित्तं बोधयेदित्यर्थः । तथाप्यापातत इति । गोसादृश्यं वा प्रवृत्तिनिमित्तं तदुपलक्षितधर्मान्तरमिति संशये व प्रवृत्तिनिमित्तनिश्चय इत्यर्थः । अफलमिति । प्रवृत्तिनिमित्त विशेषांनिश्चायकमित्यर्थः । फलिष्यतीति । प्रवृत्तिनिमित्तं वोधयिष्यतीत्यर्थः । तात्पर्यसंदेहादिति । यदापि सादृश्यस्यैव शदोपस्थितस्य प्रवृत्तिनिमित्तत्वनिश्चयस्तदापि न वाक्यपर्यवसानम् ॥ तात्पर्यविषयाज्ञानात् । न हि भ्रान्त्यान्यादृशान्वयवोघे वाक्यं पर्यवस्यतीत्यर्थः । उपलक्षणतायामिति । गवयत्वे प्रवृत्तिनिमित्ते तात्पर्यविधारणालक्षणया शब्दस्तद्बोधक इत्यर्थः । यथाश्रुतपदार्थान्वयेनैव वाक्ये - फलिते लक्षणा न कल्प्यते । यत्र तु गङ्गायां घोष इति वदन्वय एव मुख्यार्थे न संभवति तत्र तत्कल्पनम् । "इह तु गोसादृश्यसमानाधिकरणं- गवयपदवाच्यत्वमिति शब्दा" दवगतस्याग्रेsपि न बाघ इत्याह- मन्वेवमिति । विशेषसंदेहः प्रवृत्तिनिमित्त संदेहः । अन्यथेति । यदि मानान्तरोपनीतरक्तत्वाद्यपेक्ष पटो भवतीति वाक्यं पर्यवसन्नं तदा पटभवनरक्तत्वयों
•
.
४:
·
विधेयत्वेऽर्थभेदाद्वाक्यभेदः स्यादित्यर्थः ।'
" शब्द समानविभक्तिकतामात्रम् | आयें वक्तृतात्पर्यविपयीं
Page #85
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः
२०१
भूतार्थप्रतिपादकत्वम् । परस्परापेक्षामात्रेणेत्यत्रान्वयोपपत्तिरित्यनुषज्यते । तस्माद्वास्तवेति ।
नतु यत्र गोसादृश्यगवयपदवाच्यतयोः सामानाधिकरण्यमात्र एव तात्पर्यं न तु गवयत्वप्रवृत्तिनिमित्तकतायामपि तत्र शब्दस्य पर्यवसन्नत्वात् प्रमाणान्तरं गवयत्वप्रवृत्तिनिमित्तताग्राहकं वाच्यम् । अथ गौरवाख्यतर्केणेतराप्रवृत्तिनिमित्तकत्वेऽवधृतं गवयपदं गवयत्वप्रदृत्तिनिमित्तकम् इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् यन्नैवं तन्नैवमिति व्यतिरेकी स्यात् । न । इतराप्रवृत्तिनिमित्तकत्वस्य केवलतर्कस्यानिश्चायकत्वेनासिद्धेः । तस्माद्यस्य तर्कः सहकारी तन्मानान्तरं वाच्यम् ।
अत्राहुः । सप्रवृत्तिनिमित्तकताग्राहकसामान्यतो दृष्टमेव गौरवाख्यतर्कसहकृतं गवयपदस्येतराप्रवृत्तिनिमित्तकत्वे गवयत्वप्रवृत्तिनिमित्तकतां परिच्छिनत्ति क्लृप्तमान एवं तर्कस्य सहकारित्वे संभवति कल्पनीयप्रमाणे तथात्वस्यान्याय्यत्वाद्गौरवादिति ॥
"
दृढतरममाणेति । योग्यानुपलम्भसहकृतेन्द्रियग्राह्यत्वेन गृहासत्त्वस्य निश्चितत्वमुक्तम् । एवं जीवनमपि ज्योतिःशास्त्रात्ममितमिति मरणं न कल्प्यते । अन्यथेति । बहिः सत्वं विना गृहासतो जीवित्वमनुपपद्यमानमर्थापत्तिफलमित्यर्थः । विरोध्येवेत्यनेन प्रकृतोपयुक्तं नोक्तमित्यत आह-विरोधीति । तथापीति । यद्यपि जीवनवहिःसत्त्वयोर्मिथो विरोधे तदुभयमेकत्र देवदत्ते न वर्तत इति केन बहिःसत्वं साध्यम् । तथापि जीवता कापि स्थातव्यमिति यदि गृहविषयकं स्यात्तदा विरोधः स्यादिति
Page #86
--------------------------------------------------------------------------
________________
२०२
गुणनिरूपणम् तर्कितेन विरोधेनानयोविरोधित्वम् । अत एव यथाश्रुतापरितोपात्तात्पर्यार्थमाह-इदमत्रेति । न तावदिति । अनियम्यानियामकयोरव्याप्यव्यापकभूतयोर्न परस्परमुपपाद्योपपादकभावः । न ह्यव्याप्यमव्यापकं विनानुपपन्नम् अपि तु व्याप्यं व्यापकं विनानुपपन्नमित्यनुपपत्तौ व्याप्तिरस्त्येवेति तत्पतिसंधानात्कल्पनमनुमानमेवेत्यर्थः । व्यतिरेकोत । वहिः. सत्त्वेन विना जीवतो गृहाभाव एव न भवतीति व्यतिरेकव्याप्तिरेवेत्यर्थः। कृतमिति । अर्थापत्तिरूपप्रमाणस्य कृतमनुमानादर्थान्तरत्वग्रहणेत्यर्थः । यथानुमानं व्याप्तिज्ञानाद्भवति, अन्यथानुपपत्तिस्तु कल्प्यकल्पकयोाप्तावपि तज्ज्ञानं विनैव प्रवर्तत इति नेयमनुमानमित्याशङ्कय निराकरोति-न चेति । अन्यथेति । अनुपपत्तिज्ञानं विनापि कल्पना स्यादित्यर्थः । अर्थापत्त्याभासेति । सत्तावस्थितव्याप्त्यैव कल्पने वस्तुतो यदुपपादकं तत्कल्पनैव परं स्वादित्यर्थः । अन्वयव्यतिरेकाभ्यां व्याप्तिग्रहोपायमाह-यदाहमिहेति। ननु जीवतो गृहासत्त्वेन वहिःसत्त्वे साध्ये वहिःसत्त्वं व्यापकं गृहासत्त्वं व्याप्यमिति व्यतिरेकव्याप्तौ वहिरसत्त्वं व्याप्यं जीवतो गृहसत्त्वं व्यापकमिति यद्योगप्राथम्याभ्यां व्याप्यस्य निर्देशायदाहं नान्यत्र तदाहमिहति वक्तुं युज्यते । एवमन्वयव्याप्तावपि यदाहमिह तदा नान्यत्रेति वक्तुमर्हति । सत्यम् । यदाई नान्यत्र तदाहमिहेति व्यतिरेकव्याप्तौ यदा नाहमिह तदान्यत्रेत्यन्वयव्याप्तौ यत्तदोय॑त्यासेन योजनात् । समव्याप्तिकत्वस्फोरणार्थमेवमुक्तमित्यन्ये ।
Page #87
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः
२०३
नतु देशान्तरस्येन्द्रियासंनिकृष्टत्वात्कथं तत्र स्वव्यतिरेको ग्राह्यः । न । स्वात्मन्येव देशान्तरसंसर्गाभावग्रहात । ननु व्याप्तिसत्त्वेऽपि गृहासत्त्वस्य देवदत्तावृत्तित्वादपक्षधर्मतया नानुमानमित्यत आह-न चेति । गृहनिष्ठाभावप्रतियोगित्वस्य ङ्गिस्य पक्षधर्मत्वादित्यर्थः । उपरि सविता भूमेरालोकवत्त्वादित्यत्रापि यदा तदेत कालगभैव व्याप्तिर्गृह्यते । भूमेरुपरि संनिहितसवितृकत्वं वा साध्यम् । ननु व्याप्तस्य पक्षधर्मत्वमनुमानत्वम्, व्यतिरेकिणि तु व्यतिरेकयोर्व्याप्तिरन्वयस्य च पक्षधर्मत्वमतो नानुमानत्वम् ।
I
अत्राहुः । व्याप्तिपक्षधर्मतोपजीवनेन यद्बोधकं तदनुमानम् । व्यतिरेकिणोऽपि साध्याभावव्यापकाभावप्रतियोगिनः पक्षधर्मतया तद्विशेषत्वं स्यात् । व्यतिरेकव्याप्त्या वान्वयव्याप्तिरनुमीयते । यथा च विशेष्यासंनिकर्षे तृतीयलिङ्गपरामर्शस्तथा तृतीयलिङ्गपरामर्शस्थल एव व्युत्पादितमधस्तात् । न चात्रेति । जीवी देवदत्तः काप्यस्तीत्येकं प्रमाणं गेहे नास्तीत्यपरमनयोर्विरोधज्ञानं करणमविरोधज्ञानं फलमपि नेत्यर्थः । तथाचेति । एकस्मिन्धर्मिणि मिथो विरुद्धार्थग्राहिणोरेकस्य मिथ्यात्वावश्यकत्वात्तयोर्मानत्वमसिद्धमित्यर्थः । विभिन्नेति । प्रमाणन्त्वे वा भिन्नविषयत्वमावश्यकमित्यर्थः । ननु क्वचिदस्तीत्यस्य क्वचित्वेन गृहस्यापि विषयीकरणाद्गेहेऽस्तिनास्तीतिवदेकविषयतया विरोधः स्यादित्याह - सामान्यत इति । विभिन्नदेशतयेति । विषयभेदेन यदुपपादनं तत्प्रमाणयोर्वैषयिकभेदप्रतिसन्धानात् । तच्च भावाभावयोर्भिन्नदेशतयैवोपलम्भात् । तथाच व्याप्तिज्ञानमावश्यकमित्यर्थः । प्रसिद्धानुमानेति । धूमा
Page #88
--------------------------------------------------------------------------
________________
२०४ गुणनिरूपणम् द्वह्निसत्त्वेऽनुपलब्धेश्च तदसत्त्वे भावाभावग्राहकयोर्विरोधेऽर्वाग्भागपरभागयोस्तव्यवस्थापनमापत्तिफलमेव स्यादिति नानुमानं स्यादित्यर्थः। अनुमानाभाव इति। धूमावह्निना भाव्यमित्यनेन सममनुपलब्धर्विरोधस्तदा यदि धूमो बढेरनुयापकः स्यात् । तथाच सिद्धमनुमानमित्यर्थः। व्याप्तिग्राहकेणेति। अनुमानेन समं विरोधो नोक्तः किन्तु धूमवह्निव्याप्तिग्राहकमानेन सहेत्यर्थः। अथ सामान्यग्राहकमानस्य विशेषतोऽनुपलब्धिर्वाधिकैव तदा क्वचिदस्तीत्यस्यापि गेहे नास्तीत्यनेन सहन विरोध इति तुल्यमिति भावः। केवलव्यतिरेक्यादिवदिति । यथा केवलव्यतिरेक्यनुमानान्तरात्केनापि वैधम्र्येण पृथक् तथा श्रुतार्यापत्तिरपि दृष्टार्थापत्तेः पृथगस्त्वित्यर्थः । एकस्येति। पीनो देवदत्तो दिवा न भुङ्क्त इत्यत्राप्रसिद्धरात्रिभोजनस्य भोजनसाध्यपीनत्वज्ञापनमनुपपन्नं रात्रिभोजनमादाय सिध्यति । तथाहि । यथाऽभोजी पीन इत्यत्र न योग्यताज्ञान तथा पीनो देवदत्तो दिवा न भुङ्क्त इत्यत्रापि दिवाभोजनस्य योग्यताघटकरात्रिभोजनस्याप्रतीतेः । अतो योग्यताघटकोपस्थितिं विनान्वयमलभ. मानमिदं वाक्यं योग्यताघटकरात्रिभोजनोपपादकं रात्रौ भुङ्क्त इति वाक्यं कल्पयित्वा तेन सहान्वयबोधं जनयति । एवञ्च श्रूयमाणस्यान्वयवोधजनकत्वं योग्यताघटकोपस्थापकेन शब्देन विनानुपपद्यमानं तं कल्पयित्वा यत्रान्वयत्रोधं जनयति तत्र श्रुतार्थापत्तिरित्यर्थः । ननु लाघवाद्रात्रिभोजनमेव कल्पयितुं युक्तं, शब्दस्यापि तदुपस्थापनद्वारा योग्यताघटकत्वादित्यत आह-शाब्दी हीति । तथाच शब्योपस्थापितयेव पदार्थणादायान्वयबोधकत्वमिति शब्द
Page #89
--------------------------------------------------------------------------
________________
किरणावलीप्रकाश
२०५ एव कल्प्यत इत्यर्थः । तदुपपादयति-न हीति । ननु यत्र किं पचतीत्युक्ते कलायं दर्शयति तत्र शब्दं विनापि भवत्येवान्वयबोध इत्यत आह-कचिदिति । अन्यत्र तथा कल्पनादित्यर्थः ।
ननु पचतीत्युक्त स्वयं स्मृतेनान्योदीरितेन वा कलायमिति शब्देनापि नान्वयबोधः । अथ तस्य पचतीत्यन्वयपरत्वं न ज्ञातमित्यन्वयबोधस्तथिकल्पनेऽपि तदर्थान्वयपरोपस्थितिरन्वयवोधाङ्गमित्यस्तु । एवं द्वारामित्यत्रापि लाघवापिधानमेव कल्प्यते न तु पिधेहिशब्दः।
___ अबाहुः । द्वारमित्यत्र पिधहिशब्दाध्याहारं विना द्वितीया न स्यात् । क्रियावाचकसमभिव्याहारं विना तत्साधुत्वाभावात् । किञ्च । यद्यन्यथोपस्थितेरेवान्वयवोधस्तदा घटमानयेत्यत्रेव घटः कर्मत्वमानयनं कृतिरित्यत्र कुतो नान्वयवोधः । अथ तथाविधपदोपस्थापितपदार्थ परस्परमाकाङ्क्षव नास्ति तर्हि पदार्थोपस्थितिमानं नान्वयवोधाङ्गम् । किन्तु पदविशेपोपस्थितः पदार्थः शब्दोपस्थापितपदार्थनान्वयप्रतियोगीति सिद्धम् । एवञ्च तत्र शब्दकल्पनात्पीनो देवदत्तो दिवा न भुङ्क्त इत्यत्रापि रात्रौ भुङ्क्त इति शब्द एव कल्प्यते ।
अनुमितेनेति । यद्यपि पीनत्वं पदार्थतया नानुमेयम् । तथापि दिवसाभोजनविशिष्टं पानत्वं वाक्यार्थतयानुमेयमेव ।
ननु वाक्यार्थस्यानुमेयत्वेऽपि योग्यतादिकं लिङ्गविशेषणमिति भाविनः कथं पदार्थसंसर्गोऽनुमेयः। . .
उच्यते । वाधकमानाभावो योग्यता । अतो दिवा भोजन
Page #90
--------------------------------------------------------------------------
________________
२०६
गुणनिरूपणम् - वाघेऽपि भोजनसामान्यं वाधितं नास्ति । यावद्विशेषबाध हि सामान्यबायो, न चेह रात्रिभोजनमपि बाधितम् । एवञ्च भोजनसामान्यमादाय योग्यताज्ञानं भविष्यति रात्रिभोजनाज्ञानेऽपि । ___ यत्पुनरिति । यथाभूतस्य यस्य गमकत्वं तथाभृतस्यैव लिङ्गत्वं स्यादिति भावः । न हि कार्यमिति । यद्यपि शतसंख्या कार्या न सहस्रसंख्या । तथापि शतारम्भकैकत्वारभ्यत्वं सहस्रस्यास्तीति शतसहस्रसंख्ययोः कार्यकारणभाव उक्तः ॥ ____ कचित्प्रत्यक्षामिति । इन्द्रियव्यापारान्वयाद्यनुविधानादित्यर्थः । ननु चाभावो न प्रत्यक्षः। इन्द्रियेण संनिकर्षाभावात् । न च विशेषणतामाप्तिः। समवायानभ्युपगमेनात्र तदकल्पनात् । नाप्यभावोऽनुमानम् । तस्याप्रत्यक्षस्याज्ञायमानतयालिङ्गत्वादित्याहनन्वभावस्येति। तस्याभावस्येत्यर्थः सचाभाव इति। अभावप्रतीतेः साक्षात्कारित्वेनेव प्रत्यासत्त्यन्तराभावेन विशेषणतायाः प्रत्यासत्तेः कल्पनादित्यर्थः । न विहेति । तथाच साक्षात्कारिवासिद्धौ न ततो विशेषणताकल्पनमित्यर्थः । वैजात्यादिति । प्राङ्नास्तितायामभावधारानुमानिकी न प्रत्यक्षा । तथाच प्रत्यक्षा- भावप्रतीतौ नेन्द्रियव्यभिचार इत्यर्थः । अन्यथातिप्रसङ्गमाह-तथा व्यभिचार इति । एकजातीयत्त्वाभावेऽपि व्यभिचार्यवत्यर्थः । तस्येति । तस्येन्द्रियस्य । वज्रलेपायमानवाढव्यभिचारित्वादित्यर्थः । एकज्ञानेति । चैत्रेण सममेकग्रहणयोग्यस्य ज्ञायमानत्वेऽ. पीत्यर्थः । संयुक्तविशेषणतया मनःसंनिकण स्मरणाईस्य चैत्रस्य स्मरणाभावं गृहीत्वा तेन लिङ्गेन भूतले तदानी चैत्राभावय
Page #91
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः
२०७ नमिति भावः ।
नन्वेकग्रहणज्ञानयोग्यतायामपि संस्कारोबोधकवशात्किञ्चिदेव स्मर्थने न सर्वमित्यस्मरणमन्यथासिद्धम् ।
अत्राहुः । यदभूतलं घटादितुल्यपरिमाणवद्र्व्यवत्तत्काले भवति तदद्रव्यवत्तया तभूनल मया स्मर्यत एव परमिति व्याप्तिः । तथाच स चत्रो न तत्काले भून लवर्ती घटादितुल्यपरिमाणत्वे सति तत्काले नभनलवर्तितया मयेदानीमस्मर्यमाणत्वात् मैत्रवत् । न चाप्रयोजकत्वम् । यदि स चैत्रो घटादितुल्यपरिमाणत्वे सति तत्काले तदभूनलवर्ती स्यात्तदेदानीं तदभूतलवर्तितया घटवत् स्मर्येतेति तर्कसदभावात् ।
नवमिति । भतलस्य पक्षत्वे ज्ञानाभावो व्यधिकरणो न लिङ्गम् । तस्य प्रतियोगिसमानदेशत्वे नानात्मटत्तित्वादिति शङ्कार्थः। भृतलेति । ययप्यभावस्य सविपयकत्वं नास्ति । तथापि भूतल. विपयकज्ञाननिरूप्यत्वमेव भूनलज्ञानाभावयोः सम्बन्धः । परस्य त्विति । तन्मते त्वनुपलब्धिलिङ्गतया न प्रमाणं येन व्यधिकरणिका न गमिका । किन्त्वात्मन्येव वर्तमाना स्वातन्त्र्येण प्रमायां करणमित्यर्थः । वस्तुगत्येति। नाभाववत्तया ज्ञायमानेन । येनोक्तदोषः स्यादित्यर्थः । तदेव विशदयति-न चेति । वस्तुतो घटबद्भतलं घटाभावाभावादित्यर्थः । सत्तामात्रेणेति । अभावस्येति शेषः । ननु घटाभाववता भूतलेनानुपलब्धिनिरूप्यतां नाभाव इत्यत आह-यदि त्विति । तच्च जात्युत्तरमेवेति । अनुपलब्ध्यैव घटसत्त्वमसङ्गोऽनुपलब्धिसमा जातिः स्यादित्यर्थः। न चेदेवमिति। अनुपलब्धि
Page #92
--------------------------------------------------------------------------
________________
२०८ गुणनिरूपणम् प्रमाणत्वपक्षेऽपि कीदृशेन भूतलेन सा निरूप्यतेत्यर्थः । नन्वभावधीन प्रत्यक्षा येन वैजात्यान्न व्यभिचारः। न चेन्द्रियान्वयव्यतिरेकानुविधानात्तथा। इन्द्रियेण प्राप्त्यभावात्तयोराश्रयग्रहोपक्षीणत्वमनुमिताविवेत्याह-स्यादेतदिति । एवं तर्हि रूपादिधीरपीन्द्रियजन्या न स्यादाश्रयग्रह एवेन्द्रियोपयोगात् । अथ साक्षात्करोमीत्यनुव्यवसायात्तत्र तथा तुल्यमिहापीत्याह-भवेदेवमिति। अत एव नेन्द्रियायोग्यत्वमपीत्याह-न च योग्यताया इति । तथा . सतीति । योग्यताव्यतिरेके सति साक्षात्कारव्यतिरेकः तस्मिंश्च सति योग्यताव्यतिरेक इत्यन्योन्याश्रय इत्यर्थः । तहि यत्रोति । अमावेनापि सहेन्द्रियाव्यवधानात् सोऽपि साक्षात्कारविषय इत्यर्थः। ननूक्तमिन्द्रियेण प्राप्तिर्नास्ति । न चेन्द्रियं प्राप्तविशेषणमप्राप्तमपि गृह्णाति । न च विशेषणताप्राप्तिः । समवायानभ्युपगमेनान्यत्र तदकल्पनात् । न चाभावस्यन्द्रियकत्वादिहैव तत्कल्पनम् । अन्योन्याश्रयात् । विशेषणताकल्पनायां तत्सिद्धेस्तसिद्धौ च विशेषणताकल्पनमिति । तस्मादिन्द्रियमाश्रयग्रह एवान्यथासिद्धम् । योग्यानुपलब्धिधीरेवाभावधीकरणम् । त्वयापीन्द्रियसहकारित्वे तस्या हेतुत्वोपगमात् । तदुपलम्भे तदभावाग्रहादित्यत आहयदि चेति । इन्द्रियस्याश्रयग्रहेणान्यथासिद्धावर्थस्य नीले पटे रक्ताभावोपलम्भः स्यात् । आश्रयग्रहणप्रतियोगिस्मरणयोग्यानुपलब्धीनां सत्त्वादित्याह-अर्थस्यापीति । ममापीति । अर्थस्य तु रूपग्राहकेण चक्षुपा न पटस्योपलब्धिरिति नातिप्रसङ्ग इत्यर्थः।
Page #93
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः
२०० यायायिनि । प्रतियोगितारण क्षुपा वायोरग्रहात । किन्तु बना विनये नदारः । पायर्या रूपाभाय इति धीरनुपलब्धेन यादित्यर्थः ।
नन यथा नीम्पो चायनिनि धीर्वाविप्यका भवनामानुमानिती नियमान्यनामाश्रिन्येन्द्रियाणां प्रत्तेः नया वायुविशेषणरानावनीमपि मानमन ललिइमनः साक्षात्कारित्वाभिमनानावनानानि नामानि नोक्तदोषः ।
म । पानी पाभाव निधी: नाक्षात्कारिण्येव । या हि नियोगिमतविरोधिनी माऽनपलब्धिः । सा योग्यानुपलब्धिरमानवाटिका । मा नानिष्ट महान गायावस्त्येवेति बायावपि नायव मराभायमनीनिः । युक्तं पदम । अजानयोग्यानुपलब्धिमहिनादन्यवाचन विधायिन रन्द्रियादव भुनले घटाभावप्रनीतिवद्वायौ गाभावमननियम्भवान । अन्यथा घटादावपि गन्धरसविशेपाभावनानिरपि यांन्यानुपलब्धिलिङ्गादेव स्यात् । विनिगमकाभावान । यस्तुनों वायों रूपाभावधीनांनुपलब्धिलिङ्गजन्या । आप्तबायपादनदोरकम्याभावात् । न चानानेच रूपोपलव्धेरनुपलब्धिस्नद्रोधिका । ननों (जो ) पलब्धरतीन्द्रियतया योग्यानुपलब्ध्या नदभावम्याग्रहात । अनुपलब्धिमात्रस्य चाभावाग्राहकत्वात् । किन । वस्तुनो घटवत्युपलब्धिप्राकालेऽनुपलब्ध्या घटस्मृतिः कुनो नामावधीः । घटाभावाभावादिति चेत् । त भावबुद्धेरर्थनत्वात् साक्षात्कारितयेन्द्रियजत्वमेव । इन्द्रियं च नामाप्तग्राहकमिति नत्माप्तिरपि विशेषणता कार्यदर्शनात्कल्प्या संयोगवत् ।
Page #94
--------------------------------------------------------------------------
________________
२१० गुणनिरूपणम् तथापीति। तदिन्द्रियम् । तत्र रूपाभावानुभवे । संनिकृष्टमित्यर्थः ।
प्राभाकरं समुत्थापयति-यत्पुनरिति । व्यभिचारमेवाहपटद्वितीय इति। यद्यप्यद्वितीयत्वं द्वितीयाभावस्तथाचाभावः सिद्ध एव । यद्यपि च पटज्ञानभूतलस्वरूपज्ञानाभ्यां पटाभावव्यवहारः क्रियते तत्र भूतले ज्ञातेऽपि पटो न ज्ञात इति न भवंति पटाभावव्यवहारः । तथाप्येतस्मिन् वाधके सत्येव वाधकान्तरमुक्तम् । न च केवलं भूतलं तदालम्बनम् । घटविरोधिनोऽतिरिक्तकैवल्यस्यानङ्गीकारात् । अङ्गीकारे वा स एवाभावः । प्रतियोगित्वं विरोधित्वम् । विरोधश्च सहानवस्थाननियमो वा वध्यघातकत्वं वा । आये। न तावदिति । द्वितीये । परस्परमिति। नाप्यभावेति। व्यवहर्तव्यस्याधिकस्याभावे तस्य भाववत्यपि प्रसज्जितत्वेनानिरासकत्वादित्यर्थः । नन्वतिरिक्ताभाववादिनाप्यभावः साश्रयो वाच्यः, देशादिनियमेन व्यवहारात । तथाचाश्रयो भूतलविशेपो वाच्य इति स एवाभावव्यवहारहेतुरित्याह-यत्पुनरिति । यद्धटाश्रयस्येव विशेषस्यैवाभावाश्रयत्वम् । अन्यथा गोत्वादिकमपि न स्यात् । तदाश्रयविशेषादेव तद्यवहारोपपत्तेरित्याशयेनाह-भावव्यवहारस्थापीति । व्यवस्थेति । येन केनापि द्वितीयेन घटबद्वयवहारापत्तेरित्यर्थः।
ननु घटबद्भूतलबुद्धिभिन्ना भूतलबुद्धिरभावव्यवहारहेतुः । न चैवं घटवति घटवत्त्वाज्ञाने भूतलवुद्धिरभावः । वस्तुतो घटवतो भूतलस्य ज्ञानाद्भिन्नस्य भूतलज्ञानस्याभावत्वात ! बुद्धयोश्च भेदः स्वरूपविशेपावेव । घटवद्भूतलभिन्नभूतलमेव वाऽभावव्यवहारहेतुः ।
Page #95
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः
२११
मैत्र । भूतलवृद्धयोर्निप्पनियोगिकत्वेन समतियोगि काभावस्वभावत्वाभावात् । न चाभावो न सप्रतियोगिकः किन्त्वभावव्यवहार इति युक्तम । उह घटो नेति प्रतीत्या नञर्थस्यैव सप्रतियोगिकतया विषयीकरणात् । न त्वभावज्ञानोत्तर कालभाविनस्तद्वयवहारस्य । तस्याभावज्ञानकालेऽप्रतीतेः व्यवहर्तव्यज्ञानस्य सत्यामिच्छायां व्यवहारेऽधिकापेक्षाया अदृष्टचरत्वात् । किञ्च । ज्ञानाभावस्याचाक्षुपत्वादभावश्चाक्षुपो न स्यात् । अपि चाधिकरणज्ञानयोरभावले आधागधेयमनीत्यनुपपत्तिः । स च यस्मिन्कालविशेषे भूतन्यादावभावः स्वीक्रियते तत्कालविशेषयोग एव भूतलस्याभाव इति तटुपपत्तिः, तत्कालयोग्यस्य भतलवृत्तित्वादिति वाच्यम । इदानीं भूतले घटाभाव इति प्रतीत्यनुपपत्तेः । तत्कालविशेषे तत्कालविशेषयोगाभावात् । संसृज्यमानेति । संसर्गावच्छिनप्रतियोगिको भावः संसर्गाभावः । तादात्म्यावच्छिन्नप्रतियोगिकोSभावस्तादात्म्याभावः । प्रतियोगिनमारोप्य यत्र निषेधधीः स संसर्गाभावः । प्रतियोगितावच्छेदकमारोप्य यत्र निषेधज्ञानं स तादात्म्याभाव इत्यस्मत्पितृचरणाः । चरमसामग्री प्रागभावग्राहकं रूपमुपन्यस्तम् । लक्षणं स्पन्दवत् । कालमात्रवृत्त्यभावत्वं प्रागभावत्वम् । प्रागभावप्रतियोग्यभावः प्रध्वंसः । एतद्द्वयातिरिक्तः संसर्गाभावोऽत्यन्ताभावः । घटवत्संसर्गेति । घटस्य तत्समवायस्य चात्यन्ताभावो यदि विषयः स्यात् घटवत्यपि भूतले प्रसङ्ग इत्यर्थः । संसर्गविशेषेति । संसर्गविशेषः संयोगलक्षणः । तदत्यन्ता मावालम्वनत्वमित्यर्थः ।
Page #96
--------------------------------------------------------------------------
________________
गुणनिरूपणम्
नहि घटो नास्तीति बुद्धेर्यदि संयोगात्यन्ताभावो विषयस्तदा घटसंयोगो नास्तीति प्रतीतेराकारः स्यात् ।
मैचम् । यथा हि भूतले घटास्तित्वव्यवहारस्तत्संयोगेन तथा तदभावेन घटाभावव्यवहृतिः । यत्पुरस्कारेण यत्र यद्भावव्यवहारः, तत्संबन्धाभावात्तत्र नास्तिताव्यवहारात् ।
केचित्तु | घटात्यन्ताभाव एव तद्विषयः । उत्पादविनाशप्रत्ययस्तु तत्संवन्धतथात्वप्रयुक्तः । स च संयोगध्वंसरूपः । न चैव घटात्यन्ताभावसंवन्धस्य संयोगध्वंसरूपतया नित्यत्वात्तत्र घटधीः कदापि न स्यादिति वाच्यम् । न हि घटसंयोगोऽस्ति तत्र तत्संयोगध्वंसः । सामान्यध्वंसस्य यावद्विशेषध्वंसव्याप्यत्वादेकविशेषवति सामान्यध्वंसस्याभावेन तदुपपत्तिरित्याहुः ।
२१२
अन्ये तु । यथा प्रतियोगिभेदेनाभावभेदस्तथा तदवच्छेदकमेनापीति । तत्र संयुक्तघटस्याभावः । स चान्यविशिष्टभाववदुत्पादविनाशशीलोsन्य एवेति वदन्ति ।
यथानादिसंसर्गाभाववैधर्म्येऽपि प्रतीतेरनन्यथासिद्धत्वादुत्पादनशीलो ध्वंसः स्वीकृतस्तथा तत एवोत्पादविनाशशीलस्तुरीयः संसर्गाभावो घटस्येत्यप्याहुरेके । स चायमिति । संसर्गाभावश्चायमित्यर्थः ॥
अवाधिताकारमित्यनेन प्रमाणत्वमुक्तम् । आचाराच्चेति । वटे वटे यक्षः प्रतिवसतीत्यैतिह्याव सत्तां पूजनाचारः । तस्मात् स्मृति: । ततश्च श्रुतिरनुमीयत इत्यर्थः । आप्तोपदेश एवेति । यद्यपि विशिष्य वक्तृज्ञानं नास्ति तथापि महाजनपरिग्रहात प्रामा
Page #97
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः ण्ये आप्तोक्तत्वमनुमीयते ।।
ननु विपर्यस्ताव्युत्पन्नयोरजिज्ञामुत्वात् कथं व्युत्पाद्यत्वमित्यत आद-प्रकृतमिति । तदनेनेति। तथाच परार्थानुमाने पञ्चावयववाक्यं विना न समस्तरूपोपेतलिङ्गप्रतिपादनमिति न व्यभिचार इति भावः । ननु पक्षावयववाक्यं स्वार्थानुमितौ न यदि प्रयोजक तत्कथं परार्यानुमितौ तथेत्यत आह-न होति। पदानि पुनरिति। व्यवहाराच्छक्तिग्रहे तत्कारणतयोपस्थिते इतरान्विते स्वार्थे पदानां शक्तिग्रहादितरान्वितं स्वार्थं स्मारयन्ति पदानि वाक्यार्थज्ञाने लिङ्गम् । ___ या पदार्थमात्रज्ञानशक्तिग्रहात्तन्मात्रं स्मारयन्तीति विचारोऽस्माकं निप्पयोजनो न निराक्रियत इत्यर्थः । यद्यपि शब्दस्यास्वातन्त्र्येण प्रामाण्यानभ्युपगमेऽपीतरान्वितानन्वितपदार्थयोः शक्तिरस्त्येव । तथापि स्वातन्ध्येण प्रामाण्यानभ्युपगम आर्द्रकवणिक्त्वे हेतुः । अन्यथापीति । इतरानन्वितपदार्थमात्रशक्त्यापीत्यर्थः । पदार्यशक्तत्वेन ज्ञातानि पदान्याकाङ्क्षादिसाचिव्यादन्वितं स्वार्थ बोधयन्तीति नान्वये शक्तिः । किञ्चान्विते शक्तिरित्यस्य . यत्र शक्तिस्तत्पदार्थान्वितमित्यर्थः। तदास्मत्पक्षेऽपि तत्संभव इत्याह-यत्र व्युत्पत्तिरिति । व्युत्पत्तिः शक्तिः । न हि सामान्यतः इति। न च पदादन्यदन्वितसामान्योपस्थापकमस्तीति भावः। आक्षेपतोऽपीति । क्रियाकारकयोर्मियो व्याप्यत्वादेकेनापरस्यानुमानात् सामान्यतोऽन्वितज्ञानमस्तीति तद्विशेषे जिज्ञासा स्यादित्यर्थः । अपि च पदानां स्वार्थान्वये वाशक्तिरन्वितस्वार्थे वा । आधे सर्वपदार्थाना-.
Page #98
--------------------------------------------------------------------------
________________
२१४
गुणनिरूपणम् मुपसर्जनापत्तिर्विशेष्यालाभश्च । द्वितीये स्वार्थविशेष्यकप्रतीत्यजननाद्वाक्यभेदापत्तिः । किञ्चान्वये पदानां शक्तियदि वोधकतामात्र तदा सिद्धसाधनम् । अथान्वितत्वेनैव शक्तिः। तन्न । आकाङ्क्षाधुपेतपदार्थान्तरोपसंदानत एवान्वयज्ञानोपपत्तावन्यलभ्यत्वात् । अनन्यलभ्यपदार्थमात्रे शक्तिकल्पनात् । इदं च त्वयापि वाच्यम् । पदादन्वयमात्रोपस्थितावपि तद्विशेषज्ञानार्थं तदपेक्षणात् । अवश्यं चान्वयवोधे आकाङ्क्षादीनामसाधारणी निमित्तता वाच्या। वाक्यैकवाक्यतादौ प्रतीयमानान्वये पदशक्तेरभावात् । एवञ्चावश्यकपदार्थशक्तेरेवान्वयविषयतोपपत्तौ प्रतिवाक्यार्थमन्वयशक्तिभेदस्वीकारे गौरवमित्यन्यत्र विस्तरः । ननु यदि पदानामन्विते शक्तिर्नास्ति किन्तु पदार्थ एव (परम्) । तथाच यतः कुतश्चिदुपस्थितेषु पदार्थवन्वयबोधः स्यादिति पदानामेवान्वयवोधे शक्तिरास्थेयेत्याहशब्दमहिमानमिति। ___ भट्टमतेन परिहरति-आधुनिकेति । शब्दव्यतिरेकेऽपि संस्कारादुपस्थितानां पदार्थानामन्वयवोधादन्वयवोधे पदार्था एव ज्ञाताः करणम् । पदानि पुनः स्वार्थोपस्थितावेवान्यथासिद्धानीत्युपेयम् । अन्यथा नवकाव्यसंसर्गवोधात्पदरचना न स्यादित्यर्थः। न चावश्यकपदशक्तरेव पदार्थवदन्वयोऽपि विषयोऽस्तु न तत्र शत्यन्तरमुचितमिति वाच्यम् । श्रुतेऽपि पदे यावन्न पदार्थ उपतिष्ठते तावदन्वयामतीतरुपस्थितेषु पदार्थेष्वन्वयावगमादवश्यं पदार्थानां कारणत्वेन शक्तत्वात् ।
ननु पदार्थानामतीतानागतत्वाद्वोधकतैव नास्ति । दूरे ज्ञाता
Page #99
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः २१५ शक्तिः । तज्ज्ञानानां कारणत्वेऽपि न तत्राभिधाशक्तिकल्पनम् । तस्याज्ञातस्यैव देतत्वात् ।
मैवम । लिप्यादिस्मृतानामप्यतीतानागतत्वादवोधकत्वापत्तेः। स्वमतेन बोधकमाह-न च येनेति। गौरवस्येति। यथाभिहितान्वयवादिनां शक्तिस्वीकारे गौरवं तथान्विताभिधानवादिनां वाक्यार्थे संसर्गविशेपे पदानां शक्तचन्तर स्वीकारे गौरवमित्यर्थः । ज्ञातानां पदार्थानामकारणत्वे तु वीज व्युत्पत्तिकाल एव प्रयोजकवाक्यश्रवणानन्तरं प्रयोज्यव्यापारदर्शनादर्थादन्वितज्ञानोपपत्यर्थमन्वितबोधकत्वं शब्दम्यव गृह्यते । तदर्थ तन्निर्वाहार्थमर्थोपस्थितिरपि सहकारिणी कल्प्यन इति न तथैव शब्दस्यान्यथासिद्धिः । शब्दतदर्थयोरुपस्थितयोरन्ययबोधकत्वात् । कुत्र करणत्वमिति संशये प्रथमोपस्थितत्वादन्वितस्वार्थप्रतिपादनपरत्वात्पदानामन्वयवोधकत्वम् । पदार्थस्मृतिस्तद्वयापारः कल्प्यत इति ॥
अर्थप्रतिपादकत्वं शब्दत्वं न पञ्चावयववाक्यस्य, किन्तु तदभिव्यक्तस्य स्फोटस्येति पञ्चावयववोधकमिति मतमुत्थापयतिस्यादेतदिति। तत्र चतुर्णा प्रत्येकं मिलितानां वा नान्वयवोधकत्वमित्यर्थापत्तिनमानमन्योन्याश्रयादित्याह-यद्यपीति। तथापीति। गोपदमेकमित्यनुभवः पदैकगोचरो न नानावर्णविषयक इति तद्भिअमेकं स्फोटाख्यं पदं बोधयति । अभिन्नार्थमभिन्नमेकमर्थं साधयसीत्यर्थः ।अत एवेति।[अर्थः] पदार्थस्तस्य संबन्धः संकेतस्तस्याख्यानं वोधनमप्युपाधिर्नास्त्यत एव परस्पराश्रयस्यानुपूर्वीविशेषविशिष्टस्य पदत्वात् । तस्याश्चाननुभवत्वादित्यत आह-एकार्थेति ।
Page #100
--------------------------------------------------------------------------
________________
२१६
गुणनिरूपणम्
प्रत्येकमानुपूर्वीविशेषविशिष्टस्य पदत्वात् तस्याश्चाननुभवत्वादित्यत आह - एकार्थेति । प्रत्येकमानुपूर्वी विशेषविशिष्टवर्णानुभवजनितसंस्कारेभ्यस्तादृशवर्णगोचरायाः समूहालम्बनैकस्मृतेः संभवात । पदार्थमत्ययस्यान्यथानुपपत्तस्तावत्संस्काराणां युगपद्बोधकल्पनात् । पदत्वप्रतिसन्धानं विनैकवर्णमात्रग्रहात् संकेतस्मृतेरभावात्तां विना पदार्थस्मृतेरभावात् । न च वर्णानुभवेऽपि तत्तदानुपूर्व्यनुभवान्न पदत्वप्रतिसंधानम् पूर्ववर्णध्वंसविशिष्टापरवर्णस्यानुपूर्वीत्वात्तस्यापरवर्णानुभवकाळ एवानुभवात् । वाक्यार्थज्ञाने च पदार्थानामानुपूत्र न कारणमित्यर्थः । अन्यथा स्फोटस्य वर्णाभिव्यक्तत्वपक्षे किमेकैकं वर्णानां स्फोटाभिव्यञ्जकत्वमथवा मिलितानामिति विकल्पे यथोक्तदोषापत्त्यानन्यगत्या त्वयाप्येषैव रीतिरनुगन्तव्येत्याहअन्यथा त्विति । एवं वाक्यमपि पदान्येकस्मृतिसमारूढानि जनयन्तीत्यनन्यगत्या स्वीकर्तव्यं नानापदानामेकपदत्वानुभवादित्याहपूर्वपूर्वेति । तत्र प्रकारान्तरेणापि प्रतीत्युपपत्तिमुपन्यस्य निराचष्टेतथाचेत्यादि । लब्धेति । श्रोत्रसंस्काराभ्यां सदसद्वर्णावगाही स्मृत्यनुभवो विचित्रप्रत्यय एवार्थप्रत्यय हेतुरित्यर्थः । समानतन्त्रादीति । अयमर्थः । स्मृतिनिचयसहितस्यान्त्यवर्णानुभवस्यैककालासंभवात् अन्त्योपान्त्यवर्णस्मृत्यनुभवयोरेकदा न संभवः । अन्त्यवर्णानुभव एवोपान्त्यस्मृतिरुत्पद्यते । एवं विनश्यदवस्थोपान्त्यवर्णानुभवाद्विनश्यदवस्यान्त्यवर्णानुभवयोरपि नार्थप्रतीतिहेतुत्वम् | अन्त्यवर्णानुभवकाले पूर्ववर्णानुभवाभावात् । स्मृत्यनुभवरूपमेकं ज्ञानं जातिसाङ्कर्यादेव नास्तीति ॥
Page #101
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः
२१७
तेन चेति । वर्णज्ञानेन यद्यप्युत्पद्यमानतोत्पत्तिकारणसान्निध्यं विनश्यत्ता च विनाशकारण सान्निध्यं द्वितीयज्ञानमेवेति न कार्यका रणभावस्तस्या ( था?) प्युत्पादविनाशौ । कारणत्वमाविष्कर्तुं तृतीयानिर्देशः। एवमुत्तरत्रापि । स्मरणानुभवयोरिति । अन्त्यवर्णानुभवस्य पदस्मरणादिः सर्वोऽयं व्यापार इति न व्यापारेण व्यापः रिणो व्यवधानामेति न विरोध इत्यर्थः । तच्छून्यं साधनशून्यमित्यर्थः । असाधनाङ्गत्वादिति । लिङ्गव्याप्तिपक्षधर्मतानुपदर्शकत्वादित्यर्थः । अथेति । हेतुप्रयोगार्थमेव प्रतिज्ञार्थ उपयुक्तोऽन्यथा किमुद्दिश्य हेतुः प्रयुज्येतेत्यर्थः । आद्य इति । प्रतिज्ञार्थानुपयोगे विप्रतिपत्ते - रनुपयोगः । तस्याः प्रतिज्ञासमानार्थत्वात् । अथ पक्षप्रतिपक्ष परिग्रहं विना कथकत्वाभावाद्विप्रतिपत्तेरुपयोगो न प्रतिज्ञार्थस्येत्युच्यते तर्हि साध्यानुपयुक्तत्वे हेतोरप्यनुपयोग इति प्रतिपत्तिमात्र पर्यवसितैव कथा स्यात् । यदि च विप्रतिपत्तेरेव --- मेव हेत्वाद्युपयुक्तं तर्हि प्रतिज्ञार्थ उपयुक्त एवेति भावः । विवादाद्वेत्यस्यैव विकल्पद्वये विवादादपि व्यवहिताद्वेति विकल्पं दूषयति—न तावदिति । आसत्तेरिति । अनासनेन विवादवाक्येन हेत्वादिवाक्यस्यैकवाक्यतानापत्तेरित्यर्थः । अनिग्रहे वेति । निग्रहानुद्भावने वेत्यर्थः । अवयवान्तरैकवाक्यतापन्नाद्वेत्यत्राह - द्वितीये त्विति ।
तथाभूतत्वात् ।
नन्वेवमपि शब्दो ऽनित्य इति विप्रतिपत्त्यनन्तरं पुनः शब्दोऽनित्य इति कोट्युपनयो व्यर्थ एव । विप्रतिपत्तेरेव ।
मैत्रम् | हेत्वाकाङ्क्षा हि न वस्तुस्वरूपे किन्तु तत्प्रमितौ ।
င်
-
Page #102
--------------------------------------------------------------------------
________________
२१८ : गुणनिरूपणम् : विप्रतिपत्तिश्च स्वरूपविषयैव । अत एव शब्दोऽनित्यतया प्रतिपत्तव्य इत्येव प्रतिज्ञार्थो लक्षणया शब्दोऽनित्य इत्यनेनोच्यते । तथाच वस्तुस्वरूपाद्विवादार्थादन्यः प्रतिज्ञार्थः पुनरभिधेय एवार्थभेदात् । अवयवान्तरादपि साक्षाद्वति पक्षं प्रतिक्षिपति-तृतीय इति । आक्षेपतो वेति पक्षं निरस्यति-नापीति । अपेक्षाकाले आकाङ्क्षाकाले । अन्यस्येति। तत्कल्पने आक्षेपकस्यावयवान्तरस्यैवाभावादित्यर्थः । ननु साध्यमप्रतिज्ञायापि साध्यमतिपत्त्यनुकूलहेत्वाद्यभिधानेऽपेक्षितसिद्धिः स्यादित्यत आह-अपेक्षितकरणेऽपीति। यदि च प्रतिपाद्याकाङ्क्षाक्रममनपेक्ष्याभिधानं तदान्यत्रापि तदपेक्षा न स्यादित्याह-वाक्यसामग्रीति । पक्षमुद्दिश्य साध्यविधानात् पक्षं प्रथमं निर्दिशति--वायुव्यमिति । अनुमानादेवेति । अनुमानमन्वयि साध्यप्रसिद्धौ स्यात् । व्यतिरेक्यपि यदि वन्हि पक्षीकृत्य क्रियते तदा सिद्धसाधनमन्यस्य पक्षत्वे बाध इत्यन्धपरम्परार्थः । . अत एव हीति । अनैकान्तिकापक्षधर्मत्वोपजीव्यत्वादेव सर्वत्र यदुपजीव्यं स्वतो दूषकं च तदेव पृथक् हेत्वाभास इत्यर्थः । . ननूपजीव्यत्वं न वाधमवगम्यवावगमः । तमनवगम्यापि शब्दानुमानाभ्यां तद्ग्रहात् । वस्तुत एकत्र धर्मिणि साधनसाध्याभावाविति समूहालम्बनरूपैकैव प्रतीतिः साधनसाध्याभावयोः सामानाधिकरण्योल्लेखिनी। अन्यथा धर्मिणि साध्याभावप्रमादशायां यदि साधनस्य ज्ञानं तर्यसिद्धिः स्यादित्येकवित्तिवेद्यत्वं तयोरिति नोपजीव्यत्वम् । नापि वाघमुपजीव्यैवोद्भावनं तत् । असिद्धेः।
Page #103
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः २१९ न हीदमनकान्तकमित्युक्तेः परस्य कथन्तावश्यकी । _ अथ प्रत्यक्षादौ प्रमामात्रं प्रति स्वातन्त्र्येण बाधकस्य दपणत्वेन कृप्तत्वादनुमितावपि स एव दोपः ।
मैवम् । तथा सति बाधस्य हेत्वाभासत्वव्याघातः । अनुमित्यसाधारणदोपस्यैव तत्त्वात् ।
अथ पक्षाभिमते साध्याभावग्रहवत् साध्याभावव्याप्यग्रहोऽपि दृपकः विरोधित्वाविशेषात् । एवञ्च साध्याभावसामानाधिकरण्यमनैकान्तिकत्वम् । साध्याभावव्याप्यसामानाधिकरण्यं वाधः ।
__ मैवम् । पक्षाभिमते साध्याभावग्रहस्य दृपकत्वासिद्धौ दृष्टान्तानुपपत्तेः । सिद्धौ वा तस्योक्तरूपवाधानन्तर्भावे पष्ठहेत्वामासापत्तेः ।
उक्तरूपश्च वाधः पक्षाभिमतविषयकसाध्याभावबुद्धौ सत्यामसत्यां वा । आधेऽनैकान्तिकत्वमेव । साध्याभावसामानाधिकरण्यग्रहात् । अन्त्ये लिङ्गत्वाभिमतसाध्याभावव्याप्ययोरगृह्यमाणविशेषतया सत्प्रतिपक्ष एव दोपो न वाधः । ___ उच्यते । पक्षत्वाभिमते धर्मिणि साध्याभावज्ञानस्य प्रमात्वमा निश्चित्य व्यभिचारादि ज्ञातुमुद्भावयितुं च न शक्यमित्युपजीव्यस्वाद्वाधः पृथक् । तथाहि । साध्याभाववत्तित्वनिश्चयः साध्याभावनिश्चयाधीनः । तन्निश्चयश्च न साध्याभावज्ञानमात्रात् । विशेपदर्शनेऽपि भ्रमादर्थनिश्चयापत्तैः प्रामाण्यानुसरणवैयापत्तेश्च । किन्तु साध्याभावज्ञानस्य प्रमात्वनिश्चयात् । न चैवमसिद्ध्युपजीव्यत्वेन सिद्धसाधनमपि पृथक् स्यादिति वाच्यम् ।. उपजीव्यत्वेऽपि
Page #104
--------------------------------------------------------------------------
________________
__२२०
गुणनिरूपणम् . स्वतो दूषकत्वाभावात् । पक्षत्वविघटनद्वारा तस्य दुपकत्वात् । __एवमसिद्धरपि वाध एवोपजीव्यः। साध्याभावज्ञानप्रमात्वानिश्चयादेव __ संदेहघटितपक्षत्वपरिघटनात् । अधिकं तु न्यायनिवन्धप्रकाशे तत्त्व.
बोधे च विपश्चितमस्माभिः। - घनमिति । निविडमित्यर्थः । धमिग्राहकानुमानानामपि विरोधित्वमुपपादयति-आकाशमिति । अभ्युपगतविरुद्धत्वमुपपादयति-क्षीरेति । ननु वैशेषिकशास्त्रविशेषोऽचेतनं तस्य चेतनधर्माभ्युपगमो न सम्भवतीति व्याचष्टे-विशेष इति । ननु सत्कार्यपक्षे मानाभावात् कथं तेन विरोध इत्यत आह-विवादेति ।
ननु दृषणान्तरदुष्टत्वादत्र व्याघातः कथं दूपणमुच्यत इत्याशयेन दृषणान्तरमुद्धर्तुमाह-यद्यपीति । कृतिविषयत्वं कार्यत्वं न सतः, असत एव कार्यत्वादिति न दूषणम् । क्रियाविषयत्वस्य कार्यत्वात् । क्रियात्वस्य चोत्पत्तिसाधारणत्वात् । करणेति । करणव्यापारात्मागपीति साध्यविशेषणेन विशिष्टस्य साध्यत्वात सपक्षाभावान्न ततो व्यावृत्तिरिति नासाधारण्यमित्यर्थः । नापीति । घटो जायत इत्यस्य जनिक्रियां प्रति कर्ता भवतीत्यर्थादसतश्चाकर्तृत्वात् कारकव्यापारात्माक् सत्वमवश्यवाच्यमिति नाप्रयोजकत्वमित्यर्थः।
एतच्चोपलक्षणम् । असञ्चेत् कारणव्यापारात्पूर्व कार्य, न तर्हि तस्य सत्त्वं कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रेणापि पीतं कर्तुं शक्यम् । असत्त्वं चेत्कार्यधर्मस्तथाप्यसति धर्मिणि न तस्य धर्म इति कार्यस्य सत्त्वं लब्धमित्यपि विपक्षवाधकं ट्रष्टव्यम् ।
Page #105
--------------------------------------------------------------------------
________________
किरणावलीप्रकाशः .. २२१ न चेदमिति । जनिक्रियां प्रति कर्तृत्वमित्यर्थः । अन्योन्याश्रयादिति । सत्कार्यदूषणे सति जनिक्रियाप्रतीतिर्धान्ता । तस्याश्च भ्रान्तत्वे सत्कार्यदोषा इत्यर्थः । तस्मात् कारणव्यापारादुर्ध्वमिव प्रागपि ततः सदेव कार्यम् । करणं चास्य सतोऽभिव्यक्तिरेव । यथा यत्र निष्पीडनेन तिलेषु तैलस्येति भावः । तथापीति । सत्त्वकारकव्यापारविषयत्वयोरेकत्रासंभवेन मिथो विरोधात प्रतिज्ञापदयोाघात इत्यर्थः । न हीति। कार्यस्वरूपस्य प्रागपि सत्त्वादित्यर्थः। असत्यपीति । असत्यपि व्यापारविषयत्वं न संभवतीत्यर्थः । स चेति । कारणव्यापारेणासत आयकालयोग एव क्रियंत इत्यर्थः । तत्क्रियेति । उत्पत्तिक्रिया: विषय इत्यर्थः। अतिप्रसक्तिरिति। असत्त्वाविशेषाव सर्वं सर्वेण जन्येतेतिवत् सत्त्वपक्षेऽपि सत्वाविशेषात् सर्व सर्वेणाभिव्यज्यतेति तुल्यमित्यर्थः । कारणेति । कारणस्वभावनियमानियमस्तुल्य इत्यर्थः । कर्तव्येति। कर्तव्यरूपं वस्तु घटादि तत्कालाविद्यमानम् । तत्साधकत्वे क्रियानिमित्तविरहात । क्रिया घटरूपा कारकपदप्रवृत्तिनिमित्तं तद्विरहाद कारकाभावेऽकारककार्योत्पत्तिः स्यादित्यर्थः । कृतीति । घटस्यासत्त्वकाले घटानुकूलकृतिविषयस्यापि ज्वालनादेः क्रियात्वम् । तदादाय च कारकत्वमित्यर्थः। धात्वर्थेति। धात्वर्थ एव क्रिया । धात्वर्थस्य च सार्वत्रिकत्वाद्भवति क्रियायाः कारणत्वम् । अन्यथेति। सत्कार्यवादेऽभिव्यक्तिमादाय कारकत्वम् । सा यद्यसती कथं तस्याः प्राकारकत्वं निरूप्यमथ सती तर्हि कुत्र कारकत्वमित्यर्थः । उपादानेति। घटार्थी हि घटोपादाने
Page #106
--------------------------------------------------------------------------
________________
२२२ गुणनिरूपणम् प्रवर्तते । तत्र घटस्योपलक्षणत्वेऽतिप्रसक्तिः । विशेषणत्वे च प्रागपि घटसत्त्वं प्रसक्तमित्यर्थः। सर्वसंभवेति । असत्त्वाविशेषेण घटसामग्रीतो घटषत् पटस्यापि सत्त्वप्रसङ्गादित्यर्थः । शक्तस्येति। शक्तत्वं शक्यनिरूप्यमिति शक्यस्य कार्यस्य प्रागपि सत्त्वप्रसङ्गादित्यर्थः । कारणभावादिति । कारणत्वं कार्यनिरूप्यमिति कार्यस्य प्राक्सत्त्वं सिद्धमित्यर्थः ।।
यस्तर्कतन्त्रशतपत्रसहस्ररश्मि - गङ्गेश्वरः सुकविकैरवकाननेन्दुः । तस्यात्मजोऽतिगहनां किरणावली तां पाकाशयत्कृतिमुदे बुधवर्धमानः ॥ इति महामहोपाध्यायश्रीवर्द्धमानकृतो गुणकिरणावलीप्रकाशः संपूर्णः ॥
Page #107
--------------------------------------------------------------------------
_