________________
किरणावली प्रकाशः
१३१ स्येति विशेषनिषेधात् सामान्यज्ञानला भे धर्मिज्ञानं संशायकं लभ्यते । कारणोपपत्तिरिति । कारणं व्याप्यं तदुपपत्तिराहार्यांरोपरूपा । परेणाभ्युपगतस्य हेतोर्निर्वह्नित्वस्य व्याप्यस्य य आरोपस्ततोऽनिष्टस्य निर्द्धमत्वस्याप्रसञ्जनं तर्क इत्यर्थः ।
यद्यपि संशयजिज्ञासे अप्यविज्ञाततत्त्वे मर्त्तेते । तथापि प्रमाणोपपत्तित इति तद्व्यवच्छेदः ।
अनियतजिज्ञासाविच्छेदेनेति । साध्यतदभावविषयकसमकोटिक जिज्ञासा निवृत्तेत्यर्थः ।
संशयस्य स्वनियत जिज्ञासात एव निवृत्तेः । संशयो हि विरोधिविपयकतया स्वसमानविषयापनुमितिं प्रतिबध्नाति । न हि विरोधिनो ज्ञानस्य निश्चयत्वं तन्त्रं किन्तु ज्ञानत्वमात्रं लाघवात । एवं तज्जनिताऽनियतकोटिका जिज्ञासापि तत्प्रतिबन्धिका । तत्प्रतिबन्धकत्वे विरोधिविपयत्वमात्रस्यैव प्रयोजकत्वाल्लाघवादिति । तन्निवृत्तिस्तक्र्व्वादित्यर्थः ।
·
•
ननु विरोधिविपयत्वेऽपि संशयस्याव्यवेस्थितको टिकतया हीनवळत्वान्न प्रतिबन्धकत्वंम् । अन्यथा तेन प्रतिबन्धादनुमानवत्तक्र्श्वोऽपि न प्रवर्त्तेत । न वा तत् संशयनिवृत्तिः । वैषयिको हि विरोधस्तत्र तन्त्रम् । न च निवर्त्तनीयनिर्वह्नित्वादिको टिविरुद्धविषयो यद्ययं निर्वह्निः स्यान्निर्द्धमः स्यादिति तर्कः । अत एवं । साध्यविरोधिजिज्ञासापि नानुमितिप्रतिबन्धिका । तस्या भपि संशयवदीनवत्वात् । तृतीयलिङ्गपरामर्शानन्तरं विरोधिजिज्ञासयानुमितिविलम्बे मानाभावाच्च । न च साध्यैककोटिका जिज्ञासा