________________
१.३० . गुणनिरूपणम् ... प्रकारकसमूहालम्बनाव्याप्तः । न च प्रकारस्यैकविशेष्यत्तितया न विशेष्यावृत्तित्वम् । प्रमाऽप्रमारूपसमूहालम्बनाव्याप्तः। :
न च यावद्विशेष्यावृत्तित्वं विवक्षितम् । एकैकविशेष्यवृत्तेविद्विशेष्यात्तित्वेन समूहालम्बनाव्याप्तः ।
नाप्यबाधितानुभवत्वम् । वाधस्य प्रमात्वा । नापि जातिविशेषः । योग्यवृत्तितया तत्संशयानापत्तेः।
प्रमात्वस्य नित्यानुमेयत्वात् । प्रत्यक्षत्वादिना सङ्करप्रसङ्गाच्च । उच्यते । यत्र यदस्ति तत्र तस्यानुभवः प्रमा । यद्यत्रं नास्ति तत्र तस्यानुभवोऽप्रमा । अत एव रजतमिदमिति ज्ञानमिदन्त्ववति तदनुभवात् प्रमा। रजतत्वाभाववति तदनुभवादप्रमा -1 न. चाव्याप्यतिममायामव्याप्तिः । भिन्नावच्छेदेन हि तत्र भावाभावयोतिः। तथाच यत्र यस्य , भादो न तत्र तस्याभावः । अविद्यायाः पश्चादनुमाने विद्यापूर्वकत्वादिति हेतुः अविद्यायाः प्रथमविभागे लघुमतिपत्तिकत्वादित्ति हेतुः । धमाशे सर्वधियां यथार्थतया सकल- ज्ञानव्यापकत्वेन विद्याया गुरुप्रतिपत्तिकज्ञानत्वात् । सूचीकटाहन्यायेनाविद्यायाः प्रथमं विभाग इत्यर्थः । ___ अथेति । तस्यायथार्थज्ञानत्वादविद्यायां तद्विभागो युक्त इत्यर्थः । . संशयात्प्रच्युता इति । संशयो हि दोलायितानेककोटिकः । तर्कस्तु नियतां कोटिमालम्बत इत्यर्थः । .
प्रमाकरणनिष्ठः प्रमाणसहकारी न तु तत्समवेतः। आविज्ञाततत्त्व इति । न विज्ञातं विशेषतो ज्ञातं तत्त्वं वास्तवं रूपं यस्यार्थ